________________
प्रथमोऽधिकारः ।
दुःखाद्युपभोगरहितत्वं कार्मणस्य लक्षणम् ।
जीवानां संसरणं द्वेधा -- देशान्तर - भावान्तरप्राप्तिभेदात् । तत्र
ये जीवाः पूर्वशरीरपरित्यागपूर्वकं देशान्तरं गत्वा जन्मान्तरं प्राप्नुवन्ति तेषां देशान्तरप्राप्तिरूपं संसरणम् । ये पुनर्मृताः सन्तः स्वशरीर एव कृम्यादिभावेनोत्पद्यन्ते तेषां भावान्तरप्राप्तिरूपं संसरणम् ।
२१
जीवानां गतिरनुश्रेणिर्भवति, न विश्रेणिः । तत्राकाशप्रदेशानुश्रेणिरूपेण जीव- पुद्गलानां या गतिस्तद्रूपत्वमजुथेणिगतेलक्षणम्, आकाशमदेशपङ्क्त्यनुसारेण गमनरूपत्वं वा ।
सजीवानां द्विविग्रहपर्यन्तेव गतिः । विग्रहो नाम वक्रता = कुटिलता, तत्मधाना गतिर्वक्रगतिः । तत्रैकविग्रहा है सामयिकी, द्विविग्रहा तु सामयिकी । स्थावराणां त्वेकविग्रहादिचतुर्विग्रहपर्यन्ता गतिः ।
अत्रेदं ध्येयम् - त्रसानां निश्चयनयानुसारेणैकविग्रहायां द्विसामयिक्यामप्येकोऽनाहारकसमयः, व्यवहारानुसारेण तु उभयत्राप्याहारोऽस्त्येव । द्विविग्रहलक्षणत्रिसामायक्यां तु द्वावनाहारकसमयौ निश्चयनयमते, व्यवहारनये त्वेकसमयोsनाहारकः । एवं त्रिविग्रदायां निश्चयेन त्रयः समया अनाहारकाः, मतान्तरे द्वौ । चतुर्विप्रहायां चत्वारः,