Page #1
--------------------------------------------------------------------------
________________
AAAAaaaaAARAZinaaaaaa &NARESARIVARIVARANASANVAAVACANVARGAVAASTEVANAGAR
माई जैनपुस्तकोद्धारे, ग्रन्थाङ्कः ३ नशेखरमूरिभूत्रितः स्वोपज्ञवृत्तियुतः
थानक्रमारोहः
साह-नगीनभाई घेलाभाई झवेरी-मोहमयीवास्तव्यः मुद्रिता 'लुहाणामित्र' मुद्रणाधिपतिविठ्ठलभाई आशाराम,ठकर.शियापुरा-वीरक्षेत्रे.ता.१-६-१६.
अस्याः पुनर्मुद्रण द्याः सर्वेऽधिकाराः एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः । वीरसँव्वत् २४४२, विक्रमसँव्वत् १९७२, इस्वान्द १९१६. afa 940 (all rights reserved by the trustees of the fund. )
पण्यं २ आणको.
For Private Personel Use Only
Page #2
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #3
--------------------------------------------------------------------------
________________
HH HH HH HEHE. Ho HEHEHEHEHEHE. JE Z HIGH
श्री वीरो विजयतेतराम्
गुणस्थानकमारोहोपोद्घातः
पक्रियते सज्जन रकमले लघुरपि महिम्नाऽलघुः शब्दादिभिः स्फुटोऽप्यस्फुटो भावार्थेन परिवृतोऽपि वृत्या विधायको निवृत्त्याः परिभावनीयतमोऽयं ग्रन्थः । विधातारश्वास्य श्रीमन्तो रत्नशेखरमूरयो बृहद्गच्छीयाः कदा पावयामासुर्महीमण्डलं महत्तमाः के च श्रीमतां दीक्षागुरव इति जिज्ञासायां श्रीमद्भिः प्रणीतं यद्यपि ग्रन्थवृन्दं वरीवर्त्ति तथापि स्पष्टं बहुत्र नोपलभ्यते संवदुल्लेखः परं श्रीमद्भिरेव विहितं यत् श्रीपालचरित्रं तत्मान्तवर्त्तिनः “सिरिवज्ज सेणगण हरपट्टपहू हेमतिलयमुरीणं । सीसेहि रयण से हरसूरीहि इमा हु संकलिया ।। १३३९ ।। तस्सीसहेमचन्देण साहुणा विकमस्स वरिसंमि । चउदसअट्ठावीसी लिहिया गुरुभत्तिरायणं ।। १३४० ॥” इति गाथायुगस्य पर्यालोचनया श्रोतॄणां प्रतीतिपथमवतरिष्यत्येव यदुत श्रीमतां सत्ताकालः पञ्चदशशतिको वैक्रमीयः तत्राप्याद्यैव विंशतिरब्दानां । कालश्च स विद्धुर्यसरिताप्रवाह हिमवन्महीधरायमाणः, यतो बभूवुस्तत्रैव शतके श्रीमत्तपोगणेऽपि श्रीमन्तो ज्ञानसागरजयचन्द्रसोमसुन्दर कुलमण्डनगुणरत्नक्षेम की र्त्तिसत्य शेखर मुनिसुन्दर सूरिपुरन्दरप्रमुखा अनेके अनेकवादाङ्गणलब्धजयपताकाः, गच्छथ श्रीमतां यावज्जीवमाचाम्लकरणावाप्ततपोऽभिधानस्य गच्छस्याग्रेतनो बृहद्गच्छाख्यः, ग्रन्थाच श्रीमद्भिरपरे श्रीपालचरितसवृत्तिकक्षेत्र समासगुरुगुणपत्रिशिकाद्याः समयोपयोगिनो विहिताः सन्ति, उपलभ्यन्ते चापि बहुषु भाण्डागारेषु, नाप्रतीतः समुपलभ्यते तद्ग्रन्थो, विशेषेणान्यः कोऽपि च वृत्तान्तः, केवलं ज्ञायते एतत् यदुत श्रीमन्तः श्रीवज्रसेनाचार्यान्तेवासिनः श्रीहेमतिलकप्रभोः पट्टे प्रतिष्ठिताः, तदन्तेवासि
Page #4
--------------------------------------------------------------------------
________________
# ३९४६ 838383838738
न श्री हेमचन्द्रमुनिधुर्याः प्रस्तुतग्रन्थ श्रीपाल चरितावलोकनतः । ग्रन्थे चात्र आस्तिकावल्यभिप्रेतापवर्गावाप्तिनिबन्धन सोपानरूपाणि गुणस्थानानि ख्यापितानि, उपयोगिता चास्य ग्रन्थाभियानमात्रेणैव सुमतीतेति न कार्यस्तत्रायासः, अत्रानधेयमेतत्, यदुत-कर्मग्रन्थादिशास्त्रेषु सर्वस्यापि मिथ्यात्वस्याविपरीताया ज्ञानमात्रायाः सद्भावेन गुणस्थानताऽभिमता तथापि योगबिन्दु योगदृष्ट्याद्यध्यात्मशास्त्रत्रद्विशिष्टगुणात्राप्तेर्गुणस्थानताया अङ्गीकारेण व्यक्तस्यैव मिथ्यात्वस्यात्र गुणस्थानता १, मिश्रष्टौ सत्यासत्यधर्मादिरागयुक्तता च "जह गुडदहीण" इत्यत्र द्वितीयपादे “तहोभयतद्द्द्दिट्ठी "ति पाठमपेक्ष्य, सामान्येन तेन कुत्रचित् मिथ्यात्वस्य कुत्रचित्सम्यक्त्वस्याधिक्यमपि न विरोधभाकर, चतुर्थगुणस्थानकस्य त्रयस्त्रिंशत्सागरोपमा साधिका स्थितिः क्षायिकमाश्रित्य किञ्चिदधिकस्याविवक्षणात् यद्वा भत्रमेकमपेक्ष्य ३, अस्ति निरालम्बनध्यानविषये चर्च्य, यतः श्रीमद्भिः साक्षितयोद्धृताः ये ग्रन्थास्ते न निरालम्बनध्याननिषेधकाः न चाप्रमत्तावस्थामाश्रित्येति तथापि विपश्चितामेव स विषय इति विरम्यते ४, अप्रमत्तगुणे चावश्यकाधीना न शुद्धिः, नैर्मल्यस्य स्वाभाविकत्वात्, परमवधार्यमेतत् यदुत आ अन्तर्मुहूर्त्ताद् गुणस्थानं प्रमत्तत्वे चावश्यककृतैव शुद्धिरिति नामतिक्रमणधर्माणां कदालम्बन विकाशः ५, श्रेणिद्रयमारम्भश्चापूर्वाद् उक्तः स श्रेणिपरमकार्यस्य मोहस्योमशमस्य क्षयस्य वा विवक्षया अन्यथा आ तुर्यादपि गुणात्छ, कार्मग्रन्थिकमतं द्विश्रेण्या रोहगमङ्गीकृत्यैवान्तदेहिना मुपशमश्रेणेः पाते सप्तमगुणेऽवस्थितिरित्युदितं ७, अष्टमे गुणे शुक्लध्यानमादिमं अन्यत्र त्वप्रमत्ते ८, ध्यातुः स्वरूपं च ध्यानशतकादन्यथैव ९ ॥ यद्यपि मुद्रितपूर्वमेतत् तथापि सत्रुटिकं बहुवेतनं निश्छायं चेति पुनर्मुद्रणायासोऽस्याः संस्थायाः, शोधनीयं च धीधनैः प्रमादस्खलितजातं शोधकमुद्रयित्रविधाय कृपां तयोरिति प्रार्थयते श्री श्रमणसङ्घोषा स्तिपर आनन्दः
राज्यनगरे १९७२ ज्येष्ठ कृष्णपg.
६ ४६ ४६ ४६४ 36 1938 1938 138६९६
Page #5
--------------------------------------------------------------------------
________________
पृष्ठाङ्क:
पृष्ठाङ्क:
श्लोकाङ्कः
६७-७१
विषयानुक्रमः | गुणस्थानाभिधानानि मिथ्यात्वगुणस्थाननिरूपणम् सास्वादननि० मिश्रनि. अविरतिसम्यग्दृष्टिनि० देशविरतिनि० प्रमत्तनि० अप्रमत्तनिक अपूर्वादिनि ध्यातृस्वरूपम् प्राणायामस्व०
अनुक्रमणिका श्लोकाङ्कः | विषयानुक्रमः २-४ शुक्लध्यानाद्यभेदस्व० ५-९ अनिवृत्तिस्व०
उपशमकस्वरूपम्
क्षपकस्वरूपम् १८-२३ शुक्लध्यानद्वितीयभेदस्व० २४-२५ सयोगिस्व० २६-३१ अयोगिस्व.
सिद्धस्य गतिसिद्धिः ३७-३८ सिद्धिस्वरूपम् ५२-५३
सिद्धस्वरूपम्
४८-८१ ७२-८० ८१-१०२ १०३-११८ ११९-१२४ १२५-१२७ १२८-१३६
For Private & Personel Use Only
Page #6
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #7
--------------------------------------------------------------------------
________________
॥श्रीजिनाय नमः॥
पोका-१
॥अथ श्रीगुणस्थानक्रमारोहवृत्ति: प्रारभ्यते॥
(कर्ता श्रीरबशेखरभिः)
अर्हपदं हृदि ध्याखा, गुणस्थानविचारिणाम् । अनुष्टुभामियं वृत्ति-लिख्यते भवणिवत् ॥ १॥ तत्रादौ मालार्थमभीहुदैवतनमस्कारसम्बन्धाविर्भावकमाद्यपद्यमाह
गुणस्थानक्रमारोह-हतमोहं जिनेश्वरम् । नमस्कृत्य गुणस्थान-स्वरूपं किञ्चिदुच्यते॥१॥
व्याख्या-यत्र यत्र पूर्वाप्राप्तगुणविशेषाविर्भावो भवति तत्तद्गणस्थानमित्युच्यते, तानि गुणस्थानानि, तेषां स्वरूपं, किश्चिद्-अल्पमात्रमुच्यत इति सम्बन्धः किं कृत्वा ? 'नमस्कृत्य प्रणिपत्य जिनेश्वरं' श्रीसर्वज्ञ, कथंभूतं ? 'गुणस्थानक्रमारोहहतमोहं' गुणस्थानानां क्रमो गुणस्थानक्रमः, गुणस्थानक्रमेणारोहणे गुणस्थानकमारोहः, गुणस्थानक्रमारोहेण-क्षपकश्रेण्यारोहॅलक्षणेन हतो
१ देवता प्र०। २ नमस्कारस्य प्र.। ३ आरोहणं प्र.। ४ रोहणेन प्र.।
For Private & Personel Use Only
Page #8
--------------------------------------------------------------------------
________________
来来来来来来来来来术
मोहो येन स तथा तं गुणस्थानकमारोहतमोई, अपकश्रेण्यारोहक्रमेणैव मोहो इन्यते, यदा वाचकमुख्यः-"पूर्व करोत्यनन्ताअनुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं, क्षपयति सम्यकसमिथ्यात्वम् ॥ १॥ सम्यक्त्वमोहनीय, क्षपयत्यष्टावतः
कषायांश्च । क्षपयति ततो नपुंसक-वेदं स्त्रीमेदमय तस्मात् ॥२॥ हास्यादि ततः पदक, क्षपयति तस्माच्च पुरुषवेदमपि । संज्वलनानपि हत्वा, प्राप्नोत्यय वीतरागत्वम् ॥३॥" आह-ननु हतमोहमित्यत्रोक्तं, न होकस्यैव मोहस्य घोतेन जिनेश्वरत्वमुपपद्यते, किन्तु ज्ञानावरणदर्शनावरणान्तरायाणामपि घाते जिनेश्वरत्वं स्यात् तत्कथमिति, अत्रोच्यते-अष्टस्वपि कर्मसु | मोहस्यैव प्राधान्यं, यतः -"अखाण रसणी कम्माण मोहणी तह वयाण बंभवयं । गुत्तीण य मणगुची, चउरो दुक्खेण जिप्पंति | मोहे इते शेषकर्माणि सुखइतान्येव, यदागमः-"जह मत्थयसूईए, हयाए हम्मए तलो । तह कम्माणि इम्मंति, मोहणिजे
खयं गए ॥१॥" ततो मोइयाते शेषघातिना घातोऽवश्यंभाव्येवेति न दोषः ॥२॥ अथ चतुर्दशसंख्यानां गुणस्थानकानां नार्मान्येव 'श्लोकचतुष्टयेनाह
चतुर्दशगुणश्रेणि-स्थानकानि तदादिमम्। मिथ्यात्वाख्यं द्वितीयं तु, स्थानं सास्वादनाभिधम् ॥२॥ तृतीयं मिश्रकं तुर्य, सम्यग्दर्शनमव्रतम् । श्राद्धवं पञ्चमं षष्ठं, प्रमत्तश्रमणाभिधम् ॥३॥
१ घाते प्र। * अक्षणां रसना कर्मणां मोहनीयं व्रतानां तथा ब्रह्मव्रतम् । गुप्तीनां च मनोगुप्तिः चत्वारि दुःखेन जीयन्ते ॥१॥ x यथा मस्तकसूच्या हतायां हन्यते तालः। तथा कर्माणि हन्यन्ते, मोहनीये क्षयं गते ॥ १॥ २ नामानि प्र० ।
Jain Education Intematon
ForPrivate sPersonal use Only
Page #9
--------------------------------------------------------------------------
________________
सप्तमं स्वप्रमत्तं चा-पूर्वात्करणमष्टमम् । नवमं चानिवृत्त्याख्य, दशमं सूक्ष्मलोभकम् ॥ ४ ॥ एकादशं शान्तमोह, द्वादशं क्षीणमोहकम्। त्रयोदशं सयोग्याख्यमयोग्याख्यं चतुर्दशम् ॥५॥
चतुर्भिः कुलकम् । व्याख्या-इह हि भव्यजीवानां सिद्धिसौधाधिरोहणार्थ गुणश्रेणिरिव निःश्रेणिस्तस्यां च पदन्यासास्पदस्थानीयानि यानि गुणाद्गुणान्तरप्राप्तिरूपाणि स्थानानि-विश्रामधामानि चतुर्दशसंख्यानि, तेषां नामानि यथा-प्रथम मिथ्यात्वगुणस्थानकं १, | द्वितीयं सास्वादनगुणस्थानकं २, तृतीयं मिश्रगुणस्थानकं ३, चतुर्थमविरतसम्यग्दृष्टिगुणस्थानकं ४, पञ्चमं देशविरतिगुणस्थानकं ५, | पष्ठ प्रयत्तसंयतगुणस्थानकं ६, सप्तममप्रमत्तसंयतगुणस्थानकं ७, अष्टमं निवृत्तिबादर (अपूर्वकरण ) गुणस्थानक ८, नवमं अनि-10 वृत्तिवादरगुणस्थानकं ९, दशमं सूक्ष्मसंपरायगुणस्थानकं १०, एकादशमुपशान्तमोहगणस्थानकं ११, द्वादशं क्षीणमोहगुणस्थानकं १२, त्रयोदशं सयोगिकेवलिगुणस्थानकं १३, चतुर्दशमयोगिकेवलिगुणस्थानक १४ मिति २-३-४-५॥अथ प्रथमं व्यक्ताव्यक्तमिथ्यात्वस्वरूपमाह--
अदेवासुर्वधर्मेषु, या देवगुरुधर्मधीः । तन्मिथ्यात्वं भवेश्यक्त-मव्यक्तं मोहलक्षणम् ॥ ६ ॥ व्याख्या-या स्पश्चैतन्यानां संज्ञिपञ्चेन्द्रियादिजीवानामदेवाणुर्वधर्मेषु क्रमेण देवगुरुधर्मबुद्धिः संपद्यते, तद्वयक्तं मिथ्यात्वं ||
॥
3
॥
For Private Personel Use Only
Page #10
--------------------------------------------------------------------------
________________
गुण
॥
५
॥
