Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 125
________________ ६४ श्रीसोमचारित्रगणिविरचितं न्यायेन रामः सुकृताभिरामः श्री सार्वभौमस्तनुरूपकामः ॥ ७६ ॥ ( युग्मम् ) तस्येशितुर्नाटकटङ्कपट्टकूलादिकं ढौकनमभ्यकार्षुः । जेसिंग रत्नाद्यमहीपमुख्या स्वेनाऽपि वाढं बहु मानितास्ते ॥ ७७ ॥ स्नात्रध्वजारोपणपात्रनृत्याद्यत्युत्सवैः श्रीऋषभादिपूजाम् । विरच्य तत्राऽऽर्द्धतमन्दिरेषु वन्दिरे श्रीगुरवस्ततस्ते ॥ ७८ ॥ श्रीवाचकैर्विज्ञवरैश्च लब्धि समुद्रसंज्ञेरथ यद्विनेयैः । यावल्ललाटे तिलकः स चक्रे जेसिंगरनादिधनीश्वराणाम् ॥ ७९ ॥ भेरीनफेरीस्वरनायकादे राकर्ण्य नादं तरणेश्च तावत् । त्रस्तास्तुरङ्गास्तदितस्ततोऽगु स्तेनारुणः सोऽपि रुषाऽभवत् किम् ? ॥ ८० ॥ वाचंयमाचरचनात् सुदृष्टि रूटङ्कादिसमर्पणेन । तेऽथाऽर्थिनां पञ्चविधार्थदानात् ततो वितेनेऽद्भुतविस्तरैस्तैः ॥ ८१ ॥ श्राद्धास्तदा ते च बभूवुरष्टा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138