Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
प्रथमोऽधिकारः। अशुभतराशुभतमलेश्यादिपरिणामवत्त्वे सति नरकगतिनामकर्मोदयरूपत्वं नरकगतेर्लक्षणम् ।
तिर्यग्गतिनामकर्मोदयरूपत्वं तिर्यग्गतेर्लक्षणम् । मनुष्यगतिनामकर्मोदयरूपत्वं मनुष्यगतेलक्षणम् । तत्र मनुष्या द्विविधाः, आर्य म्लेच्छभेदात् । तत्र
हिंसा-ऽसत्यादिहेयधर्माद् दूरीभवनशीलत्वमार्यस्य, तद्विपरीतस्वरूपवत्वं च म्लेच्छस्य लक्षणम् ।
आर्याश्च कर्मभूमिजा इति तल्लक्षणं निगद्यते
सम्यग्दर्शनादिरूपमोक्षमार्गज्ञातृत्वोपदेतृत्वादीनामुत्पत्तिस्थानरूपत्वं कर्मभूपेर्लक्षणम् । .
प्रायशः शुभतरादिलेश्यादिपरिणामवच्चे सति देवगतिनामकर्मोदयरूपत्वं देवगतेलक्षणम् ।
देवाश्चतुर्विधाः, भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकभेदात् । तत्र
देवगतिनामकर्मोदये सति भवननिवासशीलत्वं भवनपतेलक्षणम् ।
देवगतिनामकर्मोदये विविधप्रदेशेषु निवासशीलत्वे च सति अनियतगतिप्रचाररूपत्वं व्यन्तरस्य लक्षणम् ।
देवगतिनामकर्मोदये सति प्रकाशखभावरूपत्वं ज्योतिष्कस्य लक्षणम् । '
विमाने भवनशीलत्वं वैमानिकस्य लक्षणम् । भवनपति-वैमानिकनिकाययोर्दशधा देवाः सन्ति,

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129