________________
'जैनतत्त्वप्रदीपेव्यवहारनये त्रयश्चेति । तत्रौदारिकादिपुद्गलानामादानरूपत्वमाहारस्य लक्षणम् । .
स चाहारस्त्रिविध:- ओजो-लोम-कावलिकभेदात् । तत्र
तैजस-कार्मणयोगेनौदारिकादिशरीरयोग्यपुद्गलानामादानरूपत्वमोजआहारस्य लक्षणम् ।
त्वगिन्द्रियादिद्वारा शरीरोपष्टम्भकपुद्गलादानरूपत्वं लोमाहारस्य लक्षणम् ।
मुखे कवलनिक्षेपरूपत्वं कावलिकस्य लक्षणम् ।
ताशाहाराभावरूपत्वमनाहारस्य लक्षणम् । तद्वांश्वानाहारकः ।
जन्म त्रेधा- समूच्छिम-गर्भोपपातभेदात् । तत्र
गर्भसामग्री विना समुद्भूतस्वरूपत्वं संमूर्च्छिमस्य लक्षणम् , लोकत्रये यथायोगं देहावयवविरचनरूपत्वं वा ।
शुक्रशोणितसंमीलनाधारप्रदेशवत्वं गर्भस्य लक्षणम् ।
क्षेत्रप्राप्तिमात्रनिमित्तकं यज्जन्म तद्रूपत्वम्, गर्भसंमृ. छिमप्रकारराहित्येन जायमानत्वं वोपपातजन्मनो लक्षणम् ।
जन्म योनिद्वारा भवतीति तल्लक्षण-विधानानि प्रति. . : पाद्यन्ते । तत्र
• तैजस कार्मणशरीरवन्तो जन्तव औदारिकादिरीरयोग्यस्कन्धसमुदायेन यत्र स्थाने युज्यन्ते तारस्थानरूपत्वं योनेलक्षणम् ।
सा त्रेधा, संतृत-विकृत-मिश्रभेदात् । तत्र