भवति, उपलक्षणात् -*जीवाइपयत्थेमुं, जिणोबइडेसु जा असक्षहणा । सदहणावि अमिच्छा, विपरीअपरूपणा जाय ॥१॥ संसयकरणं जं चिअ, जो तेसु अगायरो पयत्येसु । तं पञ्चविहं मिच्छं, तद्दिट्टी मिच्छदिट्ठी अ॥२॥ एतत्पश्चविधमपि मिथ्यात्वं व्यक्तमेव, अथवा-+आभिग्गहिअमणाभि-गहियं तहाभिनिवोस चेव । संसइअमणाभोग, मिच्छत्तं पंचहा होइ ॥१॥ इत्यत्रापि यदेकमनाभोगिकमिथ्यात्वं तदव्यक्तं, शेषमिथ्यात्वचतुष्टयं तु व्यक्तमेव, तथा-दसविहे मिच्छत्ते पन्नत्ते, तंजहा-अधम्मे धम्मसन्ना, धम्मे अधम्मसन्ना, उम्मग्गे मग्गसन्ना, मग्गे उम्मग्गसन्ना, अजीवेसु जीवसन्ना, जीवेसें अजीवसना, असाहुसु साहुसन्ना, साहस असाहुसन्ना, अमुत्तेसु मुत्तसन्ना, मुत्तेसु अमुत्तसन्ना । इत्येवमादिकमपि यन्मिथ्यात्वं तद्वयक्तमेव, अपरं तु यदनादिकालं यावन्मोहनीयप्रकृतिरूपं मिथ्यात्वं सद्दर्शनरूपात्मगुणाच्छादकं जीवेन सह सदाविनाभावि भवति, तदव्यक्त मिथ्यात्वमिति ॥६॥ अथ मिथ्यात्वस्य गुणस्थानकत्वमाह
*जीवादिपदार्थेषु जिनोपदिष्टेषु या अश्रद्धा । श्रद्धाऽपिच मिथ्या, विपरीतप्ररूपणा या च । १ । संशयकरणं यदेव, यस्तेषु अना. दरः पदार्थेषु । तत् पञ्चविधं मिथ्यात्वं, तदृष्टिमिथ्यादृष्टिश्च ॥ २ ॥ + आभिग्रहिकमनाभिग्रहिकं तथाऽऽभिनिवेशिकमेव । सांशथिकमनाभोगिकं | मिथ्यात्वं पञ्चधा भवति । १ । + दशविधं मिथ्यात्वं प्रज्ञप्तम् , तद्यथा-अधर्म धर्मसंज्ञा १ धर्मे अधर्मसंज्ञा २ उन्मार्गे मार्गसंज्ञा ३ मार्गे उन्मार्गसंज्ञा ४ अजीवेषु जीवसंज्ञा ५ जीवेषु अजीवसंज्ञा ६ असाधुषु साधुसंज्ञा ७ साधुषु असाधुसंज्ञा ८ अमूर्तेषु मूर्तसंज्ञा ९ मूर्तेषु अमूर्तसंज्ञा १०. १ अमग्ग । प्र०।२ अजीवे । प्र०। ३ जीवे प्र०
For Private & Personel Use Only
Page #11
--------------------------------------------------------------------------
________________
गण०
अनायव्यक्तमिथ्यात्वं, जीवेऽस्त्येव सदा परम् । व्यक्तमिथ्यात्वधीप्राप्ति-गुणस्थानतयोच्यते ॥ ७॥
व्याख्या-अनादि च तदव्यक्तंच अनाद्यव्यक्तं, तच्च तन्मिथ्याखं च अनाद्यव्यक्तमिथ्यात्वं ' जीवे ' पाणिनि अव्यव- 1 हारराशिवर्तिनि 'सदा सर्वदाऽप्यस्त्येच, परं व्यक्तमिथ्यात्वस्य-पूर्वोक्तस्वरूपस्य धीवुद्धिस्तत्प्राप्तिरेव गुणस्थानतयोच्यत इति। आहनिन '* सहजिअठाण मिच्छे' इति मिथ्यादृष्टो सर्वोण्यपि जीवस्थानानि लभ्यन्ते, तत्कथं व्यक्तमिथ्यात्वधीप्राप्तिरेव प्रथमगणस्थानतामाप्नोति ? इत्यत्रोच्यते ' सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तशः' इति वचनात् ये प्राप्तव्यक्तमिथ्यात्वबुद्धयो जीवा व्यवहार-ITI राशिवर्तिनस्त एव प्रथमगुणस्थाने लभ्यन्ते, न त्वव्यवहारराशिवर्तिनः, तेषामव्यक्तमिथ्यात्वस्यैव सद्भावादित्यदोषः॥ ७ ॥ अथ | मिथ्यात्वदूषणमाह
मद्यमोहाद्यथा जीवो, न जानाति हिताहितम् । धर्माधर्मों न जानाति, तथा मिथ्यात्व | मोहितः ॥८॥
* सर्वनीवस्थानानि मिथ्यात्वे
१ गुणस्थानस्थाः । प्र० । २ अन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिप्रत्तिरविपर्यस्तापि भवति इति मलयगिरिपादाः 19 घडशीतिवृत्तौ । कर्मस्तवविवरणादावप्येवमेवोतध्येयम् ।
For Private & Personel Use Only
Page #12
--------------------------------------------------------------------------
________________
गुण०
॥६॥
JEZ ICH JE Z offe Ho
व्याख्या —- यथा ' जीवो ' मनुष्यांदिप्राणी ' मद्यमोहाद् 'मदिरोन्मादात् हितं वाऽहितं वा किमपि न जानाति, नष्टचैतेन्यवत्, तथा मिथ्यात्वमोहितो जीवो धर्माधर्मौ सम्यग्न जानात्यज्ञानत्वात्, यदाह – मिथ्यात्वेनालीढचित्ता नितान्तं, तत्त्वातत्त्वं जातेनैव जीवाः । किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्तिमासादयेयुः १ ॥ १ ॥ इति ॥ ८ ॥ अथ मिथ्यात्वस्य ..स्थितिमाह
अभव्याश्रितमिथ्यात्वे -ऽनाद्यनन्ता स्थितिर्भवेत् । सा भव्याश्रितमिथ्यात्वे - ऽनादिसान्ता पुनर्मता ॥ ९ ॥
व्याख्या – अभव्यजीवानाश्रित्य मिध्यात्वे - सामान्येनाव्यक्तमिध्यात्वविषयेऽनाद्यनन्ता स्थितिर्भवति, तथा सैव स्थितिभव्यजीवान् पुनराश्रित्यानादिसान्ता पुनर्मता-संमता, यदाह - *मिच्छत्तमभवाणं, तमणाहमणतयं मुणेयवं । भवाणं तु अणाइ, जवस तुमिच्छतं ॥१॥" इयं च स्थितिः सामान्येन मिध्यात्वमाश्रित्य दर्शिता, यदि पुनर्मिध्यात्वगुणस्थानस्य स्थितिर्विचार्यते तदा अभव्यानाश्रित्य साधनन्ता भव्यानाश्रित्य सादिसान्तेति । तदा मिध्यात्वगुणस्थानस्थो जीवो विंशत्युत्तरशतबन्धप्रायोग्यकर्मप्रकृतीनां मध्यातीर्थकृत्कर्मा हारकद्वयाबन्धात्सप्तदशोत्तरशतबन्धकः, तथा द्वात्रिंशत्युत्तरशतोदयप्रायोग्यंकर्मप्रकृतीनां मध्यात् मिश्रसम्यक्वाहारकद्विकतीर्थकृत्कर्मेतिपञ्चप्रकृतीनामनुदयात्सप्तदशोत्तरशतवेदिता, अष्टचत्वारिंशदधिकशतसत्ताको भवति ॥ ९ ॥ इति १ मनुष्यादिकः । प्र० । २ नष्टचैतन्यत्वात् । प्र० । ३ सम्पत्ते । प्र० । * मिथ्यात्वमन्यानां तदनाद्यनन्तं मुणितव्यम् । भव्यानां त्वनादिसपर्यवसितं मिथ्यात्वम् ॥ १ ॥
२०४४४४४ ६६
वृत्तिः
॥ ६ ॥
Page #13
--------------------------------------------------------------------------
________________
प्रथमं गुणस्थानम् ॥ १ ॥ अथ द्वितीयं-सास्वादनगुणस्थानमूलकारणभूतीपशमिकसम्यक्त्वस्वरूपमाह
अनादिकालसंभूत-मिथ्याकर्मोपशान्तितः। स्यादौपशमिकं नाम, जीवे सम्यक्त्वमादितः॥१०॥
व्याख्या-'जीवे' भव्यंजीवविषये 'अनादिकालसंभूतमिथ्याकर्मोपशान्तितोऽनादिकालोद्भवमिथ्यात्वकर्मोपशमादादितो | ग्रन्थिभेदकरणकालादौपशमिकं नाम सम्यक्त्वं स्यादिति सामान्योऽर्थः, विशेषार्थस्त्वयम्-औपशमिकं सम्यक्त्वं द्विधा, एकमन्त| रकरणौपशमिकं, द्वितीय स्वश्रेणिगतोपशमिर्क, तत्रापूर्वकरणेनैव कृतग्रन्थिभेदस्याकृतत्रिपुन्जीकरणस्य-मिथ्यात्वकर्मपुद्गलराशेरेवाविहिताशुद्धा शुद्धशुद्धमिथ्यात्वमिश्रसम्यवस्वरूपत्रिपुन्जस्योदीर्णे मिथ्यात्वे क्षीणेऽनुदीर्णे चाप्राप्तस्य इति, अन्तरकरणान्तर्मुहूर्तकालं यावत्सर्वमिथ्यात्वावेदकस्य, अन्तरकरणौपशमिकसम्यक्त्वमेकवारमेव भवति, तथोपशमश्रेणिमपन्नस्य मिथ्यात्वानन्तानुबन्धिनामुपशमे सति स्वश्रेणिगतोपशमसम्यक्तूवं भवति, तथा चोच्यते-*अकयतिपुंजो ऊसर-ईलियदवदडरुक्खनाएहिं । अन्तरकरणुवसमिओ, उपसमिओ वा ससेणिगओ॥१॥ तदेतद् विभेदमप्यौपशमिकसम्यक्त्वं सास्वादनोत्पत्तिमूलकारणमिति ॥ १०॥ अथ सास्वादनस्वरूपं पद्यद्वयेनाह
एकस्मिन्नुदिते मध्या-च्छान्तानन्तानुवन्धिनाम् । आद्योपशमिकसम्यक्त्व-शैलमोलेः परिal १ प्रत्यन्तरे मूलेति नास्ति । २ भव्येति नास्ति ।प्र० । ३ सर्वथा । प्र० । * अकृतत्रिपुञ्ज ऊपरेलिकादवदग्धवृक्षज्ञातैः । अन्तरकरणौपशमिक 1 औपशमिको वा स्वश्रेणिगतः । १।
For Private & Personel Use Only
Page #14
--------------------------------------------------------------------------
________________
गुण०
|| 2 ||
HEH HEHEHEHEHEHE. JEH HEHE ICH JEH JE Z Ho
च्युतः ॥ ११ ॥ समयादावलीषट्कं यावन्मिथ्यात्वभूतलम् । नासादयति जीवोऽयं, तावत्सास्वादनो भवेत् ॥ १२ ॥ युग्मम् ॥
व्याख्या - औपशमिकसम्यक्त्ववानयं जीवः शान्तानन्तानुबन्धिनाम् मध्यादेकस्मिन्नपि - क्रोधादावुदीर्णे सति आद्यमीपशमिकसम्यक्त्वं शैलमौलिकल्पम् - गिरिशिखरतुल्यम्, ततः परिच्युतो - भ्रष्टो ' यावन्मिथ्यात्वभूतलं नासादयति ' मिध्यात्वभूमिमण्डलं न प्राप्नोति तावत्समयादावलीषद्कान्तकालं सास्वादनगुणस्थानवर्त्ती भवति, यदाह + - उवसमअद्धाइ ठिओ, मिच्छमपत्तो तमेव गन्तुमणो । सम्मं आसायन्तो, सासायणमो मुणेयो || १ || आह- ननु व्यक्तमिथ्यात्वधीप्राप्तिरूपस्याद्यस्य मिश्रादीनां च गुणस्थानानामुत्तरोत्तरारोहरूपाणां गुणस्थानत्वं युक्तं, परं सम्यक्त्वात् प्रपातरूपस्य सास्वादनस्य गुणस्थानकत्वं कथमिति, अत्रोच्यते—मिथ्यात्वगुणस्थानमाश्रित्य सास्वादनस्याप्यूर्ध्वास्पदारोह एवास्ते (एवास्ति) यतो मिथ्यात्वगुणस्थानमभव्यानामपि भवति, सास्वादनं तु भव्यानामेत्र, भव्येष्वप्यपार्द्धपुद्गलपरावतीवशेषसंसाराणामेव, यदाह *अंतोमुहुत्तमित्तंपि, फासियं हुज्ज जेहि सम्मत्तं । तेसिं अवडूपुम्गल-परिअट्टो चैव संसारो ॥ १ ॥ इति सास्वादनस्यापि मिथ्यात्वगुणस्थानारोहरूपं गुणस्थानत्वं भवतीत्यदोषः। तथा सास्त्रादनस्थो जीवो मिथ्यात्वनरकत्रिकै केन्द्रियादिजातिचतुष्कस्थात्ररचतुष्कातपहुण्ड सेवार्त्तनपुंसकवेदरूपषोडशप्रकृतीनां + उपशमाद्धायां स्थितः मिथ्यात्वमप्राप्तः तदेव गन्तुमनाः । सम्यक्त्वमास्वादयन् सास्वादनो ज्ञातव्यः ॥ १ ॥ * अन्तर्मुहुर्त्तमात्रमपि स्पृष्टं भवेद्यैः सम्यत्तत्वम् । तेषामपार्श्वपुद्गलपरावर्त्त एव संसारः । १ ।
Jeffo
६ ६ ६ ६ 9838963609636
वृत्तिः
| ॥ ८ ॥
Page #15
--------------------------------------------------------------------------
________________
गुण०
॥ ९ ॥
HEHEHEHEH
बन्धव्यवच्छेदादेकोत्तरशतबन्धकः, तथा सूक्ष्मत्रिकातपमिथ्यात्वोदयव्यवच्छेद नरकानुपूर्व्यनुदयाच्चैकादशोत्तरशतवेदयिता, तथा तार्थ - त्सत्तासंभवात्सप्तचत्वारिंशदधिक (शत) सत्ताको भवति ॥ १२ ॥ इति द्वितीयं गुणस्थानकम् । अथ तृतीयं मिश्रगुणस्थानकमाहमिश्रकर्मोदयाज्जीवे, सम्यग्मिथ्यात्वमिश्रितः। यो भावोऽन्तर्मुहूर्त्तं स्या- तन्मिश्रस्थानमुच्यते ॥१३॥
व्याख्या - दर्शनमोहनीय (द्वितीय) प्रकृतिरूपमिश्रकर्मोदयात् ' जीवे ' जीवविषये यः समकालं समरूपतया सम्यत्वे मिथ्यात्वे च मिलितो मिश्रितो भावोऽन्तर्मुहूर्त्त यावद्भवेत्, तन्मिश्रगुणस्थानमुच्यते, यस्तु सम्यक्त्वमिथ्यात्वयोरेकतरे (तरस्मिन्) भावे वर्त्तते स ( न ) मिश्रगुणस्थानस्थाने भवति, यतोऽत्र मिश्रत्वमुभयभावयोरेकत्वरूपं जात्यन्तरमेव ॥ १३ ॥ अत्रोभयभावयोरेकत्वे जात्यन्तरसमुद्भूतं दृष्टान्तां श्लोकद्वयेनाह—
जात्यन्तरसमुद्भूति-र्वडवाखरयोर्यथा । गुडदनोः समायोगे, रसभेदान्तरं यथा ॥ १४ ॥ तथा धर्मद्वये श्रद्धा, जायते समबुद्धितः । मिश्रोऽसौ भण्यते तस्मा - द्वावो जात्यन्तरात्मकः ॥ १५ ॥ व्याख्या—'यथा' येन प्रकारेण वडवाखरयोः समायोगे नाश्वो जायते, न रासभः, किंतु वेसररूपा जात्यन्तरसमुद्भूतिर्भवति; तथ गुडदनोः समायोगे न गुडरसो व्यक्तो भवति, न च दधिरसः, किंतु शिखरिणीरूपा रसभेदान्तरसमुद्भूतिर्भवति, १ तीर्थकृत्कर्मसत्ता ( प्र० ). २ स्थानस्थो । प्र० । ३ अथो० । प्र० । ४ यथा । प्र० ।
XK••XK• *>€•XX
वृत्तिः
॥९॥
Page #16
--------------------------------------------------------------------------
________________
Ishl 'तथा' तेन प्रकारेण यस्य धर्मद्वये-सर्वज्ञासर्वज्ञप्रणीते समबुद्धितयो श्रद्धा जायते, स जात्यन्तरभेदात्मकमिश्रगुणस्थानस्थो भवतीति, ITयदाह-जह गुडदहीणि महियाणि, भावसहिआणि हुंतिमीसाणि । भुजंतस्स तहोभय, तद्दिट्टी मीसदिही य ॥१॥ ॥१४-१५॥ म अथ मिश्रगुणस्थानस्थो जीवो यन्न करोति तदाहo आयुर्बध्नाति नो जीवो, मिश्रस्थो म्रियते ने वा । सदृष्टिा कुदृष्टिा, भूत्वा मरणमश्नुते॥१६॥
व्याख्या-मिश्रस्थो जीवो नायुधाति परभवयोग्यायुबन्धं न करोति, न च मिश्रस्थो जीवो म्रियते-न मरणमप्यानोति, न किन्तु सदृष्टिर्भूत्वा सम्यग्दृष्टिगुणस्थानमारुध म्रियते, 'वा' अथवा, कुदृष्टि त्वा मिथ्यादृष्टिगुणस्थानमागत्य म्रियते, न तु मिश्रस्थ
