Book Title: Jagadguru evam Gurugunratnakar Kavyam
Author(s): Bechardas Doshi
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 110
________________ गुरुगुणरत्नाकरकाव्यम् । मेदिन्यामुदकं यदेह न ददेऽम्भोदेन देहिवजे युक्तः स्वानुजजीवनेन गुणिना मेघस्तदानीमसौ । सत्रागारमुखं सृजन्नुरुद्वषं सत्सङ्घसन्तोषकद् दृष्टः स्पष्टमहाबलः किल शुची रैटङ्कलक्षः स्वरैः ।। १०५ ॥ ( चतुर्भिः कलापकम् ) एकद्वित्रिप्रभृतिभिरयुनैर्लक्षैरपि स्वटङ्कानाम् । ये जनिताः सद्भिरिह प्रायस्ते विस्तराः प्रोक्ताः ॥ १०६ ॥ येषां श्रीरिराजामपरिमित जनस्वामिमूर्तिप्रतिष्ठाचार्योपाध्याय मुख्यप्रवरपद विधानास्तिकै विस्तरा ये । न्यायाऽऽतप्राज्यवित्तव्ययकरणतया निर्मितास्ते मयाऽपि ख्याता ज्ञाता दृष्टा इह तु कतिपये वारके ये यदीये ॥ १०७ ॥ यैर्विबुधादिपदेषु क्रियमाणेषु क्षणाः प्रणीता ये । गृहिभिस्तत्परिमाणं न कोविदः कोऽपि कर्तुमलम् ॥ १०८ ॥ युगवरसमलक्ष्मीसागरा भव्यनव्यान्यतनुसुकृतकृत्यान्युत्सवैरेवमुर्व्याम् । परमगुरव एते निर्ममा निर्ममाणा चिरमिह विजयन्ते स्माऽपतत्रं ब्रुवाणाः ॥ १०९ ॥ श्रीमन्मालवमेदिनीन्दुवदनालङ्कारहारप्रभोः रुग्रामागरवासिकर्मतनयश्रीरत्नसङ्घप्रभोः । आक्षेपाद्विधुवेदवर्ष्मवसुधावर्षे सुभिक्षोद्भवे लक्ष्मीसागर सूरिराजविलसद्भाग्यप्रकर्षस्तवे ।। ११० ॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्री सोमदेवाह्वयः Jain Education International ४९ - शिष्यः सूरिवरश्च शिष्यवृषभवारित्रहं सोऽस्य यः । तस्य श्रीविवुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते ७ For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138