Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसोमचारित्रगणिविरचितंप्रवालमुक्तामणिमण्डलानि ॥ ४३ ।। श्रीधर्मशालासुरशैलमह्या
मेवंविधं स्वर्वनतुल्यमेतत् । येरीरचन् सजनरञ्जनार्थमुद्यापनं मेदुरधर्मरगाः ॥ ४४ ॥
(नवभिः कुलकम् ) तत्र क्षणे क्षान्तिमतां मुनीना
मर्चामका' रुचिरैश्च चीरैः । समीक्षणायाऽस्य च मीलितानां खान्याऽमितग्राममहाजनानाम् ॥ ४५ ॥
(युग्मम ) षड्दर्शनीयाचकजन्तुराशे
राज्यादियुग्जेमनवित्तदानः । तेषां निवासेऽनिशमस्ति सत्रा
गारः क्षुधानाशकरोऽनिवारः ॥ ४६ ।। प्रौढोत्सवं कल्पचरित्रसत्कं
प्रायः प्रकुर्युः प्रतिवर्षमेते । सप्तस्वपि प्रत्यहमाहतेषु
क्षेत्रेषु हर्षाद् वपनं धनस्य ।। ४७ ।। अथ विशेषतो रत्नगुणवर्णनम्वितीर्णवान् कर्णनृपः सुवर्ण
दिनकयामावधि याचकेभ्यः । योऽहर्निशं धान्यहिरण्यचीर
दाता ततः सोऽस्य समः कयं स्यात् ॥४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138