एव म्रियते, तथा मिश्रे इव क्षीणमोहे सयोगिनि च वर्तमानो जीवो न म्रियते, परेवकादशसु मिथ्यात्वसास्वादनाविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणनिवृत्तिसूक्ष्मसंपरायोपशान्तमोहायोगिकेवलिरूपेषु गुणस्थानकेषु वर्तमानो म्रियते, तथा तेष्वेकादशसु मरणगुणस्थानकेषु मिथ्यात्वसासादनाविरतसम्यग्दृष्टिलक्षणानि त्रीणि गुणस्थानकानि जीवेन सह परभवमप्यनुयान्ति, न चापराण्यष्टौ गुणस्थानानि, यदाह-'मीसे खीणे सजोगे, न मरइ अवरेसु मरइगारसम् । अविरयमिच्छदुमसमं, परभवमणुजंति नो अट्ट ॥१॥ १६ ॥ अथ बद्धायुषो मिश्रस्थस्य मृतिं गतिं चाह
१ समबुद्धितः । प्र० । २ न च ।प्र० । * यथा गुडदधिनी मथिते, भावसहिते भवतो मिश्रे । मुझानस्य तथोभयं, तद्दष्टिर्मिश्रदृष्टिश्च । ११ | ३ मरणं प्राप्नोति प्र० ४ अपरे० प्र० । + मिश्रे क्षीणे सयोगिनि, न म्रियते अपरेषु, म्रियते एकादशम् । अविरतिमिथ्यावद्विकसम्यक्त्वं, न परभवमनुयाति न अष्टौ ॥१॥
For Private & Personel Use Only
Page #17
--------------------------------------------------------------------------
________________
गुण०
॥११॥
सम्यग्मिथ्यात्वयोर्मध्ये, ह्यायुर्येनार्जितं पुरा। म्रियते तेन भावेन, गतिं याति तदाश्रिताम् ॥१७॥
व्याख्या-येन' बद्धायुषा जीवेन मिश्रभावावस्थायाः 'पुरा' पूर्व 'येन' सम्यक्त्वमिथ्यात्वयोरेकतरेण भावेन कृत्वायुःकर्म बद्धं, स जीवो मिश्रभावमनुभूयापि पुनस्तेनैव भावेन म्रियते, तदाश्रितां गतिं च 'याति' गच्छति । तथा मिश्रगुणस्थानस्थो जीवस्तिर्यत्रिकस्त्यानदित्रिकदुर्भगदुःस्वरानादेयानन्तानुबन्धिमध्याकृतिमध्यसंहननचतुष्कनीचैर्गोत्रोद्योताप्रशस्तविहायोगतिस्त्रीवेदरूपपश्चविंशतिप्रकृतिबन्धव्यवच्छेदान्मनुष्यदेवायुषोरचन्धाच चतुःसप्ततेर्बन्धकः, तथाऽनन्तानुबन्धिस्थावरैकेन्द्रियविकलत्रिफोदयव्यवच्छेदाद्देवमनुष्यतिर्यगानुपूर्व्यनुदयाच मिश्रोदयाच शतस्य वेदयिता, सप्तचत्वारिंशदधिकशतसत्ताको भवति ॥१७॥ इति तृतीयं गुणस्थानकम् । अथ चतुर्थमविरतसम्यग्दृष्टिगुणस्थानकं, तत्र प्रथम सम्यक्त्वमाप्तिस्वरूपमाह_ यथोक्तेषु च तत्वेषु, रुचिर्जीवस्य जायते । निसर्गादुपदेशाद्वा, सम्यक्त्वं हि तदुच्यते ॥१८॥
व्याख्या-'जीवस्य' भव्यस्य संज्ञिपञ्चेन्द्रियप्राणिनो 'यथोक्तेषु' यथावत्सर्ववित्प्रणीतेषु तस्वेषु' जीवादिपदार्थेषु 'निसर्गात ' पूर्वभवाभ्यासविशेषजनितात्यन्तनैर्मल्यगुणात्मकात्मस्वभावात् , 'उपदेशाद्वा' सद्गुरूपदिष्टशास्त्रश्रवणात् वा. या श्रद्धा
रुचिरूपा भावना 'जायते' समुत्पद्यते, 'हि' स्फुटं तत्सम्यक्त्वं सम्यश्रद्धानलक्षणमुच्यते, यदाई-"रुचिर्जिनोक्ततरवेषु, सम्यक| श्रद्धानमुच्यते । जायते तनिसर्गेण, गुरोरधिगमेन वा ॥१॥" ॥१८॥ अथापिरतसम्यग्दृष्टित्वं यथा स्यात्तथाऽऽह
१ या यथोक्तेषु प्र० २ तदाह प्र०
॥१२॥
For Private & Personel Use Only
Page #18
--------------------------------------------------------------------------
________________
गुण
द्वितीयानां कषायाणामुदयाद्रतवर्जितम् । सम्यक्त्वं केवलं यत्र, तच्चतुर्थं गुणास्पदम् ॥१९॥
व्याख्या-'द्वितीयानां कषायाणां' अपत्याख्यानसंज्ञितानां क्रोधादीनामुदयाद्, 'व्रतवर्जितं' विरतिरहितं, अत एव 'केवलं' सम्यक्त्वमात्र, यत्र भवति, 'तञ्चतुर्थ गुणास्पद' अविरतसम्यग्दृष्टिनामकं गुणस्थानकं भवति, अयमर्थः-यथा कश्चित्पुरुषो न्यायोपपनधनभोगविलासमुखसौन्दर्यशालिकुलसमुत्पन्नोऽपि दुरन्तवृतादिव्यसनांचीणानेकान्यायोत्पादितापराधलब्धराजदण्डखण्डिताति(भि)मानश्चण्डदण्डपाशिकैर्विडम्ब्यमानः स्वकं व्यसनजनितं कुत्सितं कर्म विरूपं जानन् स्वकुलसुखसौन्दर्यसंपदमभिलषन्नप्यारक्षकाणां सकाशादच्छ्वसितुमपि न शक्नोति; तथाऽयं जीवोऽविरतत्वं कुत्सितकर्मकल्पं जानन् विरतिमुखसौन्दर्यमभिलपन्नपि आरक्षककल्पद्वितीयकषायाणां सकाशाद् व्रतोत्साहमपि कर्तुं न शक्नोति, अविरतसम्यग्दृष्टित्वमनुभवतीत्यर्थः ॥ १९ ॥
अथ चतुर्थगुणस्थानकस्थितिमाहउत्कृष्टाऽस्य त्रयस्त्रिंश-त्सागरा साधिका स्थितिः । तदर्द्धपुद्गलावर्त्त-भवैभव्यैरवाप्यते ॥२०॥
व्याख्या--'अस्य' अविरतसम्यग्दृष्टिगुणस्थानकस्योत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमप्रमाणा सातिरेका भवति, सा च सर्वार्थसिद्धयादिविमानस्थितिरूपा मनुष्यायुरधिका ज्ञेया, तथैतत्सम्यक्त्वमर्द्धपुद्गलपरावर्तशेषभवैरेवावाप्यते, नान्यैरिति प्रतीतमेव॥२०॥
अथ सम्यग्दृष्टिलक्षणान्याह१ सेवना० प्र०
For Private & Personel Use Only
Page #19
--------------------------------------------------------------------------
________________
नि
कृपाप्रशमसंवेगनिर्वेदास्तिक्यलक्षणाः । गुणा भवन्ति यञ्चित्ते, स स्यात्सम्यक्त्वभूषितः ॥२१॥
व्याख्या-दुःखितेषु जन्तुषु दुःखापहारचिन्ता कृपा १, कोपादिकारणेधूत्पन्नेषु तीव्रानुशयाभावः प्रशमः २, धाधिरोहसोपानसमानसम्यग्ज्ञानादिसाधनोत्साहलक्षणो मोक्षाभिलाषः संवेगः ३, अत्यन्तकुत्सिततरसंसारचारकनिर्गमद्वारोपमपरमवैराग्यप्रवेशरूपो निर्वेदः ४, श्रीसर्वज्ञप्रणीतसमस्तभावानामस्तित्वनिश्चयचिन्तनमास्तिक्यं ५, तदेते कृपाप्रशमसंवेगनिर्वेदास्तिक्यलक्षणा गुणा यस्य चित्ते भवन्ति, स भव्यजन्तुः सम्यक्त्वालङ्कृतो भवति ॥ २१॥
अथ सम्यग्दृष्टिगुणस्थानवर्तिनां गतिमाहक्षायोपशमिकी दृष्टिः, स्यान्नरामरसंपदे । क्षायिकी तु भवे तत्र, त्रितुर्ये वा विमुक्तये ॥ २२ ॥
व्याख्या-अत्र जीवपरिणामविशेषरूपं करणमुच्यते, तत्रिधा-यथाप्रवृत्तिकरणं, अपूर्वकरणं, अनिवृत्तिकरणं चेति, तत्र गिरिसरिजलाभ्यालोडचमानपाषाणवद् घोलनान्यायेन जीव आयुर्वर्जकर्माणि किञ्चिदुबैककोटाकोटिसागरस्थितिकानि कुर्वन् येनाध्यवसायविशेषेण ग्रन्थिदेशं यावदायाति तद्यथाप्रवृत्तिकरणमुच्यते ॥ तथा येन अप्राप्तपूर्वेण अध्यवसायविशेषेण तं ग्रन्थिं-धनरागद्वेषपरिणतिरूपं भेत्तुमारभते तद् अपूर्वकरणमुच्यते २। येनाध्यवसायविशेषेणानिवर्त्तकेन ग्रन्थिभेदं कृत्वाऽतिपरमाल्हादजनकं
१ ०णेऽप्युत्पन्ने प्र०. २ क्रोधाभावः
॥१३॥
For Private Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
सम्यक्त्तवमानोति तदनिवृत्तिकरणमिति, यदाहः श्रीजिनभद्रगणिक्षमाश्रमणा:-* अंतिमकोडाकोडी, सबकम्माणमाउवज्जार्ण । पलिआसंखिजइमे, भागे खीणे हवइ गंठी ॥ १॥ गंठित्ति सुदुब्भेओ, कक्खडयणरूढगूढगंठिछ । जीवस्स कम्मजाणिओ, घणरा| गहोसपरिणामो ॥ २॥ भिन्नमि तम्मि लाभो, संमत्ताईण मुक्खहेऊणं । सो उ दुलंभो परिसमचित्तविघायाइविग्येहिं ॥३॥
जा गंठी ता पढम, गठि समइच्छओ भवे बीअं । अनियट्टिकरणं पुण, संमत्तपुरक्खडे जीवे ॥ ४ ॥ अथवा पथिकलयदृष्टान्तेन के करणत्रययोजना यथा-+जह वा तिणि मणूसा, जैतडविपई सहावगमणेणं । बेलाइक्कमभीआ, तुरंति पचा य दो चोरा | ॥१॥ द मग्गतडत्थे, तत्थेगो मग्गओ पडिनियत्तो । बीओ गहिओ तइओ, समइकतो पुरं पत्तो ॥२॥ अडवी भवो मणूसा, जीवा कम्मट्टिई पहो दीहो । गंठी अ भयहाणं, रागद्दोसा य दो चोरा ॥ ३ ॥ भम्गो ठिइपरिवुड़ी, गहिओ पुण गंठिओ |
* अन्त्यकोटीकोट्याः सर्वकर्मणामायुवर्णानाम् । पल्यासंरव्याततमे भागे क्षीणे भवति ग्रन्थिः । १ । ग्रन्थिरिति सुदुभेदः कर्कशघनरूढगूढप्रन्थिरिवाजीवस्य कर्मननितो धनरागद्वेषपरिणामः । २ । भिन्ने तस्मिन् लाभः सम्यक्त्वादीनां मोक्षहेतूनाम् । स एव दुर्लभः परिश्रमचित्तविघातादिविनैः ॥ ३ ॥ यावत् ग्रन्थिः तावत् प्रथम, ग्रन्थि समतिकामतो भवेद्वितीयम् । अनिवृत्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे । ४ । १ ०कोडीइ.
+ यथा वा त्रयो मनुष्याः यान्तोष्टवीपन्थानं स्वभावगमनेन । वेलातिक्रमभीताः स्वरन्ते प्राप्तौ च द्वौ चौरौ । १ । दृष्ट्वा मार्गपार्श्वस्थौ तत्रेकः पृष्ठतः प्रतिनिवृत्तः। द्वितीयो गृहीतस्तृतीयः समतिकान्तः पुरं प्राप्तः । ३ । अटवी भवो मनुष्या जीवाः कर्मस्थितिः पन्था दीर्घः । प्रन्थिश्च II भयस्थानं, रागद्वेषौ च द्वौ चौरौ । ४ । भग्नः स्थितिपरिवृद्धिZहीतः पुनर्ग्रन्थिको गतस्तृतीयः । सम्यक्त्वं पुरं एवं योजयेत् त्रीणि करणानि । ५।
For Private Personal use only
Page #21
--------------------------------------------------------------------------
________________
गणक
हात
॥१५॥
गओ तइओ। सम्मत्तपुरं एवं, जोइज्जा तित्रि करणाई ॥४॥ अथवा पिपीलिकोपमानेन करणत्रययोजना-+ खिइसाभाविअगमणं, थाणूसरणं तओ समुप्पयणं । अणं थाणुसिरे वा, ओसरणं वा मुइंगाणं ॥१॥ खिइगमणं पिव पढम, थागूसरणं व करणमप्पुवं । उप्पयणं पिव तत्तो, जीवाणं करणमनिअट्टी ॥ २ ॥ थागूव गंठिदेसो, गठियसत्तस्प्त तत्थवत्थाणं । ओयरणं पिव तत्तो, पुणोवि कम्महिइविवढी ॥ ३ ॥ इत्यादि, ततो जीवो यथापवृत्तिकरणेन ग्रन्थिदेशं संपाप्यापूर्वकरणेन ग्रन्थिभेदं विधाय कश्चिन्मिथ्यात्वपुद्गलराशि विभज्य मिथ्यात्वमिश्रसम्यक्त्वरूपं पुञ्जनयं कुरुते, ततोऽनिवृत्तिकरणेन विशुद्धयमान उदीर्णे मिथ्यात्वे क्षीणेऽनुदीर्णे चोपशान्ते क्षायोपशमिकं सम्यक्त्वं प्राप्नोति, यदाह- पाति खवेऊणं, कम्माइं अहापवत्तकरणेणं। उबलनाएण कहमवि, अभिन्नपुत्वं तओ गंठिं ॥१॥ तं गिरिवरं व भित्तुं, अपुवकरणुग्गवज्जधाराए। अंतोमुहुत्तकालं, गर्नु अनियट्टिकरणंमि ॥२॥ पइसमयं सुज्झतो, खविङ कम्माई तत्थ बहुयाई। मिच्छत्तमि उइने, खीणे अणुअंमि उवसंते ॥ ३॥ संसार
॥१५॥
+ क्षितिस्वाभाविकगमनं स्थाणूत्सरणं ततः समुत्पतनम् । स्थानं स्थाणुशिरसि वा, अपसरणं वा पिपीलिकानाम् ॥१॥ क्षितिगमनवत् प्रथम, - स्थाणूत्सरणवत् करणमपूर्वम् । उत्पतनवत् ततः जीवानां करणमनिवृत्ति ।२। स्थाणुवत् ग्रन्थिदेशो, ग्रन्थिकसत्त्वस्य तत्रावस्थानम् । अवतरणमिव ततः ।
पुनरपि कर्मस्थितिविवृद्धिः ।३। प्राप्नोति क्षपयित्वा कर्माणि यथाप्रवृत्तिकरणेन । उपलज्ञातेन कथमपि अभिन्नपूर्वस्ततो ग्रन्थिम् । १। तं गिरिवरमिव भित्त्वा, अपूर्वकरणोग्रवज्रधारया । अन्तर्मुहूर्त्तकालं, गत्वाऽनिवृत्तिकरणे ।२। प्रतिसमयं शुध्यन् क्षपयित्वा कर्माणि तत्र बहुकानि । मिथ्यात्व उदीर्णे क्षीणेऽदीणे उपशान्ते ।३। संसारग्रीष्मतप्तस्ततो गोशीर्षचन्दनरसवत् । अतिपरमनिर्वृतिकर, तस्यान्ते लभते सम्यक्त्वम् ।।
For Private & Personel Use Only
Page #22
--------------------------------------------------------------------------
________________
गुण०
॥१६॥
१६६४°४६ ६ ६ ६ ६ ६
गिम्हतविओ, तत्तो गोसीसचंदणरसुख । अइपरमनिव्वुइकरं, तस्ते लहइ सम्मतं ॥ ४ ॥ अन्यच्च - * अप्पुचकयतिपुंजो, मिच्छमुइणं खवित्तु अणुइन्नं । उवसामिय अनियट्टी - करणउ परं खओवसमी ॥ १ ॥ ततोऽसौ क्षायोपशमिकी दृष्टिः समुत्पन्ना सती जीवानां 'नरामरसंपदे' देवमानवर्द्धये 'स्याद्' भवेत्, तथाऽपूर्वकरणेनैव कृतत्रिपुन्जस्य जीवस्य चतुर्थगुणस्थानादारभ्य क्षपकत्वे प्रारब्धेऽनन्तानुबन्धिचतुष्कस्य मिथ्यात्वमिश्रसम्यक्त्वरूपपुञ्जत्रयस्य च क्षये क्षायिकं सम्यत्वं भवति, ततोऽसौ क्षायिकदृष्टिस्तु पुनरबद्धायुष्कस्य तत्रैव ' भवे 'मुक्तये ' मोक्षाय स्यात्, बद्धायुष्कस्य तु जीवस्य तृतीये भवे असंख्यातजीविनां मायोग्यबडायुष्य चतुर्थे भवे मुक्तये स्थात्, तथा चाह - मिच्छाइखए खइओ, सो सत्तगि खीणि डाइ बडाऊ । चउतिभवभाविमुक्खो, तभवसिद्धी अ इअरो अ ॥ १ ॥ ॥ २२ ॥ अथाविरतगुणस्थानवर्तिनो जीवस्य कृत्यमाह -
