________________
जैनतत्त्वप्रदीपेस्कन्धस्योत्पत्तिनिमित्तं भेदसंघातादयो भवन्ति । परमाणुनिमित्तं तु भेद एव ।
स्नेहसौम्यविगमे स्थितिक्षये च सति द्रव्यांन्तरेण भेदे खभावगत्या घणुकादिस्कन्धभेदेनोपजायमानरूपत्वं भेदजन्याणोर्लक्षणम् ।
. पुनरपि स्कन्धो द्वेषा, चाक्षुपेतरभेदात् । ' ___ स्वत एव परिणतिविशेषरूपत्वे सति वादरत्वे च सति चाक्षुषपरिणामभाक्त्व च सति भेदसंघाताभ्यां समुपजाय. मानत्वं चाक्षुपस्कन्धस्य लक्षणम् । अथवा भेदे सति अन्य. संघातान्तरसंयोग सति सूक्ष्मपरिणामोपरमत्वे च सति स्थूलतया जायमानत्वम् ।
पूर्वोक्ताद् विपरीतरूपत्वमचाक्षुषस्य लक्षणम् ।
उत्पादव्ययधौव्ययुक्तत्वमित्यनेन पदार्थसामान्यस्य लक्षणमुक्तम् । तादृशलक्षणान्तरगतानामुत्पादादीनामपि लक्षणान्युक्तानि । अथवा लक्षणान्तरगतानां मध्ये ध्रौव्य. स्य लक्षणं तु नित्यत्वलक्षणकयनेनैव कथितम् । उत्पादव्यययोस्तु लोकमतीतत्वात् पूर्व सामान्यत उक्तत्त्वाच विशेपतो नोच्यते । विशेषजिज्ञासायां तु किश्चिदुच्यते, अर्पितानर्पितद्वाराप्युत्पादादीनां व्यवहारस्य सिद्धिर्भवति।
__ अनेकधर्मात्मकवस्तुनो विवक्षितेन केनचिद्धLण प्रापि . तप्राधान्यरूपत्वमर्पितस्य लक्षणम् । अथवा किञ्चिद्वस्तु