Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
. जैनतत्त्वमदीपेइन्द्र-सामानिक-त्रायस्त्रिंश-पार्पद्यात्मरक्षक-लोकपालानीक- . प्रकीर्णकाभियोग्य किल्विषफभेदात् । तत्र. देवगतिनामकर्मोदये सत्याधिपत्यशाळिरूपत्वमिन्द्रस्य लक्षणम् ।
देवगतिनामकर्मोदये सत्याधिपत्याभावे च सतीन्द्रसमानर्दिकत्वं सामानिकस्य लक्षणम् ।
इन्द्रस्यैव मन्त्रि-पुरोहितस्थानाधिरूढत्वं त्रायस्त्रिंशस्य लक्षणम् ।
तस्यैव वयस्यस्थानीयत्वं पार्षद्यस्य लक्षणम् ।
तस्यैव आरक्षिकार्थचरस्थानाधिरूढत्वं लोकपालस्य लक्षणम् ।
तस्यैव शिरोरक्षस्थानाधिरूढत्वमात्मरक्षस्य लक्षणम् । तस्यैव सेनास्थानाधिरूढत्वमनीकस्य लक्षणम् । तस्यैव.पौरजनस्थानाधिरूढत्वं प्रकीर्णकस्य लक्षणम्। तस्यैव दासस्थानाधिरूढत्वमाभियोग्यस्य लक्षणम् । तस्यैवान्त्यजस्थानाधिरूढत्वं किल्विपिकस्य लक्षणम्। व्यन्तर-ज्योतिष्कयो.कपाल-त्रायविंशवर्जा अष्टधा।
भवनपति-व्यन्तर-ज्योतिष्क-सौधर्मेशानपर्यन्तादेवाः कायेन प्रवीचारं कुर्वन्ति । तत्र प्रवीचारो नाम मैथुनव्यवहाररूपत्वम् । शेपेषु द्वयोर्द्वयोः स्पर्श-रूप-शब्द-मनोविषयकमवीचारा भवन्ति ।

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129