देवे गुरौ च सङ्के च, सद्भक्तिं शासनोन्नतिम् । अत्रतोऽपि करोत्येव, स्थितस्तुर्ये गुणालये ॥ २३ ॥ व्याख्या -' तुर्ये चतुर्थे ' गुणालये ' गुणस्थाने अविरतसम्यग्दृष्टिलक्षणे वर्त्तमानो जीवः ' अत्रतो ' व्रतनियमरहितो 'देवे' देवविषये, 'गुरौ' गुरुत्रिषये, 'सङ्खे ' सङ्घविषये 'सद्भक्ति' पूजाप्रणतित्रात्सल्यादिरूपां करोति, तथा 'शासनोन्नति ' * अपूर्वकृत त्रिपुन्जो मिथ्यात्वमुदीर्ण क्षपयित्वा अनुदीर्णम् । उपशमय्य अभिवृत्तिकरण नः परं क्षयोपशमी | १ | x मिथ्यावादी क्षीणे क्षायिकः स सप्तके क्षीणे तिष्ठति बद्धायुष्कः । चतुस्त्रिभवभाविमोक्षस्तद्भवसिद्धिश्च इतरश्च । १ । १० रहितोऽपि प्र० २ श्री सङ्घविषये प्र०
१४००४४४०-१६०४६ ६ ६ ६
वृत्तिः
॥१६॥
Page #23
--------------------------------------------------------------------------
________________
गुण०
त्ति०
॥१७॥
शासनप्रभावनां, करोत्येव, प्रभावकश्रावकत्वात् , यदाह-जो अविरओऽवि संघे, भत्ति तित्थुण्णई सया कुणई ।अविरयसम्महिट्टी, पभावगो सावगो सोवि ॥१॥ तथाऽविरतसम्यग्दृष्टिगुणस्थानस्थो जीवस्तीर्थकृदायुकिस्य बन्धात् सप्तसप्ततेबन्धकः, तथा मिश्रोदयव्यवच्छेदादानुपूर्वीचतुष्कसम्यक्त्वोदयाच चतुरुत्तरशतस्य वेदयिता अष्टत्रिंशदधिकशतसत्ताको भवति, उपशमकस्तु चतुर्थादेकादशान्तं सर्वत्राष्टाचत्वारिंशदधिकशतसत्ताको लभ्यते, क्षपकस्य तु सत्ता प्रतिगुणस्थानं दर्शयिष्यते ॥ २३ ॥ इत्यविरतसम्यग्दृष्टिगुणस्थानं चतुर्थम् ।। अथ पञ्चमगुणस्थानस्वरूपमाह
प्रत्याख्यानोदयादेशविरतिर्यत्र जायते । तच्छ्राद्धत्वं हि देशोनपूर्वकोटिगुरुस्थिति ॥ २४ ॥
व्याख्या-जीवस्य सम्यक्त्वावबोधजनितवैराग्योपचयात्सर्वविरतिवाञ्छां कुर्वतोऽपि सर्वविरतिघातकप्रत्याख्यानावरणाख्यकपायाणामुदयात्सर्वविरतिपतिपत्तिशक्तिर्न समुत्पद्यते, किंतु जघन्यमध्यमोत्कृष्टरूपा देशविरतिरेवं जायते, तत्र जघन्या विरतिराकुटिस्थूलहिंसादित्यागान्मद्यमांसादिपरिहारात्परमेष्ठिनमस्कृतिस्मृतिनियममात्रेधारणात्, यदाह-* आउट्टिथूल हिंसाइमज्जमंसाइचायओ। जहन्नो सावओ होइ, जो नमुक्कारधारओ ॥१॥ तथा मध्यमा विरतिरक्षुद्रादिभिर्व्यायसंपन्न विभव इत्यादिभिर्वा
+ योऽविरतोऽपि सङ्के भक्ति तीर्थोन्नतिं सदा करोति । अविरतिसम्यग्दृष्टिः प्रभावकः श्रावकः सोऽपि । १। १ कालं प्र० २ सुरनारकतिर्यगायुरनन्तानुबन्धिचतुष्कदर्शनमोहत्रिकावनाशात् ( चरमशरीरिणमाश्रिस्य क्षायिकसम्यत्तववन्तम् ) ३ ०रतिर्जायते प्र० ४ नेदम् प्र. *आकुट्टीस्थूलहिंसादिमद्यमांसादित्यागात् । जघन्यः श्रावको भवति, यो नमस्कारधारकः ॥१॥
॥१७॥
For Private & Personel Use Only
Page #24
--------------------------------------------------------------------------
________________
गुण
॥१८॥
धर्मयोग्यतागुणैराकीर्णस्य गृहस्थोचितपदकर्मनिरतस्य द्वादशत्रतपालकस्य सदाचारस्य भवति, यदाह- धम्मजुग्गगुणाइण्णो, छक्कम्मो बारसबओ। गिहत्थो य सयायारो, सावओ होइ मज्झिमो॥१॥ तथोत्कृष्टा विरतिः सचित्ताहारवर्जकस्य सदैव कृतैक| भक्तस्यानिन्धब्रह्मत्रतपालकस्य महाव्रताङ्गीकारस्पृहयालुतया त्यक्तगृहद्वन्द्वस्य श्रमणोपासकस्य भवति, यदाह-उक्कोसेणं तु सडोउ,
सच्चित्ताहारवज्जओ। एगासणगभोई अ, बंभयारी तहेव य ॥१॥ इत्येवंविधा त्रिविधाऽपि देशविरतिरेवं यत्र भवति 'हि' स्फुट तत 'श्राद्धत्वं' श्रावकत्वं स्यात्, तत्कथंभूतं ? देशोना पूर्वकोटिगुर्वी स्थितिर्यत्र तत् देशोनपूर्वकोटिगुरुस्थिति, यद्भाष्यम्-* छावलिया | सासायणे समहिअंतित्तीससागर चउत्थं । देसूणपुत्वकोडी, पंचमगं तेरसं च पुणो ।। ॥२४॥ अथ देशविरतौ ध्यानसंभवमाह
आतै रौद्रं भवेदत्र, मन्दं धयं तु मध्यमम् । षट्कर्मप्रतिमाश्राद्ध-व्रतपालनसंभवम् ॥२५॥
., व्याख्या-'अत्र' देशविरतिगुणस्थानके अनिष्टयोगात, इष्टवियोगात, रोगात, निदानामिति चतुष्पादमार्तध्यानं, रौद्रध्यानं च हिंसानन्दरौद्रं, मृषावादानन्दगैद्र, चौर्यानन्दरौद्र, संरक्षणानन्दरौद्रं चेति चतुष्पादं रौद्रध्यानं च मन्दं भवति, कोऽर्थः? As यथा यथा देशविरतिरधिकाऽधिकतरा च भवति, तथा तथाऽऽतरौद्रध्याने मन्द मन्दतरे च स्यातां, तु पुनर्धर्मध्यानं यथा यथा
X धर्मयोग्यगुणाकीर्णः षट्कर्मा द्वादशवतः । गृहस्थश्च सदाचारः श्रावको भवति मध्यमः ।। १ धर्म० प्र० २ अजिह्मवत० प्र० 1 उत्कृष्टेन तु श्राद्धस्तु सचित्ताहारवर्नकः । एकासनकभोजी च ब्रह्मचारी तथैव च ॥ १॥ ३ ०रतिर्यत्र प्र० । * षडावली: सास्वादनं समधिकत्रयस्त्रिंशत्सागराणि चतुर्थम् । देशोनपूर्वकोटी पन्चमकं त्रयोदशं च पुनः ।। ४ धर्म प्र..
॥१८॥
For Private Personel Use Only
Page #25
--------------------------------------------------------------------------
________________
देशविरतिरधिकाधिका स्यात्तथा तथा मध्यमं यावदधिकाधिकं भवति, नतृत्कृष्ट धर्मध्यानं स्यादित्यर्थः, यदि पुनस्तत्राप्युत्कृष्टं धर्म| ध्यानं परिणमति, तदा भावतः सर्वविरतिरेव संजायते, कथंभूतं धर्मध्यान ? 'पट्कर्मपतिमाश्राडव्रतपालनसंभवं' पट्कर्माणि ३) देवपूजादीनि, यदुच्यते-देवपूजा गुरूपास्तिः, स्वाध्यायः संयमस्तपः। दानं चेति गृहस्थानां, षद् कर्माणि दिने दिने ॥१॥ प्रतिमा अभिग्रहविशेषा दर्शनप्रतिमाद्या एकादश, यदाह-दसणवयंसामाइपोसहपडिमा अभसञ्चित्ते । आरंभपेसे उद्दिष्ट वज्जए | समणभूए अ॥१॥ श्राव्रतान्यणुव्रतादीनि द्वादश, यदाह-पाणिवहसुसावाएं, अदत्तमेहुणपरिग्गहें चेव । दिसिभोगदंडेसमई देसे पोसह तह विभागे ॥१॥ षदकर्मादिविस्तरो ग्रन्थान्तरादवसेयः, तथैतेषां पालनात्संभवतीति षट्कर्मप्रतिमाश्राद्धव्रतपालनसंभवं धर्मध्यानं मध्यममिति । तथा देशविरतिगुणस्थानस्थो जीवोऽप्रत्याख्यानकषायचतुष्कनरत्रिकाधसंहननौदारिकद्वयरूपप्रकृतिदशकबन्धव्यवच्छेदात्सप्तषष्टेबन्धकः, तथाऽप्रत्याख्यानकषायनरतिर्यगानुपूर्वीद्वयनरकत्रिकदेवत्रिक क्रियद्वयदुर्भगानादेयायशोरूपसप्तदशप्रकृतीनामुदयव्यवच्छेदात्सप्ताशीतेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताको भवति ॥ २५ ॥ इति देशविरतिगुणस्थानक पश्चमम् ।। अथातः परं सप्तगुणस्थानानां समानामेव स्थितिमाह--
अतः परं प्रमत्तादिगुणस्थानकसप्तके । अन्तर्मुहर्तमेकैकं, प्रत्येकं गदिता स्थितिः ॥२६॥ 1 दर्शनवतसामायिकपोषधप्रतिमाऽब्रह्मसञ्चित्तानि । आरम्भप्रेपोद्दिष्टवर्नकः श्रमणभूतश्च ॥ १ ॥ * प्राणिवधमषावादादत्तमैथुनपरिग्रहाश्चैव । दिग्भोगदण्डसामायिकदेशपोषधानि तथा विभागः ॥ १॥ १ द्विक० प्र०
॥१९॥
For Private Personel Use Only
Page #26
--------------------------------------------------------------------------
________________
गुण०
॥२०॥
838 1838 18386
व्याख्या- ' अतः परं ' देशविर दिगु गस्थानादनन्तरं प्रमत्ताममत्तापूर्वकरणानिवृत्तिवाद रसूक्ष्मसंपरायोपशान्तमोहक्षीणमोहाख्य सप्तगुणस्थानानां प्रत्येकमेकैकमन्तर्मुहूर्त्त गुरुस्थितिर्गदिता - प्रोक्तेति ॥ २६ ॥ अथ प्रमत्तसंयतगुणस्थानकस्वरूपमाह - कषायाणां चतुर्थानां व्रती तीत्रोदये सति । भवेत्प्रमादयुक्तत्वात्प्रमत्तस्थानगो मुनिः ॥२७॥
*
व्याख्या – ' मुनिः ' सर्वविरतिः साधुः ' प्रमत्तस्थानगो भवेत्, ' प्रमत्ताख्यस्थानकस्थो भवति, कथंभूतो मुनिः ? ' व्रती ' व्रतान्यहिंसादीनि महाव्रतानि विद्यन्ते यस्यासौ व्रती, कस्मात्प्रमत्तः ? ' प्रमादयुक्तत्वात्, ' तत्र प्रमादाः पञ्च, यदाह-मज्जं विसय कसाया, निद्दा विगहा य पंचमी भणिया । एए पंच पमाया, जीत्रं पाडंति संसारे || १ || इत्येतैः प्रमादैर्युक्तत्वात्, क्व सति ? ' चतुर्थानां कपायाणां संज्वलनाख्यकषायाणां तीव्रोदये सति, अयमर्थः - यदा मुनेर्महाव्रतिनोऽपि संज्वलनकषायेस्तीत्रो भवति, तदाऽवश्यमन्तर्मुहूर्त्त कालं यावत्सममादत्वात् प्रमत्त एव भवति, यदा अन्तर्मुहूर्त्तादुपरि सप्रमादो भवति तदा प्रमत्तगुणस्थानादधस्तात्पतति, यदा त्वन्तर्मुहूर्त्तादूर्ध्वमपि प्रमादरहितो भवति, तदा पुनरपि अप्रमत्तगुणस्थानमारोहतीति ॥ २७ ॥ अथ प्रमत्तसंयत गुणस्थाने ध्यानसंभवमाह -
अस्तित्वान्नोकषायाणामत्रार्त्तस्यैव मुख्यता । आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता ॥ २८ ॥
* मद्यं विषयाः कषायाः निद्रा विकथा च पञ्चमी भणिता । एते पन्च प्रमादाः जीवं पातयन्ति संसारे ॥ १ ॥ १०त्तिकरणवा० प्र० २ ० कषायोदय
६०१६ ६ ६ ६ ६ ६
वृत्तिः
॥२०॥
Page #27
--------------------------------------------------------------------------
________________
गुण
॥२१॥
व्याख्या-'अत्र' प्रमत्तगुणस्थानके 'मुख्यता' मुख्यत्वं 'आर्तस्य' ध्यानस्यैवोपलक्षणत्वाद्रौद्रस्यापि, कस्मात् ?
कस्मात् वृत्ति 'नोकपायाणां' हास्यषट्कादीनां' अस्तित्वाद् विद्यमानत्वात् , तथा 'आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता' आज्ञादीन्याज्ञापायविपाकसंस्थानविचयलक्षणान्यालम्बनानि आज्ञाद्यालम्बनानि तैरुपेतं च तद्धर्मध्यानं चाज्ञाद्यालम्बनोपेतधर्मध्यानं तस्य, अत्र धर्मध्यानमपि चतुष्पादं यथा-आज्ञापायविपाकानां, संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन, धर्मध्यानं चतुर्विधम् । ॥१॥ आज्ञा यत्र पुरस्कृत्य, सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदर्थान् , तदाज्ञाध्यानमुच्यते ॥२॥ रागद्वेषकषायायैर्जायमानान् विचिन्तयेत् । यत्रापायर्यास्तदपायविचयध्यानमुच्यते ॥ ३ ॥ प्रतिक्षणं समुद्भूतो, यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स,
विपाकविचयो मतः ॥ ४॥ अनाद्यन्तस्य लोकस्य, स्थित्युत्पादव्ययात्मनः। आकृति चिन्तयेद्यत्र, संस्थानविचयः स तु ॥५॥ o इत्याज्ञाद्यालन्वनोपेतधर्मध्यानस्य गौणता अत्र सप्रमादत्वादुच्यत इति ॥ २८ ॥ अथ ये प्रमत्तस्था निरालम्बनमपि धर्मध्यानं समीहन्ते, तान् प्रति तनिषेधमाह
यावत्प्रमादसंयुक्तस्तावत्तस्य न तिष्ठति । धर्मध्यानं निरालम्बमित्यूचुर्जिनभास्कराः ॥ २९ ॥
व्याख्या-'जिनभास्करा' जिनसूर्या ' इत्यूचुः' इत्येतदेव कथयन्ति स्म, किं तदित्यौह-यः साधुर्यावत्प्रमादसंयुक्तो || | ॥२१॥ | भवति, तावत्तस्य साधोर्गोचरे निरालम्ब ध्यानं न तिष्ठतीति निश्चयः, यतोऽत्र प्रमत्तगुणस्थाने मध्यमधर्मध्यानस्यापि गौणतैवोक्ता,
१ विचिन्तनात् प्र. २ ०त्वान्न मुख्यतेति प्र० ३ इतीति किम् !-प्र०
For Private Personel Use Only
Page #28
--------------------------------------------------------------------------
________________
गण.
