Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
[३]
श्रीगुरुभिः पुरातनयोः श्रीऋषभदेवश्री नेमिनाथसम्बन्धिन्योर्महत्योः प्रतिमयोः, तदानीमेव निर्मितश्रीनेमिजिनपादुकायाथ प्रतिष्ठा कृता । तदनु आगराख्यनगरे सामानसिंहकल्याणमल्लकारितश्रीचिन्तामणिपार्श्वनाथादिबिम्बानां प्रतिष्ठा शतशः सुवटव्ययादिना महामहेन निर्मिता । तत्तीर्थे च प्रथितप्रभावं सञ्जातमस्ति । ततः श्रीगुरवः पुनरपि फतेपुरनगरे समागत्य श्रीसाहिना साकं मिलिताः । तदवसरे च प्रहरं यावद्धर्मप्रवृत्तिकरणानन्तरं श्रीसाहिरवदत् यत् श्रीमन्तो मया दर्शनोत्कण्ठितेन दूरदेशादाकारिताः । अस्मदीयं च न किमपि गृह्यते । तेनास्मत्सकाशात् श्रीमद्भिः सचितं यान्यनीयं येन वयं कृतार्था भवामः । तत् सम्यग्विचार्य श्रीगुरुभिस्तदीयाखिलदेशेषु पर्युषणापर्वसत्काष्टाह्निकायाममारिप्रवर्त्तनं बन्दिजनमोचनं चायाचि । ततो निर्लोभताशान्तताद्यतिशयितगुणमणातिचमत्कृतचेतसा श्रीसाहिना अस्मदीयान्यपि चत्वारि दिनानि समधिकानि भवन्त्विति कथयित्वा स्ववशीकृतदेशेषु श्रावणबहुलदशमीत: प्रारभ्य भाद्रपद शुक्लषष्ठीं यावद्मारिप्रवर्त्तनाय द्वादशदिनामारिसत्कानि काञ्चनरचनाश्चितानि खनामाङ्कितानि षट् फुरमानानि त्वरितमेव श्रीगुरूणां समर्पितानि । तेषां व्यक्तिः प्रथमं गुर्जरदेशीयं, द्वितीयं मालवदेशसत्कं, तृतीयं अजमेरदेशीयं, चतुर्थ दिल्लीफत्तेपुरदेशसम्बन्धि, पञ्चमं लाहुरमुलतानमण्डलसत्कम्, श्रीगुरूणां पार्श्वे रक्षणाय षष्ठं देशपश्चकसंबन्धि साधारणं चेति । तेषां च तत्तद्देशेषु प्रेषणेनामारिपटहोद्घोषणवारिणा सिक्ता सती पुराऽज्ञायमाननामाऽपि कृपावल्ली सर्वत्रार्यानाकुलमण्डपेषु विस्तारवती बभूव । तथा बन्दिजनमोचनस्याप्यङ्गीकारपुरस्सरं श्रीसाहिना श्रीगुरूणां पार्श्वादुत्थाय तदैवानेकगव्यूतमिते डाबरनाम्नि महासरसि गत्वा साधुसमक्षं स्वहस्तेन नानाजातीयानां देशान्तरीयजनप्राभृतीकृतानां पक्षिणां मोचनं चक्रे । तथा प्रभाते कारागारस्थबहुजनानां बन्धनभञ्जनमप्यकारि । एवमनेकशः श्रीमत्साहेर्मिलनेन श्रीगुरूणां घरित्रीमरुमण्डलादिषु श्रीजिनप्रासादोपाश्रयाणामुपद्रवनिवारणायानेकफुरमानविधापनादिना प्रवचनप्रभावनादिप्रभावो यो लाभो - भवत् स केन वर्णयितुं शक्यते ? । तदवसरे च संजातगुरुतरगुरुभक्तिरागेण मेडतीयसा -सदारङ्गेण मार्गणगणेभ्यो मूर्तिमद्गजदानद्विपशदऽश्वदानलक्षप्रासादविधानादिना, दिल्लीदेशे श्राद्धानां प्रतिगृहं सेरद्वयप्रमाणखण्डलम्भनिकानिर्माणादिना च श्रीजिनशासनोन्नतिश्चक्रे । तथैका प्रतिष्ठा सा थानसिंघकारिता । अपरा च सा-दूजणमल्लकारिता श्रीफतेपुरनगरेऽनेकटङ्कलक्षव्ययादिना महामहोत्सवोपेता विहिता । किञ्च । प्रथमचतुर्मासकमागराख्यद्रजे, द्वितीयं फतेपुरे, तृतीयमभिरामावादे, चतुर्थे पुनरप्यागराख्ये चेति चतुर्मासीचतुष्टयं तत्र देशे कृत्वा गूर्जरदेशस्थश्रीविजयसेनप्रभृतिसंघस्याऽऽग्रहवशात् श्रीगुरुचरणा धरित्रीपवित्रीकरणप्रवणान्तः करणाः श्रीशेघूजी - श्रीपादूजी -श्रीदानीआराभिधपुत्रादिप्रवरपरिकराणां श्रीमत्साहिपुरन्दराणां पार्श्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138