Book Title: Gunsthankramaroha Author(s): Shekharsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ सप्तमं स्वप्रमत्तं चा-पूर्वात्करणमष्टमम् । नवमं चानिवृत्त्याख्य, दशमं सूक्ष्मलोभकम् ॥ ४ ॥ एकादशं शान्तमोह, द्वादशं क्षीणमोहकम्। त्रयोदशं सयोग्याख्यमयोग्याख्यं चतुर्दशम् ॥५॥ चतुर्भिः कुलकम् । व्याख्या-इह हि भव्यजीवानां सिद्धिसौधाधिरोहणार्थ गुणश्रेणिरिव निःश्रेणिस्तस्यां च पदन्यासास्पदस्थानीयानि यानि गुणाद्गुणान्तरप्राप्तिरूपाणि स्थानानि-विश्रामधामानि चतुर्दशसंख्यानि, तेषां नामानि यथा-प्रथम मिथ्यात्वगुणस्थानकं १, | द्वितीयं सास्वादनगुणस्थानकं २, तृतीयं मिश्रगुणस्थानकं ३, चतुर्थमविरतसम्यग्दृष्टिगुणस्थानकं ४, पञ्चमं देशविरतिगुणस्थानकं ५, | पष्ठ प्रयत्तसंयतगुणस्थानकं ६, सप्तममप्रमत्तसंयतगुणस्थानकं ७, अष्टमं निवृत्तिबादर (अपूर्वकरण ) गुणस्थानक ८, नवमं अनि-10 वृत्तिवादरगुणस्थानकं ९, दशमं सूक्ष्मसंपरायगुणस्थानकं १०, एकादशमुपशान्तमोहगणस्थानकं ११, द्वादशं क्षीणमोहगुणस्थानकं १२, त्रयोदशं सयोगिकेवलिगुणस्थानकं १३, चतुर्दशमयोगिकेवलिगुणस्थानक १४ मिति २-३-४-५॥अथ प्रथमं व्यक्ताव्यक्तमिथ्यात्वस्वरूपमाह-- अदेवासुर्वधर्मेषु, या देवगुरुधर्मधीः । तन्मिथ्यात्वं भवेश्यक्त-मव्यक्तं मोहलक्षणम् ॥ ६ ॥ व्याख्या-या स्पश्चैतन्यानां संज्ञिपञ्चेन्द्रियादिजीवानामदेवाणुर्वधर्मेषु क्रमेण देवगुरुधर्मबुद्धिः संपद्यते, तद्वयक्तं मिथ्यात्वं || ॥ 3 ॥ Jain Education International For Private Personel Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78