वृत्ति
॥२२॥
न तु मुख्यता, ततोऽत्र निरालम्बनोत्कृष्टधर्मध्यानस्यासंभव एव ॥ २९ ॥ अथ योऽमुमेवार्थ न मन्यते तं प्रत्याह
प्रमाद्यावश्यकत्यागान्निश्चलं ध्यानमाश्रयेत्। योऽसौ नैवागमंजैन, वेत्ति मिथ्यात्वमोहितः॥३०॥
व्याख्या-'या' साधुः 'प्रमादी' प्रमादयुक्तोऽपि 'आवश्यकत्यागात्' सामायिकादिपडावश्यकसाधकानुष्ठानपरिहारात् 'निश्चलं' निरालम्बं ध्यानमाश्रयेत् , ' असौ ' साधुः 'मिथ्यात्वमोहितो' मिथ्याभावमूढः सन् ‘जैनागमं'. श्रीसर्वज्ञप्रणीतसूत्रं, नैव वेत्तीति, यतोऽसौ व्यवहारं न करोति निश्चयं नामोति, जिनागमविद्भिस्तु व्यवहारपूर्वक एव निश्चयः साध्यः, यदागमः+ जइ जिणमयं पवजह, ता मा ववहारनिच्छए मुअह । ववहारनउच्छेए, तित्थुच्छेओ जओ भणिओ॥१॥ दृष्टान्तश्चात्र-यथा कश्चित्पुरुषः स्वस्मिन् गृहे सदैव कदनमात्रमास्वादयन् केनापि निमन्त्रितस्तस्य गृहेऽभुक्तांपूर्व मिष्टामाहारं भुक्तवान् , ततोऽसौ तदास्वादरसलोलुपतया स्वगृहकदनं निरास्वादमितिकृत्वा न भुते, तमेवातिदुष्पापं मिष्टानमेवाभिलपति, ततः स्वगृह कदनादिकमभुञ्जन् मिष्टान्नं चाप्राप्नुवन्नुभयाभावतया सीदति, तथाऽयमपि कदाग्रहगृहीतो जीवः प्रमत्तगुणस्थानसाध्यं स्थूलमात्रपुण्यपुष्टिकारणं षडावश्यकादिकष्टक्रियार्केर्माकुर्वाणः कदाचित् अप्रमत्तगुणस्थाभलभ्यं निर्विकल्पमनोजनितसमाधिरूपनिरालम्बध्यानांशममृताहारकल्प लब्धवान्, ततस्तजनितपरमानन्दमुखास्वादतया प्रमत्तगुणस्थानगतं घडावश्यकादिकष्टक्रियाकर्म कदमकल्पं मन्वानो न सम्यक्
१०संभवात् प्र + यदि जिनमतं प्रपद्येयास्तन् मा व्यवहारनिश्चयौ मुचः । व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यम् ॥ १ ॥ २ अमुक्त अपूर्वमिष्टान्नाहारं प्र० ३ ततस्तदा० प्र० ४ ०दिककष्टक्रियामकु० प्र०
॥२२॥
1
in Education Intematonal
For Private Personel Use Only
Page #29
--------------------------------------------------------------------------
________________
त्तिः
साधयति, मिष्टान्नाहारकल्पं निरालम्बध्यान तु प्रथमसंहननाद्यभावानित्यं नामोति, ततः पडावश्यकमकुर्वन् निरालम्बध्यानमप्राप्जुबंश्च स कदाग्रहगृहीतो जीवोऽप्युभयभ्रष्टतया ध्र सीदति, तथा चातनैर्विद्भिः परमसंवेगगिरिशिखरमारूलैर्निरालम्बध्यानसाधनमनोरथा एव कृताः श्रूयन्ते, तथा च पूर्वमहर्षयः-वेतोवृत्तिनिरोधनेन करणग्रामं विधायोद्वसं, तत्संहत्य गतागतं च मरुतो || धैर्य समाश्रित्य च । पर्यङ्केन मया शिवाय विधिपच्छ्न्यै कभूभृदरीमध्यस्थेन कदाचिदर्पितदृशा स्थातव्यमन्तर्मुखम् ॥१॥ चित्ते al निश्चलतां गते प्रशमिते रागाद्यविद्यामदे, विद्राणेशकुटुंम्बके विघटिते ध्वान्ते भ्रमारम्भके । आनन्दे प्रविजृम्भिते जिनपते ज्ञाने | समुन्मीलिते, मां द्रक्ष्यन्ति कदा वनस्थमभितः शस्ताशयाः श्वापदाः ? ॥२॥ तथा श्रीसूरप्रभाचार्याः-चिदावदातैर्भवदागमानां, य वाग्भेषजै रागरुजं निवर्त्य । मया कदा प्रौढसमाधिलक्ष्मीनिवय॑ते निर्वतिनिर्विपक्षी ।। १॥ रागादिहव्यानि मुहुलिहाने, ध्यानानले साक्षिणि केवलश्रीः। कलत्रतामेष्यति मे कदेषा, वपुर्व्यपायेऽप्यनुयायिनी या ॥२॥ तथा श्रीहेमचन्द्रमुरयः-पने पद्मासनासीनं, क्रोडस्थितमृगार्भकम् । कदा घ्रास्यन्ति वको मां, जरन्तो मृगयूथपाः ॥ १ ॥ शत्रौ मित्रे तृणे स्वणे, स्वर्णेऽश्मनि मणौ मृदि । मोक्षे भवे भविष्यामि, निर्विशेषमतिः कदा! ॥ २ ॥ तथा मन्त्री वस्तुपाल:-संसारव्यवहारतोऽरतमतियावर्तकर्तव्यतावामिप्यपहाय चिन्मयतया त्रैलोक्यमालोकयन् । श्रीशत्रुजयशैलगह्वरगुहामध्ये निबद्धस्थितिः, श्रीनाभेय ! कदा लभेय गलितज्ञेयाभिमानं मनः ॥ १॥ स्वामिन् ! रैवतकादिसुन्दरदरीकोणप्रगीतासनः, प्रत्याहारमनोहरं |
॥२३॥ १ ०ध्यानांशं च प्र० २ ० नाभा० प्र० ३ ० योद्धसं प्र० ४ ०क्षकदम्बके प्र० ५ रक्षन्ति प्र. ६ दुष्टाशयाः प्र. ७ निवीक्ष्यते प्र. ८ नियंपेक्षम् प्र. ९ यावृत्त. प्र.
For Private & Personel Use Only
Page #30
--------------------------------------------------------------------------
________________
गुण
॥२४॥
मुकुलयन् कल्लोललोलं मनः । त्वां चन्द्रांशुमरीचिमण्डलरुचिं साक्षादिवालोकयन् , संपद्येय कदा चिदात्मकपरानन्दोर्मिसंवर्मितम् ॥२॥ तथा परसमयेऽपि भर्तृहरिः-गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य, ब्रह्मज्ञानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम मुदिवसैर्यत्र ते निर्विशङ्काः , संप्राप्स्यन्ते जरठहरिणाः शङ्गकण्डूविनोदम् ॥१॥ वितीर्णे सर्वस्त्रे तरुणकरुणापूर्णहृदयाः, स्मरन्तः संसारे विगुणपरिणामावधिगतिम् । कदा पुण्येऽरण्ये परिणतशरच्चन्द्रकिरणां, त्रियामां नेष्यामो गुरुगदिततत्वैकशरणाः ॥ २ ॥ तदेवं स्वसमयपरसमयप्रसिद्धैः पूर्वपुरुः परात्मतस्वसंवित्तिमनोरथा एव कृताः, मनोरथाश्च लोके दुष्पाप्यवस्तुन एव क्रियन्ते, नतु सुप्राप्यस्य, न खलु कोऽपि सदैव मिष्टानाहारं भुजन् मिष्टान्नाहारमनोरथान् कुरुते, न च कश्चित्पाज्यं साम्राज्यमनुभवअपि कदाऽहं राजा भविष्यामीति चिन्तयति, तस्मात्सर्वप्रकारेण प्रमत्तान्तगुणस्थानस्थैर्विवेकिभिः परमसंवेगारूढः प्राप्तप्रौढाप्रमतगुणस्थानस्य वशतोऽपि शुद्धपरमात्मतत्त्वसंवित्तिमनोरथाः कार्याः, न तु षट्कर्मषडावश्यकादिव्यवहारक्रियाकर्मपरिहारः कार्यः, यतः-योगिनः समतामेतां प्राप्य कल्पलतामिव । सदाचारमयीमस्यां, वृत्तिमातन्वतां बहिः ॥१॥ ये तु योगग्रहग्रस्ताः, | सदाचारपराङ्मुखाः । एवं तेषां न योगोऽपि, न लोकोऽपि जडात्मनाम् ॥२॥ इति ॥ ३० ॥ तस्माद्यत्करणीयं तदाह
तस्मादावश्यकैः कुर्यात्, प्राप्तदोषनिकृन्तनम् । यावन्नाप्नोति सद्ध्यानमप्रमत्तगुणाश्रितम्॥३१॥ व्याख्या-तस्मात् ' पूर्वोक्तहेतुकारणात्साधुस्तावत् 'प्राप्तदोपनिकृन्तनं ' देवसिकाद्यासेवितातिचारच्छेदनं 'आवश्यकैः' १ सण्डांशु० प्र० २ स्वगुण० प्र० ३ स्पर्शवशतोऽपि प्र. ४ हेतुत्वात् प्र० (हेतो.)
Jain Education Intemat
For Private
Personel Use Only
Page #31
--------------------------------------------------------------------------
________________
गुण०
॥२५॥
HH HH HH HH HHH HH HH HEZE JEH
"
सामायिकादिभिरेव ' कुर्यात् करोतु, 'यावदप्रमत्तगुणाश्रितं ' अप्रमत्तगुणस्थानसाध्यं ' सद्ध्यानं ' निरालम्बध्यानं ' नामोति ' नासादयतीत्यर्थः, तथा तिर्यग्गतितिर्यगायुर्न चैर्गोत्रोद्योतप्रत्याख्यानरूपाष्टप्रकृत्युदयव्यवच्छेदाहारकद्वयोदयाच्चैकाशीतेर्वेदयिता अष्टत्रिंशदधिकशतसत्ताको भवति ॥ ३१ ॥ इति प्रमत्तगुणस्थानकं षष्ठम् । अथाप्रमत्तगुणस्थानमाह
चतुर्थानां कषायाणां, जाते मन्दोदये सति । भवेत्प्रमादहीनत्वादप्रमत्तो महाव्रती ॥ ३२ ॥ व्याख्या - महाव्रतानि विद्यन्ते यस्यासौ महाव्रती साधुः, ' अप्रमत्तो' अप्रमत्तगुणस्थानस्थो भवति, कस्मात् ? ' प्रमादहीनत्वात् पूर्वोक्तपञ्चप्रकारममादरहित्वात् क सति ? ' मन्दोदये जाते सति मन्दोऽतीत्रविपाक उदयोऽस्तित्वमात्र लक्षणो यत्रासौ मन्दोदयस्तस्मिन्मन्दोदये, केषां ? ' चतुर्थानां कषायाणां संज्वलनाभिधानक्रोधादीनामुपलक्षणत्वानोकपायाणां च अयमर्थः संज्वलनकषायाणां मोकपायाणां च यथा यथा मन्दोदयो भवति, तथा तथा साधुरप्रमत्तो भवति, यदाह - यथा यथा न रोचन्ते, विषयाः सुलभा अपि । तथा तथा समायाति संवित्तौ तत्रमुत्तमम् ॥ १ ॥ यथा यथा समायाति संवित्तौ तमुत्तमम् । तथा तथा न रोचन्ते, विषयाः सुलभा अपि ॥ २ ॥ ३२ ॥ अथ यथाsप्रमसस्थ एव मोहनीय कर्मोपशमक्षपणनिपुणः सद्ध्यानारम्भकत्वं कुरुते, तथा श्लोकद्वयेनाह
नष्टाशेषप्रमादात्मा, व्रतशीलगुणान्वितः । ज्ञानध्यानधनो मौनी, शमनक्षपणोन्मुखः ॥ ३३ ॥ सप्तकोत्तरमोहस्य, प्रशमाय क्षयाय वा । सद्ध्यानसाधनारम्भं कुरुते मुनिपुङ्गवः ॥ ३४ ॥ युग्मम्
वृतिः
||२५||
Page #32
--------------------------------------------------------------------------
________________
गुण०
॥२६॥
HEHEHEHEHEHEHEHHEHICH HEHEHEHHH
व्याख्या - नष्टाशेषप्रमादो - निर्द्धाटिताखिलप्रमादः आत्मा - जीवो यस्यासौ नष्टाशेपप्रमादात्मा, व्रतानि - महाव्रतादीनि, शीलगुणा - अष्टादशसहस्रशीलाङ्गलक्षणास्तैरन्वितः संयुक्तो व्रतशीलगुणान्वितः ज्ञानं - सदागमाभ्यासलक्षणं, ध्यानम् - एकावतारूपं तद्, ज्ञानं च ध्यानं च धनं सर्वस्वं यस्यासौ ज्ञानध्यानधनः, अत एव ' मौनी ' मौनवान्, यतो मौनवानेत्र ध्यानधनः स्यात्, यदाहः -- तत्रं मनोगृहीताखिल- कालत्रयगतजगत्रयव्याप्तिः । यत्रास्तमेति सहसा, सकलोऽपि हि वाक्परिस्पन्दः ॥ १ ॥ ततो ज्ञानध्यानधन मौनी ' शमनाय ' शमनार्थे, ' क्षपणाय ' क्षपणार्थ वा ' उन्मुखः ' संमुखः कृतोद्यम इत्यर्थः, शमनक्षपणोन्मुखः, एवंविधो मुनिपुङ्गवः, 'सप्तकोत्तरमोहस्य' पूर्वोक्तसप्तकातिरिक्तैकविंशतिप्रकृतिरूपस्य मोहनीयस्य शमनोन्मुखः प्रशमाय क्षपणोन्मुखः क्षयाय वा ' सद्ध्यानसाधनारम्भं निरालम्बध्यानप्रवेशप्रारम्भं कुरुते, निरालम्बे ध्यानप्रवेशे हि योगिनस्त्रिविधा भवन्तियथा प्रारम्भकाः, तन्निष्ठाः, निष्पन्नयोगाथ, यदाह - सम्यग्नैसगिकीं वा विरतिपरिणति प्राप्य सांसर्गिकींवा, क्वाप्येकान्ते निविष्टाः कपिचपलचलन्मानसस्तम्भनाय । शश्वन्नासाग्रपालीघनघटितदृशो धीरवीरासनस्था, ये निष्कम्पाः समाधेर्विदधति विधिनारम्भमारम्भकास्ते || १ || कुर्वाणो मरुदासनेन्द्रियमनःक्षुत्तर्षनिद्राजयं, योऽन्तर्जल्पनिरूपणाभिरसकृत्तत्वं समभ्यस्यति । सच्चानामुपरि प्रमोदकरुणामैत्रीभृशं मन्यते, ध्यानाधिष्ठितचेष्टयाऽभ्युदयते तस्येद्द तन्निष्टता || २ || उपरतवहिरन्तर्जल्पकल्लोलमाले, लसदविकलविद्या - द्मिनीपूर्णमध्ये | सततममृतमन्तर्मान से यस्य हंसः पिबति निरुपलेपः स्यात्तुं निष्पन्नयोगी ॥ ३ ॥ ३४ ॥ अथाप्रमत्तगुणस्थाने ध्यानसंभवमाह
१ तं नमत प्र० २ व्याप्तिम् प्र० ३ सन् प्र० ४० सम्यक्त्वमिश्र मिथ्यात्वानन्तानुबन्धि चतुष्टयरक्षण सप्तकव्यतिरिक्ते० प्र० ५ निषाणाः प्र० ६ सोऽत्र प्र०
००१००६९० ६९०४६२२००६२९००४६२
वृतिः
॥२६॥
Page #33
--------------------------------------------------------------------------
________________
धर्मध्यानं भवत्यत्र, मुख्यवृत्या जिनोदितम् । रूपातीततया शुक्लमपि स्यादंशमात्रतः॥ ३५ ॥
व्याख्या-'जिनोदितं ' जिनप्रणीतं 'धर्मध्यानं ' मैश्यादिभेदभिन्नमनेकविधं, यदाह-मैश्यादिभिश्चतुर्भेद, यदाऽऽशादिचतुर्विधम् । पिण्डस्थोदि चतुर्धा वा, धर्मध्यानं प्रकीर्तितम् ॥१॥ तत्र-मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि नियोजयेत् । धर्मध्या| नमुपस्कर्त्त, तद्धि तस्य रसायनम् ॥३॥ आज्ञापायविपाकानां, संस्थानत्य च चिन्तनात् । इत्थं वा ध्येयभेदेन, धर्मध्यानं प्रकीर्तितम्
॥३॥ इति पूर्वमेव प्रदर्शितं-स्यात्पिण्डस्थं ध्यानमात्मागसजि, स्वान्तं स्वान्तव्यापरूपं पदस्थम् । रूपस्थं संकल्पितात्मस्वरूपं, रूपातीतं कल्पनामुक्तमेव ॥ १॥ तदेवंविधं जिनोदितं धर्मध्यानं 'अत्र' अप्रमत्तगुणस्थाने 'मुख्यवृत्त्या' प्रधानतया भवति, तथा रूपातीततया कृत्वा 'शुक्लमपि' शुक्लध्यानमपि · अंशमात्रतः । अत्र गौणतया स्यादेवेति ॥ ३५ ॥ अथावश्यकानामभावेऽपि शुदिमाहइत्येतस्मिन् गुणस्थाने, नोसन्त्यावश्यकानिषट् । संततध्यानसद्योगाच्छुद्धिः स्वाभाविकी यतः॥३६॥
व्याख्या-'इतीति' पूर्वोक्तस्वरूपे 'एतस्मिन् ' अप्रमत्तगुणस्थाने 'आवश्यकानि' सामायिकादीनि पटपि'नो सन्ति' न विद्यन्ते, कोऽर्थः ? सामायिकादीनां षण्णामप्यावश्यकानां व्यवहारक्रियारूपाणामत्र गुणस्थाने निवृत्तिः, तेषां यात्मगुण
१ सर्वज्ञपणीतं प्र. २ रूपस्थादि प्र. ३ प्रदर्शितमेव प्र. ४ वाणी० प्र. ५ अत्रा० • ६ मता प्र.
