Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मोहक्षीणमोहाख्यानां पञ्चानामपि गुणस्थानानां नामार्थं प्रथम सामान्येन श्लोकद्वयेनाह____ अपूर्वात्मगुणाप्तिस्वादपूर्वकरणं मतम् । भावानामनिवृत्तित्वादनिवृत्तिगुणास्पदम् ॥ ३७॥ ।
अस्तित्वात्समलोभस्य,भवेत्समकषायकम्।शमनाच्छान्तमोहं स्यात,क्षपणाक्षीणमोहकम् ३८॥
व्याख्या-य एवाममत्तसंयतः सप्तमगुणस्थानवी दर्शितः, स एव संज्वलनकषायाणां नोकषायाणां वात्यन्तं मन्दोदये सति प्राप्तापूर्वपरमाल्हादैकमयं करणं परिणामरूपं यत्र तदपूर्वकरणनाम गुणस्थानमष्टमं मतं, कस्मात , ? 'अपूर्वात्मगुणाप्तित्वात् । अपूर्वाणामात्मगुणानामाप्तिः संपाप्तिस्तस्या भावोऽपूर्वात्मगुणाप्तित्वं तस्मात् , तथा दृष्टश्रुतानुभूतभोगाकाङ्क्षादिसंकल्पविकल्परहितनिश्चलपरमात्मकताकामध्यानपरिणतिरूपाणां भावानामनिवृत्तित्वादनिवृत्तिगुणास्पदं गुणस्थानं भवति, तच्चानिवृत्तिबादरं यदुच्यते तदत्र बादराणां कपायाणामपत्याख्यानादिद्वादशानां नवानां नोकषायाणां च शमकः शमनाय क्षपकः क्षपणाय प्रगुणो भवतीत्यतः कारणादनिवृत्तिवादरमित्युच्यते, तनवम गुणस्थानं, तथा सूक्ष्मपरमात्मतत्त्वभावनाचलेन विंशतिप्रकृतिरूपे मोहे शान्ते क्षीणे वा सूक्ष्मखण्डीभूतस्य लोभस्यैकस्यौस्तित्वं यत्र तत्सूक्ष्मकषायकं दशम गुणस्थानं भवति । तथा उपशमकस्यैव परमोपशममूर्तेः निजसहजस्वभावसविलेन सकलमोहस्य शमनाद् उपशान्तमोहं एकादशं गुणस्थानं भवति ११, तथा क्षपकस्यैव क्षपकश्रेणिमार्गेण दशमगुजस्थानादेव निष्कषायशुद्धात्मभावनाबलेन सकलमोहस्य क्षपणाक्षीणमोहं द्वादशं गुणस्थानं भवति इति सामान्यार्थः ॥ ३७॥३८॥
१०वत्यतः प्र० २ नेदं प्र०
Jan Education Intematon
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78