________________
२६ . जैनतत्त्वप्रदीपेब्दायुपलब्धिविषयकोपभोगजननाभावरूपत्वं वा कार्मणशरीरस्य लक्षणम् ।
पुनरपि ते जीवास्त्रेधा, स्त्री-पुरुष नपुंसकलिङ्गभेदात् ।
योनिमृदुतास्थैर्यमुग्धता-स्तनलीवता-पुंस्कामनाभिमतादिचिह्नवत्वं स्त्रीलिङ्गस्य लक्षणम् ।।
मेहन-खरता-दाय-शौण्डीय श्मश्रु-धृष्टतादिचिह्नवचं पुरुषलिङ्गस्य लक्षणम् ।
मोहानलमुदीपितत्वे सति स्तन श्मश्रु-केशादिभावा. भावसमन्वितत्वं नपुंसकलिङ्गस्य लक्षणम् ।
जीवानामायुधा, सोपक्रम-निरुपक्रमभेदात् । तत्र.. आगमोक्ताध्यवसानाद्यायुम्क्षयकारणैर्वहुकालेन भोग्यं यदायुरल्पकालेन भुज्यते तद्रूपत्वम् , बन्धकाले शक्या. पवर्तनस्वरूपशिथिलवन्धनेन यदायुर्वद्धं तद्रूपत्वं वा सो. पक्रमस्य लक्षणम् ।
यद् गादनिकाचनेन बन्धकालेऽशक्यापवर्तनस्वरूपक्रमवेद्यफलकमायुर्वद्धं तद्रूपत्वं निरुपक्रमस्य लक्षणम् ।
पुनरपि स जीवश्चतुर्विधः, नरक-तिर्यग्-मनुष्य-देवगतिभेदात् । तत्र
१ अत्र पिण्डीकृतरज्जुदहनमुदाहरणम् । २ आयतीकृतरज्जुदहनमिह निदर्शनम् ।
-