॥२७॥
Jain Educaton International
For Private & Personel Use Only
Page #34
--------------------------------------------------------------------------
________________
त्वात्. आया सामाइए, आया सामाइअस्स अट्ठे' इत्याद्यागमवचनादिति, कुतः कारणादावश्यकानि नो सन्ति ? 'यतो गुण० यस्मात्कारणादत्र 'संततध्यान सद्योगात् ' निरन्तरसद्धयान सद्भावात् ' स्वाभाविकी ' सहजनितैव संकल्पविकल्पमालाभावादान्मैकस्त्रभावरूपा निर्मलता भवति, अत्र गुणस्थाने वर्त्तमानो जीवो भावतीर्थावगाहनात्परमां शुद्धिमाप्नोत्येव यदाह - दाशेव समं तण्हाइछेअणं मलपत्राहणं चेत्र । तिहिँ अत्येहिँ निउत्तं, तम्हा तं दद्दओ तित्थं ॥ १ ॥ कोहम्मि उ निग्गहिए, दाहस्सोत्रसमणं हव तिथं । लोहंमि उ निग्गहिए, तण्हाए छेअनं जाण || २ || अट्ठविहं कम्मरयं, बहुएहिँ भवेहिँ संचि जम्हा । तत्रसंजमेण घोअर, तम्हा तं भावओ तित्थं ॥ ३ ॥ अन्यच्च - रुद्धे प्राणमचारे वपुषि नियमिते संवृतेऽक्षप्रपञ्चे, नेत्रस्पन्दे निरस्ते प्रलयमुपगतेऽन्तर्विकल्पेन्द्रजाले । भिन्ने मोहान्धकारे प्रसरति महसि कापि विश्वप्रदीपे, धन्यो ध्यानावलम्बी कलयति परमानन्दतिन्धों प्रवेशम् ॥ १ ॥ इति। तथाऽममत्तगुणस्थानस्थो जीवः शोकारत्यस्थिराश्शुभायशोऽसातव्यवच्छेदादाहारक द्विकबन्धाच्चैकोनषष्टेर्बन्धको भवति, तथा च यदि देवायुरपि न बध्यते, तदाऽष्टपंचाशतो बन्धकः, तथा स्त्यानडिंत्रिकाहारक द्विकोदयव्यवच्छेदात् परसप्ततर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताको भवति ॥ ३६ ॥ इत्यप्रमत्तगुणस्थानकं समाप्तम् । अथापूर्वकरणानिवृत्तिवादर सूक्ष्मसंपरायोपशान्त
॥२८॥
में
*८
* आत्मा सामायिकम् आत्मा सामायिकस्यार्थः
* दाहोपशमः तृष्णाछेदनं मलप्रवाहणं चैव । त्रिभिरर्थैर्नियुक्तं तस्मात्तद्भावतस्तीर्थम् ॥ १ ॥ क्रोधे तु निगृहीते, दाहस्योपशमनं भवति तीर्थम् । लोभे तु निगृहीते तृष्णाया छेदनं जानीहि || २ || अष्टविधं कर्मरजः बहुकैरपि भवैः संचितं यस्मात् । तपःसंयमेन क्षालयति, तस्मात्तद्भावतस्तीर्थम् ॥ ३ ॥
१ तथा प्र० २ सप्तमम् प्र०
HEH. Ho HEH HEHEHEHEH HEHEH
वृति:
||२८||
Page #35
--------------------------------------------------------------------------
________________
मोहक्षीणमोहाख्यानां पञ्चानामपि गुणस्थानानां नामार्थं प्रथम सामान्येन श्लोकद्वयेनाह____ अपूर्वात्मगुणाप्तिस्वादपूर्वकरणं मतम् । भावानामनिवृत्तित्वादनिवृत्तिगुणास्पदम् ॥ ३७॥ ।
अस्तित्वात्समलोभस्य,भवेत्समकषायकम्।शमनाच्छान्तमोहं स्यात,क्षपणाक्षीणमोहकम् ३८॥
व्याख्या-य एवाममत्तसंयतः सप्तमगुणस्थानवी दर्शितः, स एव संज्वलनकषायाणां नोकषायाणां वात्यन्तं मन्दोदये सति प्राप्तापूर्वपरमाल्हादैकमयं करणं परिणामरूपं यत्र तदपूर्वकरणनाम गुणस्थानमष्टमं मतं, कस्मात , ? 'अपूर्वात्मगुणाप्तित्वात् । अपूर्वाणामात्मगुणानामाप्तिः संपाप्तिस्तस्या भावोऽपूर्वात्मगुणाप्तित्वं तस्मात् , तथा दृष्टश्रुतानुभूतभोगाकाङ्क्षादिसंकल्पविकल्परहितनिश्चलपरमात्मकताकामध्यानपरिणतिरूपाणां भावानामनिवृत्तित्वादनिवृत्तिगुणास्पदं गुणस्थानं भवति, तच्चानिवृत्तिबादरं यदुच्यते तदत्र बादराणां कपायाणामपत्याख्यानादिद्वादशानां नवानां नोकषायाणां च शमकः शमनाय क्षपकः क्षपणाय प्रगुणो भवतीत्यतः कारणादनिवृत्तिवादरमित्युच्यते, तनवम गुणस्थानं, तथा सूक्ष्मपरमात्मतत्त्वभावनाचलेन विंशतिप्रकृतिरूपे मोहे शान्ते क्षीणे वा सूक्ष्मखण्डीभूतस्य लोभस्यैकस्यौस्तित्वं यत्र तत्सूक्ष्मकषायकं दशम गुणस्थानं भवति । तथा उपशमकस्यैव परमोपशममूर्तेः निजसहजस्वभावसविलेन सकलमोहस्य शमनाद् उपशान्तमोहं एकादशं गुणस्थानं भवति ११, तथा क्षपकस्यैव क्षपकश्रेणिमार्गेण दशमगुजस्थानादेव निष्कषायशुद्धात्मभावनाबलेन सकलमोहस्य क्षपणाक्षीणमोहं द्वादशं गुणस्थानं भवति इति सामान्यार्थः ॥ ३७॥३८॥
१०वत्यतः प्र० २ नेदं प्र०
Jan Education Intematon
For Private
Personel Use Only
Page #36
--------------------------------------------------------------------------
________________
गुण०
॥३०॥
४६४६३२०४६३४०४६३२०४६८१४०
अथापूर्वकरणायंशादेव श्रेणिद्वयारोहमाह
तत्रापूर्वगुणस्थानाद्यांशादेवाधिरोहति । शमको हि शमश्रेणि, क्षपकः क्षपकावलीम् ॥ ३९ ॥ व्याख्या—' तत्र ' तस्मिन्नपूर्वगुणस्थानावे रोहसमयेऽपूर्वकरणस्यैवाद्यांशादेव शमकः शमश्रेणिमारोहति, क्षपकः क्षपकावल क्षपकश्रेणिमधिरोहति ॥ ३९ ॥ अथ प्रथममुपशमश्रेण्यारोहयोग्यतामाह
पूर्वज्ञः शुद्धिमान् युक्तो, ह्याद्यैः संहननैस्त्रिभिः । संध्यायन्नाद्यशुक्लांशं, स्वां श्रेणीं शमकः श्रयेत् ॥४०॥ व्याख्या — अत्रोपशमको मुनिराद्यशुक्रांशं शुक्लध्यानस्य प्रथमं पादं वक्ष्यमाणलक्षणं संध्यायन् ' स्वां श्रेणीं ' उपशमश्रेणीं शमकः ' श्रयेत् ' प्रतिपद्येत, कथंभूतः ? ' पूर्वज्ञः ' पूर्वगतश्रुतधरः, 'शुद्धिमान् ' निरतिचारचारित्रः, 'आद्यैस्त्रिभिः संहननैः वज्रऋषभनाराचऋषभनाराचनाराचलक्षणैर्युक्तः, एवंविधो मुनिरुपशमश्रेणीं श्रयेदिति ॥ ४० ॥ अथोपशमश्रेण्यारूढस्याल्पायुषो गति दीर्घायुषः कृत्यं चाह -
श्रेण्यारूढः कृते कालेऽहमिन्द्रेष्वेव गच्छति । पुष्टायुस्तूपशान्तान्तं, नयच्चारित्रमोहनम् ॥ ४१ ॥ व्याख्या—यो मुनिरल्पायुरुपशमश्रेणिमारोहति, स श्रेण्यारूढः ' काले ' आयुस्त्रुटिलक्षणे कृते सति ' अहमिन्द्रेष्वेव '
१ ० धिरोह० प्र०
२ शुक्लध्यानांशं शुक्ल०
३ श्रयतीति प्र०
*** ४९
वृत्तिः
॥३०॥
Page #37
--------------------------------------------------------------------------
________________
गुण०
॥३१॥
HH HH HH HH ICH JEH K
सर्वार्थसिद्धादिदेवेष्वेव प्रयाति परं यः प्रथमसंहननो भवति, अपरसंहनानामनुत्तरेषु गमनासंभवात् यदाह - छेत्रद्वेण गम्मइ, ard जा कष्प कीलिआईसुं । चङमु दुदुकप्पवुड्डी, पढमेणं जाव सिद्धीवि ॥ १ ॥ तथा यः सप्तलवाधिकायुष्को मुक्तियोग्यश्व भवति, स एत्र सर्वार्थसिद्धादौ याति, यदाह – ससलवा जइ आउं, पहुप्पमाणं तओ हु सिज्झता । तत्तिअमित्तं न हुअं, तत्तो लघुसत्तमा जाया ॥ १ ॥ सङ्घट्टसिद्धनामे, उकोसठिईसु विजयमाईसुं । एगावसे सगन्धा, हवंति लवसत्तमा देवा || २ || आहतत्र उपशमश्रेणिकः कथं मुक्तियोग्यः स्यात् ? उच्यते - सप्त लवा मुहूर्त्तस्यैकादशभागरूपा भवन्ति + लव सत्तहत्तरीए, होइ मुहुत्तो' इति वचनात्, ततो लवसप्तकावशेषायुरेवोपशमकः खण्डश्रेणिक एवं पराङ्मुखो बलति, सप्तमं गुणस्थानमागत्य पुनः क्षपकश्रेणिमारुह्य सप्तवान्तरे च क्षीणमोहान्तं गत्वाऽन्तकृत्केवली भूच्चा मुक्ति गच्छतीत्यदोषः, तथा यस्तु पुष्टायुरुपशमश्रेणी "प्रतिपद्यते स चाखण्डश्रेणिकः ' चारित्रमोहनं ' चारित्रमोहनीयं कर्म ' उपशान्तान्तम् ' एकादशगुणस्थानमान्तं ' नयेद् ' उपशमं प्रापयेदिति ॥ ४१ ॥ अथोपशमक एवापूर्वादिगुणस्थानकेषु यत्करोति तदाह
अपूर्वादिगुणेषु शमकः क्रमात् । करोति विंशतेः शान्ति, लोभाणुत्वं च तच्छमम् ॥४२॥
+ सेवार्त्तेन तु गम्यते चतुरो यावत् कल्पान् कीलिकादिषु । चतुर्षु द्विद्विकल्पवृद्धिः प्रथमेन यावत्सिद्धिरपि ॥ १ ॥
+ सप्त लवा यदि आयुः प्राभविष्यत् तदाऽसेत्स्यन्नेव । तावन्मात्रं नाभूत् ततो षप्तमा जाताः ॥ १ ॥ सर्वार्थसिद्धनाम्नि ( विमाने ) उत्कृष्ट स्थितिषु विजयादिषु । एकावशेषगर्भा भवन्ति लवसप्तमा देवाः ॥ २ ॥
४६.३९
C JEY JEH HEH HEH HEH JEH JEK
वृत्तिः
॥ ३२ ॥
Page #38
--------------------------------------------------------------------------
________________
गुण०
॥३२॥
HERE HE HE. H H ICH JEH JE JE Z JEH
व्याख्या - शमकः सप्तकोत्तर मोहसंज्वलनलोभवर्जप्रकृतित्रिंशतेरपूर्वानिवृत्तिलक्षणे गुणस्थानद्वये 'शान्ति' शमनं करोति, ततः क्रमेण सूक्ष्मसंपरायगुणस्थाने संज्वलनलोभस्य सूक्ष्मत्वं करोति, ततः क्रमेणोपशान्तमोहगुणस्थानके 'तच्छमं' तस्य सूक्ष्मलोभस्य रामं सर्वथोपशमं करोति, तथाऽत्रोपशान्तमोहगुणस्थानें जीव एकमकृतेबंन्धक एकोनषष्टिप्रकृतिवेदयिता, अष्टचत्वारिंशदधिकशतसत्ताको भवति ।। ४२ ।। अथोपशान्तमोहगुणस्थाने यादृशं सम्यक्च्वचारित्रभावलक्षणं त्रयं भवति तदाहशान्तदृग्वृत्तमोहत्वादत्रौपशमिकाभिधे । स्यातां सम्यक्त्वचारित्रे, भावश्चोपशमात्मकः ॥४३॥ व्याख्या—' अत्र' उपशान्तगुणस्थानके दर्शनचारित्रमोहनी यस्योपशमात् सम्यच्चचारित्रे औपशमिके एव भवतः तथाऽत्र भावोsयुपशमात्मकः, न तु क्षायिकक्षायोपशमिको भावाविति ॥ ४३ ॥ अथोपशान्तमोहाच्च्यवनमाह—
वृत्तमोहोदयं प्राप्योपशमी च्यवते ततः । अधःकृतमलं तोयं, पुनर्मालिन्यमश्नुते ॥ ४४ ॥ व्याख्या — उपशमी ' वृत्तेमोहोदयं ' चारित्रमोहनीयोदयं प्राप्य 'तत' उपशान्तमोहात् ' च्यवते ' पुनर्मोहजनितप्रमादकालुष्ये पतति, युक्तोऽयमर्थः, यस्मात्कारणात् ' तोयं ' जलं ' अधः कृतमलं ' तलोपविष्टमलत्वादुपरि निर्मलमपि किमपि प्रेरणानिमित्तं प्राप्य पुनः 'मालिन्यमभुते ' मलिनभावं प्राप्नुयादिति, यदाह - सुअकेवलि आहारग, उज्जुमई उबसंतगाविहु पमाया । १ ० स्थानके प्र० २ व्रत० प्र०
+ श्रुतकेवलिन आहारका ऋजुमतयः उपशान्तका अपिच प्रमादात् । हिण्डन्ति भवमनन्तं तदनन्तरमेव चतुर्गतिकाः ॥ १ ॥
HH HHH HH HH HH HH HH JNE JWI
वृतिः
॥३२॥
Page #39
--------------------------------------------------------------------------
________________
गुण०
॥३३॥
ICH HE ICH JEZ JEH HEH HEHE ICH JEH JEZ
हिंडंति भवमणत, तयणंतरमेव चउगइआ ॥ ४४ ॥
sarvanarai गुणस्थानकेष्वारोहावरो हावाह
अपूर्वाद्यास्त्रयोऽप्यूर्ध्वमेकं यान्ति शमोद्यताः । चत्वारोऽपि च्युतावाद्यं, सप्तमं वाऽन्त्यदेहिनः ॥४५॥ व्याख्या- 'अपूर्वाद्यास्त्रयोऽपि शमोद्यताः त्रयो ऽप्युपशमका ऊर्ध्वमारोहमाश्रित्य एकमेव गुणस्थानं यान्ति, कोऽर्थः ? अपूर्वगुणस्थानादनिवृत्तिवादरं यान्ति तद्वर्त्तिनः सूक्ष्मसंपरायं यान्ति, तद्वर्त्तिनोपशान्तमिति, तथाऽपूर्वाद्याश्चत्वारोऽप्युपशमकाः ' च्युतौ ' च्यवनविषये 'आद्यं ' मिथ्यात्वगुणस्थानं यान्ति ' वा ' अथवा ' अन्त्यदेहिनः ' चरमशरीराः सप्तमगुणस्थानं यावधान्ति, ते च सप्तमात्पुनः क्षपकश्रेणिमारोहन्ति, परमेकवारं कृतोपशमा एव क्षपकत्वं कुर्वन्ति, न तु तत्रैव भवे द्विवेलं कृतोपशमाः, यदाह - * जीवो हु एगजम्मंमि, इक्कसि उवसामगो । खयंपि कुज्जा नो कुज्जा, दोबारे उवसामगो ॥ १ ॥ ४५ ॥ अथोपशमश्रेणीनां संभवसंख्यामाह -
आसंसारं चतुर्वारमेव स्याच्छमनावली । जीवस्यैकभवे वारद्वयं सा यदि जायते ॥ ४६ ॥ व्याख्या—— शमनावली ' शमश्रेणी ' जीवस्य ' प्राणिनः ' आसंसारं ' अनादिसान्तं संसारं यावत् 'चतुर्वारं ' वारचतुष्टयमेव स्यात् सा चोपशमश्रेणिर्जीवस्य 'एकभवे एकभवमध्ये 'यदि' कदाचिज्जायते, तदा वारद्वयं, यदाहजीवजन्मनि एकश उपशमकः । क्षयमपि कुर्यात् नो कुर्यात् द्विकृत्व उपशमकः ॥ १ ॥
HHHHHH WHICH ICH IH JEH HEHEH
इचि:
॥३॥
Page #40
--------------------------------------------------------------------------
________________
| 1 उपसमसेणिक्सक, जायइ जीवस्स आभवं नृणं । सा 'पुण दो एगभवे, खवगस्सेणी'पुणो एगा ॥१॥ उपशमश्रेणिस्थापना
यं-* अगदंसनपुंसित्थी, वेअछकं च पुरिसवेयं च । दो दो एगंतरिए, सरिसे सरिसं उवममेइ ॥ १॥ असंख्य.......... सं० संख्य. ..... अ०प्र० लोभ २ सं० माया १ अ०प्र० माया २ सं० मान १ अ० प्र० मान २ सं० क्रो०१ अ.प्र. क्रो० २ पुरु०१ हास्यादि०६ स्त्री० १ नपुं० १ दर्शन. ३ अनन्ता० ४॥४६॥ इत्युपशमश्रेणिः । अथ क्षपकश्रेणिलक्षणमाह
अतो वक्ष्ये समासेन, क्षपकणिलक्षणम् । योगी कर्मक्षयं कर्तुं, यामारुह्य प्रवर्त्तते ॥ ४७ ॥
व्याख्या-अतः परं 'समासेन' संक्षेपेण तस्याः क्षपणेर्लक्षणं वक्ष्ये, यां क्षपकश्रेणी समारुह्य 'योगी'क्षपको मुनिः कर्मक्षयं कर्त प्रवर्तते ॥ ४७ ॥ अथाष्टमगुणस्थानादर्वाक् याः कर्मप्रकृतीः क्षपकः क्षपयति ताः श्लोकत्रयेणाह
अनिबद्धायुषः प्रान्त्यदेहिनो लघुकर्मणः।असंयतगुणस्थाने, नरकायुःक्षयं व्रजेत्॥४८॥ तिर्यगायुः | क्षयं याति, गुणस्थाने तु पञ्चमे । सप्तमे त्रिदशायुश्च, दृग्मोहस्यापि सप्तकम् ॥४९॥ दशैताः प्रकृती: साधुः, क्षयं नीत्वा विशुद्धधीः। धर्मध्याने कृताभ्यासः,प्राप्नोति स्थानमष्टमम्॥५०॥ त्रिभिर्विशेषकम् ५०॥
॥३४॥ + उपशमश्रेणिचतुष्कं जायते जीवस्याभवं नूनन् । सा पुनद्वे एकमवे, क्षपकश्रेणिः पुनरेका ॥१॥
* अणदर्शनपुंसकत्रीवेद (हास्यादि ) षटै च पुरुषवेदं च । द्वौ द्वौ ( अप्रत्याख्यानप्रत्याख्यानो) एक न्तरितौ (संज्वलनान्तरिती) देश सदृशे सदृशं ( क्रोधमानमायालोभान् ) उपशमयति ॥ १॥ १ श्रेण्या ल०प्र०
Jan Education Intemanon
For Private Personel Use Only
Page #41
--------------------------------------------------------------------------
________________
गुण
॥३५॥
व्याख्या-पान्त्यदेहिनः' चरमशरीरस्य 'अबद्धायुषः' अकृतायुर्वन्धस्य 'लघुकर्मणः' अल्पकर्मणोऽल्पकाशस्य क्षपकस्य ' असंयतगुणस्थाने ' चतुर्थे गुणालये 'नरकायुः क्षयं व्रजेत् ' नरकयोग्यायुः क्षयं याति, तथा पश्चमे गुणस्थाने तिर्यगायुः क्षयं याति, सप्तमे गुणस्थाने 'त्रिदशायुः' देवायुरपि क्षयं याति, तथा तत्र सप्तमे गुणस्थाने हग्मोहस्य सप्तकमपि क्षयं याति, ततः क्षपकः साधुरष्टाचत्वारिंशदधिकशतकर्मप्रकृतिमध्यादेता दश प्रकृतीः क्षयं नीत्वाऽत्रिंशदधिकशतप्रकृतिसचाकोऽष्टमं स्थानं 'मानोति' लभते, कथंभूतः ? 'धर्मध्याने कृताभ्यासः' उत्कृष्टे धर्मध्याने रूपातीतलक्षणे कुतोऽभ्यासो येन स सथा, अभ्यासःपुनः पुनरासेवन, तेनैवाभ्यामयोगेन तस्वप्राप्तिः स्यात, यदाह-अभ्यासेन जिताहारोऽभ्यासेनैव जितासनः । अभ्यासेन जितश्वासोऽभ्यासेनैवानिलटिः॥१॥ अभ्यासेन स्थिर चित्तमभ्यासन जितेन्द्रियः। अभ्यासेन परानन्दोऽभ्यासेनैवात्मदर्शन। ॥२॥ अभ्यासवर्जितैया॑नः, शास्त्रस्थैः फलमस्ति न । भोन हि फलस्तृप्तिः, पानीयप्रतिविम्बितैः ॥ ३ ॥ ततोऽभ्यासादेव 'विशुदधीः' निर्मलतत्वानुयायेिबुद्धिरिति ॥४८॥ ४९ ॥ ५० ॥ अथात्राष्टमे गुणस्थाने क्षपकस्य शुक्लध्यानारम्भमाद
तत्राष्टमे गुणस्थाने, शुक्लसद्धथानमादिमम् । ध्यातुं प्रक्रमते साधुराधसंहननान्वितः ॥ ५१ ॥
व्याख्या-क्षपकः साधुस्तत्राष्टमे गुणस्थाने 'शुक्लसत्यानं 'शुकनामक प्रधान ध्यान, आय-प्रथम पृथक्ववितर्कसपविचारलक्षणं वक्ष्यमाणं ध्यातुं प्रक्रमते, कथंभूतः साधुः ? 'आधसंहननान्वितो' बज्रर्षभनाराचनामकप्रथमसंहननयुक्त इति
१ अत्र प्र० २ ०ध्यानकृता. प्र.
