Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
६
श्रीपद्मसागरगणिविरचितंवस्त्रं चैतदपीशपिण्डकतया मूल्याऽतिरेकादपि __ माह्यं नैव परप्रदानविधयोऽन्यार्थस्य नो सङ्गताः ॥१७६॥ इत्थं सूरिवरान् परीक्ष्य विविधोपायैर्महीनायक
स्तद्युक्तिक्षमता परीक्षितुमथ स्वैस्तार्किकैः पण्डितैः । सार्द्ध शास्त्रविचारसत्यसमयज्ञानाय सोऽवादय
इक्षः शक्तियुतो दृढं हि कुरुते कार्य जनश्लाषितम् ।।१७७॥ तत्रैकेन समस्तभूपविबुधोत्तंसेन सूरीश्वराः
सार्द्ध जल्पमनल्पकल्परचितं कुर्वन्त्यनिन्धं स्म ते । भास्वत्पण्डितज्ञान्त्रिचन्द्रगणयस्त्वन्यैः समप्रैः समं
दत्ताज्ञा गुरुभिर्नृपेण च समं शिष्या विनीता यतः ॥१७८॥ ते सर्वे विबुधास्तदीयवचनैायोपपन्नश्चम
कारं प्राप्तहृदो वदन्ति नृपतेः स्मेत्यप्रतस्तास्विकाः । नास्माभिर्नरनाथ ! सुश्रुतवरा एतादृशाः पण्डिता
युक्तिक्षोदसहार्यमार्गरचनावक्तृत्वयुक्पालनाः ॥१७९॥ इत्थं तैर्विहितस्तवं निजधियाऽऽचारं च तेषां नृपः
श्रुत्वा वीक्ष्य परीक्षणक्षममसौ निर्दूषणं रखितः। सूरीणामिदमाह योजितकरद्वन्द्वः पतन्मस्तको
भूपाः स्युननु भृत्यकर्मनिपुणा यनिःस्पृहाणां पुरः ॥१८॥ तुष्टोऽहं भवतां विचारचतुराचारं पुनस्तार्किक
श्रेणिश्लाघ्यविचक्षणत्वमसमं दृष्ट्वा गुणावर्जितः । भोः श्रीसूरिवराः ! तदिष्टमनघं मचो ध्रुवं मार्गय
न्तूक्तं यद्भवदागमे नृपहरिश्रीचक्रिभिः साधितम् ॥१८॥ इत्युक्ते क्षितिपेन हीरविजयाचार्या जगुर्भो नप !
त्वत्पार्श्वेऽत्र यमर्थिभिर्गतमयैरस्माभिरभ्यर्थ्यते । गुप्तिक्षिप्तसमस्तबन्दिजनतामोक्षः पुन बरे
नो मत्स्यादिवधो न चागलितवाहिस्तटाकोत्तमे ॥१८२॥ प्राप्ते पर्युषणाख्यपर्वणि तथाऽमारिप्रघोषो दिनान्
यावत् सूर्यमितांस्त्वदीयसकले देशे वयाब्दं प्रति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138