For Private & Personel Use Only
Page #42
--------------------------------------------------------------------------
________________
गुण०
।। ३६ ।।
H HEHE. JEI JEH HEHE. JE Z JEZ
॥ ५१ ॥ अथ ध्यातुरेव स्वरूपं श्लोकद्वयेनाह -
निष्प्रकम्पं विधायाथ, दृढं पर्यङ्कमासनम् । नासाग्रदत्तसन्नेत्रः, किञ्चिदुन्मीलितेक्षणः ॥ ५२ ॥ विकल्पा राजालाद्दूरोत्सारितमानसः । संसारोच्छेदनोत्साहो, योगीन्द्रो ध्यातुमर्हति ॥ ५३ ॥ व्याख्या - अथ ' अनन्तरं ' योगीन्द्रः क्षपकमुनीन्द्रः व्यवहारमाश्रित्य ध्यातुमर्हति — ध्यानारम्भयोग्यो भवतीति सम्बन्धः, किं कृत्वा ? पर्यङ्कासनं दृढं निविबन्धं विधायः कथंभूतं ? ' निष्प्रकम्पं ' निश्चलं, यत आसनजय एव ध्यानस्य प्रथमः प्राणः, यदाह - आहारासणनिहाजयं च काऊण जिणवरमरणं । झाईंज्जइ निअअप्पा, उब जिणवरिन्देणं ॥ १ ॥ तत्र पर्यङ्कासनं ' स्याज्जङ्घयोरधोभागे, पादोपरि कृते सति । पर्यङ्को नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥ १ ॥ डासनमित्युच्यते, यथा-योनिं वामपदा परेण निविडं संपीडय शिश्नं हनु, न्यस्योरस्यचलेन्द्रियः स्थिरमना लोलां च तात्रन्तरे । वंशस्थैर्यतयाऽभिंनिश्चलदृशा पश्यन् भ्रुवोरन्तरं, योगी योगविधिप्रसाधनकृते सिद्धासनं साधयेत् ॥ १ ॥ अथवाऽऽसननियमो नास्ति, यदाह यस्मिन् यस्मिन्नासनेऽभ्यस्यमाने, चेतःस्थैर्य जायते तत्र तत्र । कार्यों यत्नः पद्मपर्यङ्ककायोत्सर्गैiiवज्रासनादौ ॥ १ ॥ कथंभूतो योगीन्द्रः ! नासाग्रदत्तसमेत: ' नासाग्रे दत्ते न्यस्ते सती प्रसन्ने नेत्रं लोचने २ आहारासननिद्राजयं च कृत्वा जिनवरमतेन । ध्यायते निजक आत्मा उपदिष्टं जिनवरेन्द्रेण । १ । ४ सुनिश्चलतया प्र०
कैश्वित्सि
१ प्रथमे प्राणाः प्र०
३ झाइज णियं अप्पा प्र०
HEH HEH HEH HEH HEHEH HEHE. JEH JEK HEK
वृत्तिः
॥३६॥
Page #43
--------------------------------------------------------------------------
________________
गुण० Jail यस्य स तथा, नासाग्रन्यस्तलोचनो हि ध्यानसाधको भवति, यदाह ध्यानदण्डकस्तुतो-नासावंशाग्रभागस्थितनयमयुगो मुक्त
ताराप्रचारः, शेषाक्षक्षीणवृत्तित्रिभुवनविवरोद्धान्तयोगेकचक्षुः । पर्यातकशून्यः परिकलितघनोच्छ्वासनिःश्वासवातः, स ध्याना
रूढमूर्तिश्चिरमवतु जिनो जन्मसंभूतिभोतेः॥१॥ पुनः कथंभूतः ? 'किश्चिदुन्मीलितेक्षणः' किश्चिदुन्मीलिते अर्द्धविकसिते ईक्षणे यस्य स ॥३७॥
तथा, योगिनः समाधिसमये किश्चिदुन्मीलिते अक्षिणी भवतः, यदाह-गम्भीरस्तम्भमूर्तिर्व्यपगतकरणव्यापृतिर्मन्दमन्द, प्राणायामो ललाटस्थलनिहितमना दत्तनासाग्रदृष्टिः । नाप्युन्मीलनिमीलनयनमतितरां बद्धपर्यङ्कबन्धो, ध्यानं प्रध्याय शुक्लं सकलविदनवद्यः स पायाज्जिनो वः ।१ । पुनरपि कयंभूतः ? 'दूरोत्सारितमानसो' विरलीकृतचित्तः, कस्मात् ? 'विकल्पवागुराजालात् ' कल्पनावागुरिकाबन्धात्, यतो विकल्पा पर बाह कर्मबन्धनहेतवः, यदाह-अशुभा वा शुभा वाऽपि, विकल्पा यस्य चेतसि । स सं बनात्ययःस्वर्णबन्धनाभेन कर्मणा ॥ १ ॥ वरं निद्रा वरं मूर्छा, वरं विकलतापि वा। न त्वार्तरौद्लेश्याविकल्पाकुलितं मनः ॥ २ ॥ भूयः कथंभूतः ? ' संसारोच्छेदनोत्साहः' संसारोच्छेदनार्थ भवपरिहारार्थमुत्साह उद्यमो यस्य स तथा, भवच्छेदकध्यानार्थमुत्साहवतां हि योगसिद्धिः स्यात्, यदाह-उत्साहाभिश्चयादैर्यात्संतोषात्तवदर्शनात् । मुनेर्जनपदत्यागात्, पड्भिर्योगः प्रसिद्धयति ॥ १ ॥ ५३ ॥ अथ प्राणायाममाह
अपानद्वारमार्गेण, निस्सरन्तं यथेच्छया। निरुन्ध्यो प्रचाराप्ति, प्रापयत्यनिलं मुनिः॥५४॥ १ रम्भमूर्ति प्र०
॥३७॥
Jan Education Intemann
For Private
Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
व्याख्या-मुनिः' योगोन्द्रोऽनिल-पवनं 'ऊर्ध्वप्रचाराप्तिं ' दशमद्वारगोचरतामाप्ति मापयति, कि कृत्वा ? अपानद्वारमार्गेण ' पायुवमना पवनं यथेच्छया 'निस्सरन्तं ' स्वस्वभावेन गरछन्तं ' निरुध्य' संकोच्य, मूलबन्धयुक्त्याऽपानपवनमाकुश्श्येत्यर्थः, मूलबन्धश्चायं-पाणि भागेन संपीडच, योनिमाकुश्चयेद् गुदम् । अपानमध्वमाकृष्य, मूलबन्धो निगयते ॥ १॥ इदमाकुञ्चनकमैव प्राणायामस्य मूलं, यदुक्तं ध्यानदण्डकस्तुतौ-संकोच्यापानरन्धं हुतवहसमर्श तन्तुवस्सूक्ष्यरूपं, धृत्वा हृत्पद्यकोशे तदनु च गलके तालुनि प्राणशक्तिम् । नीत्वा शून्यातिशून्यां पुनरपि खगति दीप्यमाना समन्ताल्लोकालोकायन लोका कलयति स कलां यस्य तुष्टो जिनेशः॥१॥५४ । अथ पूरकमाणायाममाह--
द्वादशाङ्गुलपर्यन्तं, समाकृष्य समीरणम् । पूरयत्यतियत्नेन, पूरकध्यानयोगतः ॥ ५५॥ । ____ व्याख्या-योगी पूरकथ्यानयोगाद् ‘अतियत्नेन ' अतिप्रयत्नेन कोष्ठं सकलदेहगतं नाडीगणं वा पचनेन पूरयति, किं कृत्वा ? ' द्वादशाङ्गुलपर्यन्तं समीरणं समाकृष्य ' द्वादशाङ्गुलप्रमाणं बहिस्तात्पवनं समन्तादाकृष्य, अब्रायमर्थः-पवनो नभस्तचे वहमाने नासान्तःस्थ एव भवति, तेजस्तचे वहमाने चत्वार्यशुलानि पहिस्तार्श्वगः स्फुरति, वायुतखे वहमाने पडणुलानि बहिस्तात्तिरचीनश्चरति, पृथ्वीतत्त्वे वहमानेऽष्टाङगुलानि यावद्भहिमध्यमभावन तिष्ठति, जलतत्वे वहमाने द्वादशाहगलानि
यावदधस्तादहति, यदाह-नासान्तनभसोऽन्ध्यंरचष्टार्कसंख्याङ्गुलोत्तरा । तेजोवायुपयिष्यम्बुपहिर्मतिरुदाहृता ॥ १ ॥ ततो Tag द्वादशाङ्गुलपर्यन्तं वारुणं मण्डलं प्रचारावसरेऽमृतमयं पवनं समाकृष्येत्ययः, एतच पूस्कभ्यानं कर्मतया केचिदाहु-वधा
Jan Education International
For Private 3 Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
गुण
॥३९॥
प्राणमाकृष्य तेन, स्थानं भित्त्वा ब्रह्मसूरीश्वराणाम् । स्थूलाः सूक्ष्मा नाटिकाः पूरयेचद्, विज्ञातव्यं कर्म तत्पूरकाख्यम् ॥१॥ ॥ ५५ ॥ अथ रेचकमाणायाममाह
निस्सार्यते ततो यत्नानाभिपद्मोदराच्छनैः।योगिना योगसामर्थ्याद्रेचकाख्यः प्रभखनः॥ ५६ ॥
व्याख्या-'ततः' पृरकादनन्तरं ' योगिना' साधकेन 'योगसामर्थ्यात् ' प्राणायामाभ्यासक्लान् रेचकाख्यः प्रमजनो' रेचकनामा पवनो 'नाभिपकोदरात' नाभिपजकोटरात् ' शनैः' मन्दमन्दं 'यत्नात् ' आदरात 'निस्सार्यते' बहिः क्षिप्यते, तद्रेचकध्यान, यदाह-वासनस्थिरवपुः स्विस्थाः स्वचित्तमारोप्य रेचकसमीरणजन्मायके । स्वान्तेन रेचयति नाडिगतं समीरं, तस्कर्म रेचकमिति प्रतिपसिमेति ॥ १॥५६॥ अथ कुम्भकध्यानमाह
कुम्भवत्कुम्भकं योगी, श्वसनं नाभिप्रङ्कजे । छुम्भकध्यानयोगेन, सुस्थिरं कुरुते क्षणम् ॥५७१
व्याख्या-योगी 'कुम्भकं' कुम्भकाख्यं श्वसनं । पवनं नाभिपङ्कजे' नाभिकमले 'कुम्भकध्यानयोगेन' कुम्माकर्मप्रयोगेण 'कुम्भवद् घटवद्याकारं कृत्वा मुतरां स्थिरं कुरुते, यदाह-चेतसि यति कुम्भकचक्रं, नाटिकासु.विविडीवाना कुम्भवत्तरति यजलमध्ये, तद्वदन्ति किल कुम्भकर्म ॥ १॥ ५७ ॥ अथ पवनजयेन मनोजयमाइ
इत्येवं गन्धवाहानामाकुञ्चनविनिर्गमो । संसाध्य निश्चलं धत्ते, चित्तमेकामचिन्तने ॥५॥ घ्याख्या-यत्र मनस्तत्र पवनो यत्र पवनस्तत्र मनो वर्त्तते, यदाह-दुग्धाम्बुवत्समिलितौ सदैव, तुल्यक्रियो मानसमारूती म
॥३९॥
Jain Education Intematonal
For Private Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
त्तिः
हियावन्मनस्तत्र मरुत्प्रवृत्तिविन्मरुत्तत्र मनःप्रवृत्तिः॥१॥तत्रैकनाशादपरस्य नाश, एकप्रहत्तेरपरम्वृत्तिः। विश्वरतयोरिन्द्रियवर्गशुद्धिस्तध्वंसनान्मोक्षपदस्य सिद्धिः॥२॥ इति, तत' इत्येवं' अमुना पूर्वोक्तप्रकारेण पूरकरेचककुम्भकक्रमेण 'गन्धवाहानांपवनानां 'आकुश्चनविनिर्गमौ संसाध्य ' वातानां संग्रहमोक्षावभ्यस्य 'चित्तं मनः 'एकाग्रचिन्तने' समाधिविषये निश्चलं धत्ते, मरुज्जये हि मनोनिश्चलता स्यादेव, यदाह-प्रचलति यदि क्षोणीचक्रं चलन्त्यचला अपि, प्रलयपवनप्रेलालोलाश्चलन्ति पयोधयः। पवनजयिनः सावष्टम्भप्रकाशितशक्तयः, स्थिरपरिणतेरात्मध्यानाचलन्ति न योगिनः॥१॥५८ ॥ अथ भावस्यैव प्राधान्यमाह
प्राणायामक्रमप्रौढिरत्र रूढ्यैव दर्शिता । क्षपकस्य यतः श्रेण्यारोहे भावो हि कारणम् ॥५९॥
व्याख्या-'अत्र' श्रेण्यारोहे क्षपकश्रेण्यारोहविषये 'प्राणायामक्रमप्रौढिः' पवनाभ्यासक्रमप्रगल्भता 'रुढ्यैव' प्रसिद्धिमात्रतयैव दर्शिता, 'यतः' यस्मात्कारणात् 'हिः स्फुट क्षपकस्य भाव एव केवलोद्गमकारणं, न तु प्राणायामादिडम्बरः, यदुक्तं चर्पटिनापि-नासाकन्द नाडीवृन्द, वायोश्चारः प्रत्याहारः। प्राणायामो बीजग्रामो, ध्यानाभ्यासो मन्त्रन्यासः॥१॥ इत्पद्मस्थं भ्रूमध्यस्थं, नासाग्रस्थं श्वासान्तःस्थम् । तेजःशुद्धं ध्यानं बुद्धं, ॐकाराख्यं सूर्यप्रख्यम् ॥२॥ ब्रह्माकाशं शून्याभासं, मिथ्याजल्पं चिन्ताकल्पम् । कायाक्रान्तं चित्तभ्रान्तं, त्यच्या सर्व मिथ्या गर्वम् ॥३॥ गुर्वादिष्टं चिन्तोत्सृष्टं, देहातीतं भावोपेतम् । त्यक्तद्वन्दं नित्यानन्द, शुद्ध तत्वं जानीहि त्वम् ॥ ४॥ अन्यच्च-ॐकाराभ्यसनं विचित्रकरणैः प्राणस्य वायोर्जयात, तेजश्चिन्तनमात्मकायकमले
१ बायूनां प्र०
॥४०॥
For Private & Personel Use Only
Page #47
--------------------------------------------------------------------------
________________
गुण०
॥४१॥
शून्याम्बरालम्बनम् । स्यक्त्वा सर्वमिदं कलेवरगतं चिन्तामनोविभ्रमं, तत्वं पश्यत जल्पकल्पनकलातीतं स्वभावस्थितम् ॥ १॥५९ ॥ अथाद्यशुक्लध्यानस्य नामाह
सवितर्क सविचारं, सपृथक्त्वमुदाहृतम् । त्रियोगयोगिनः साधोराद्यं शुलं सुनिर्मलम् ॥६०॥
व्याख्या-त्रियोगयोगिनः साधोः' मनोवचःकाययोगवतो मुनेः 'आय' प्रथमं शुक्लध्यानं ' उदाहृतं ' प्रोक्तं, तत्कथंभूतं ? सह वितर्कण वर्तत इति सवितर्क, सह विचारेण वर्तत इति सविचारं, सह पृथक्त्वेन वर्तत इति सपृथक्त्वं, इति विशेषणत्रयोपेतत्वात् पृथक्त्ववितर्कसविचारनामकं प्रथमं शुक्लध्यानमिति ॥ ६ ॥ अथ तद्विशेषणत्रयस्य स्वरूपमाह
श्रुतचिन्ता वितर्कः स्यात्, विचारःसंक्रमो मतः। पृथक्त्वं स्यादनेकत्वं, भवत्येतत्रयात्मकम् ॥६॥
व्याख्या-एतत्मथमं शुक्लध्यानं त्रयात्मक, क्रमोत्क्रमगृहीतविशेषणत्रयरूपं, तत्र श्रुतचिन्तारूपो वितर्कः, अर्थशब्दयोगान्तरेषु संक्रमो विचारः, द्रव्यगुणपर्यायादिभिरन्यत्वं पृथक्त्वं ॥ ६१ ॥ अथैतत्रयस्य क्रमेण व्यक्तार्थ व्याचिख्यामुः प्रथम वितर्कमाह
स्वशुद्धात्मानुभूतात्मभावश्रुतावलम्बनात्।अन्तर्जल्पो वितर्कः स्याद्, यस्मिंस्तत्सवितर्कजम् ॥२॥ व्याख्या-यस्मिन् ध्यानेऽन्तर्जल्पोऽन्तरङ्गध्वनिरूपो वितको विचारणात्मकस्तत्सवितर्क ध्यानं स्यात्, कस्मात् ? 'स्वशुद्धा१ न्यान्तरा०प्र० २ ०मात्रमाह प्र. ३.विशेषत्रय. प्र. भूत्या. प्र.
॥४॥
Jan Education Intematon
For Private Personel Use Only
Page #48
--------------------------------------------------------------------------
________________
गुण.
॥४२॥
त्मानुभूतात्मभारभुताक्लम्वनात् ' स्वकीयनिर्यलपरमात्मतत्त्वानुभषयपान्तरणभावगतागमाक्सम्पमतः। इत्युक्तं सवितर्क ध्यानम् ॥६२॥ * अथ सविचारयाह
अर्थावर्षान्तरे शब्दाच्छब्दान्तरे च संक्रमः । योगायोगान्तरे यत्र, सविचार तदुच्यते ॥ १३ ॥
व्याख्या-यत्र ध्याने स एव पूर्वोक्तो वितर्को विचारणात्मकोऽर्थान्तरे संक्रमते, योगायोगान्तरे संक्रमते तद्धयानं सविचारं ससंक्रमणमुल्यत इति ॥ ६३ ॥ अथ सपृर्थक्त्वमाह
द्रव्याद् द्रव्यान्तरं याति, गुणाद्याति गुणान्तरम् । पर्यायादन्यपर्यायं, सपृथक्त्वं भवत्यतः॥६॥
व्याख्या-यत्र ध्याने स एव पूर्वोक्तो वितर्कः सविचारोऽर्थव्यञ्जनयोगान्तरसंक्रमणरूपोऽपि निजशुद्धात्मदैव्यान्तरं याति, अथवा गुणाद् गुणान्तरं याति, यहा पर्यायान्तरं याति, तत्र-सहजाता गुणा द्रव्ये, सुवर्णे पीतता यथा। क्रमभूतास्तु पर्याया, मुद्राकुण्डलतादयः॥१॥ तेषु द्रव्यगुणपर्यायान्तरेषु अन्यत्वं-पृथक्त्वं तदस्ति यत्र ध्याने तत्सपृथक्त्वम् ॥ ६४ ॥ अथाघशुक्रध्यानजनितां भुद्धिमाह--
इति त्रयात्मकं ध्यानं, प्रथमं शुक्लमीरितम्।प्राप्नोत्यतः परां शुद्धिं, सिद्धिश्रीसोख्यवर्णिकाम् ॥६५॥ १०भूत्या. प्र. २ पृथक्त्व. प्र. ३ मवद्रव्यान्त० प्र० ४ ध्यायन् योगी समाहितः । संप्रामोति प्र.
Jan Education International
For Private Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
गुण
४३॥
व्याख्या-इति' त्रयात्मकं पृथक्त्ववितर्कसविचारात्मकं प्रथमं शुक्रध्यानं कथितं, तस्माइयानात् 'परी' प्रकृष्टां शुद्धि मामोति, कथंभृतां ? 'सिद्धिश्रीसौख्यवर्णिका' मुक्तिलक्ष्मीमुखनिदर्शनिकामासादयतीत्यर्थः ।। ६५॥ अर्थतस्यैव विशेषस्वरूपमाह
यद्यपि प्रतिपात्येतदुक्तं ध्यानं प्रजायते । तथाप्यतिविशुद्धत्वार्ध्वस्थानं समीहते ॥ ६६ ॥ ___ व्याख्या-यद्यप्येतदुक्तं ध्यानं 'प्रतिपाति ' पतनशीलं 'प्रजायते ' समुत्पद्यते, तथापि 'अतिविशुद्धत्वाद् ' अतिनैर्मल्यतः 'ऊर्ध्वस्थानं ' अग्रेतनं गुणस्थानं ' समीहते' तदारोहाय धावतीत्यर्थः । तथा पूर्वगुणस्थानस्थो जीवो निद्राद्विकदेवद्विकपश्चेन्द्रियत्वप्रशस्तविहायोगतित्रसनवकत्रक्रियाहारकतैजसकामणवैकियोपाआहारकोपालआयसंस्थाननिर्माणतीर्थकृत्ववर्णचतुष्कागुरुलघूपघातपराघातोच्छ्वासरूपद्वात्रिंशत्प्रकृतिव्यवच्छंदात पइविंशतिबन्धकः, अन्त्यसंहननत्रिकसम्यक्वोदयव्यवच्छेदात द्वासप्ततर्वेदयिताsएत्रिंशदधिकशतसत्ताको भवति ॥६६॥ इति क्षपकस्याष्टमम् । अथ क्षपकोऽनिवृत्तिगुणस्थानमारोहन याः प्रकृतीर्यत्र यथा क्षिपति तत्र तास्तथा श्लोकपञ्चकनाह
अनिवृत्तिगुणस्थानं, ततः समधिगच्छति। गुणस्थानस्य तस्येव, भागेषु नवसु क्रमात् ॥ ६७ ॥ गतिः श्वाभ्री च तैरश्ची, द्वे तयोरानुपूर्विके । साधारणत्वमुद्योतः, सूक्ष्मत्वं विकलत्रयम् ॥६८॥ १ योगी 'समाहितः ' समाधिमान् 'इति' पूर्वोक्तं प्र. २ ध्यायन् परां ३ शुक्लथ्यानं ४ शुक्लध्यानं ५ ०शतेवेन्धकः ।
॥४३॥
Page #50
--------------------------------------------------------------------------
________________
एकेन्द्रियत्वमातापस्त्यानगृयादिकत्रयम् । स्थावरत्वमिहाशे, क्षीयन्ते षोडशेत्यमूः ॥ ६९ ॥ अष्टौ मध्यकषायाश्च, द्वितीयेऽथ तृतीयके । षण्ढवं तुर्यके स्त्रीत्वं, हास्यषट्कं च पञ्चमे ॥७॥
चतुर्वशेषु शेषेषु, क्रमेणैवातिशुद्धितः । पुंवेदश्च ततः क्रोधो, मानो माया च नश्यति ॥७१॥ पञ्चभिः कुलकम्
व्याख्या-ततः' तस्मादष्टमगुणस्थानादनन्तरं क्षपकोऽनिवृत्तिगुणस्थानं नवमं समारोहति समधिगच्छति, ततस्तस्यैव गुणस्थानस्य नवसु भागेषु कृतेषु आयेडशे प्रथमे भागे 'इत्यमूः' इत्येताः षोडश कर्मप्रकृतयः क्षीयन्ते, इत्यमूः काः ? 'श्वानी गतिः' नरकगतिः, 'तैरवी' तिर्यग्गतिः, तयोर्नरकतिरश्चोर्दै आनुपूर्विके नरकानुपूर्वी तिर्यगानुपूर्वी चेति 'साधारणत्वं' साधारणनाम 'उद्योत' उद्योतनाम 'मूक्ष्मत्वं' मूक्ष्मनाम 'विकलत्रयं' द्वित्रिचतुरिन्द्रियजातिलक्षणं 'एकेन्द्रियत्वं' एकेन्द्रियजातिरूपं, 'आताप' आतपनाम, 'स्त्यानगृध्यादिकत्रयं' निद्रानिद्रामचलापचलास्त्यानडिरितित्रिकं, 'स्थावरत्वं' स्थावरनामकर्मेति षोडश कर्मप्रकृतयोऽनिवृत्तिगुणस्थानस्य प्रथमे भागे क्षीयन्ते, तथाऽष्टौ मध्यकषाया-अप्रत्याख्यानप्रत्याख्यानलक्षणा द्वितीये भागे क्षीयन्ते, तृतीये भागे 'पण्डत्वं' नपुंसकत्वं क्षीयते, 'तुर्यके' चतुर्थके भागे 'स्त्रीत्वं' स्त्रीवेदः क्षीयते, पञ्चमे भागे हास्यरत्यरतिभयशोकजुगुप्से तिषदकं च क्षीयते, शेषेषु चतुर्षशेषु' षष्टादिनवमान्त्येषु 'क्रमेणैवातिशुद्धितो' ध्यानस्यातिनैर्म
१ निवृत्तिगु० प्र०
in Education intem
For Private Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
गुण०
॥४५॥
HK JHICH HEKK ICH IH ICH JE Zfe JEZE
ल्यतः पुंवेदः सज्वलनक्रोधो मानो माया च नश्यति, अयमर्थः - पष्ठे भागे पुंवेदः क्षीयते, सप्तमे भागे संज्वलनक्रोधः क्षीयते, अष्टमे संज्वलनमानः क्षीयते, नवमे भागे संज्वलनमाया च क्षीयते, तथा चानिवृत्तिगुणस्थानस्थो जीवो हास्यरत्यरतिभयशोकजुगुप्साव्यवच्छेदाद् द्वाविंशतेर्बन्धकः, हास्यषट्कोदयव्यवच्छेदात् षट्षष्टेर्वेदयिता, नवमांशे मायान्तपञ्चत्रिंशत्प्रकृतिसत्ताव्यवच्छेदात् त्र्युत्तरशतसत्ताको भवति || ६७ || ६८ || ६९ || ७० ॥ ७१ ॥ इति क्षपकस्य नवनम् । अथ क्षपकस्य दशमगुणस्थानमाह
ततोऽसौ स्थूललोभस्य, सूक्ष्मत्वं प्रापयन् क्षणात् । आरोहति मुनिः सूक्ष्मसंपरायं गुणास्पदम् ॥७२॥
व्याख्या- ' ततो' नवमगुणस्थानादनन्तरं 'असौ ' क्षपको मुनिः 'सूक्ष्मसंपरायास्पदं ' ( रायं गुणास्पदं ) सूक्ष्मसंपरायनामक गुणस्थानमारोहति, किं कुर्वन् ? ' क्षणात् ' क्षणमात्रात् 'स्थूललोभस्य 'स्थूलरूपस्य संज्वलन लोभस्य 'सूक्ष्मत्वं ' सूक्ष्माणुरूपत्वं प्रापयन् । तथा सूक्ष्मसंपरायस्थो जीवः पुंवेदसंज्वलनचतुष्कबन्धव्यवच्छेदाद् कर्मप्रकृतीनां सप्तदशकस्य बन्धकः, त्रिवेदत्रिसंज्वलनोदयव्यवच्छेदात्पष्ठेर्वेदयिता मायास तान्यवच्छेदात् द्वयुत्तरशतसत्ताको भवति ॥ ७२ ॥ इति क्षपकस्य दशमम् । अथ क्षपकस्यैकादशं गुणस्थानं न भवतीत्याह
एकादशं गुणस्थानं, क्षपकस्य ने संभवेत् । किंतु स सूक्ष्मलोभांशान्, क्षपयन् द्वादशं व्रजेत् ॥७३॥ व्याख्या–क्षेपकस्यैकादशं गुणस्थानकं 'न' नैव भवेत्, किंतु दशमादेव गुणस्थानात्क्षपकः 'सूक्ष्मलोभांशान् ' सूक्ष्मीकृत
१ भवेन्नहि । दशमात्सूक्ष्म० प्र० २ 'हि' स्फुटं
वृत्ति:
॥४५॥
Page #52
--------------------------------------------------------------------------
________________
गुण०
॥४६॥
लोभखण्डान् क्षपयन् सन् 'द्वादशं क्षीणमोहाख्यं गुणस्थान 'व्रजेद् गच्छेदिति, अत्र क्षपकश्रेणी च समर्थयति, तत्कमश्चार्य-x अणमिच्छमीससम्म, अट्टनपुंसित्यिवेअछक्कं च । पुवेयं च खवेइ, कोहाईए असंजलणे ॥ १ ॥ ७३ ॥ अथ तत्र शुक्लध्यानस्य द्वितीयांशाश्रयणमाह
भूत्वाऽथ क्षीणमोहात्मा, वीतरागो महायतिः। पूर्ववद्भावसंयुक्तो, द्वितीयं शुक्लमाश्रयेत् ॥७॥
व्याख्या-अर्थ चानन्तरं सक्षपकः क्षीणमोहात्मा भूत्वा' क्षीणमोहगुणस्थानाद्धापरिणतिमयो भूत्वा द्वितीय शुक्लध्यानं 'पूर्ववत् ' प्रथमशुक्लध्यानरीत्या 'श्रयेद् ' भजेत्, कथंभूतः क्षपकः? 'वीतरागो' विशेषेण इतो रागो यस्मात्स तथा, पुनरपि भूतः ? 'भावसंयुक्तो' विशुद्धतरभावोपेतः, एवंविधः क्षपको द्वितीयं शुक्लध्यान श्रयेदित्यर्थः ॥ ७४ ।।
अथ तदेव शुक्लध्यानं सनामविशेषणमाहअपृथक्त्वमवीचारं, सवितर्कगुणान्वितम् । स ध्यायत्येकयोगेन, शुक्लध्यानं द्वितीयकम् ॥७५॥
व्याख्या-'स' क्षपकः क्षीणमोहगुणस्थानवी द्वितीयं शुक्लध्यानं 'एकयोगेन' एकतरयोगेन संध्यायति, यदाहएकं त्रियोगभाजामायं स्यादपरमेकयोगवताम् । तनुयोगिनां तृतीय, निर्योगानां चतुर्थ त् ॥१॥ कथंभूतं ? ' अपृथक्त्वं'
४ अणमिथ्यात्वमिश्रसम्यक्त्वानि अष्टनपुंसकत्रीवेदषट्कं च । पुवेदं च क्षपयति क्रोधादिकान् च संज्वलनान् ॥ १ ॥ १ सप्र० २ अथानन्तरं प्र० ३ हि प्र०
Page #53
--------------------------------------------------------------------------
________________
गुण
॥४७॥
पृथक्तववर्जितं, 'अविचारं' विचाररहितं, 'सवितर्कगुणान्वितं' वितर्कमात्रगुणोपेतं, द्वितीयं शुध्यानं ध्यायतीत्यर्थः ॥ अथापृथक्त्वमेव व्यक्तमाह
निजात्मद्रव्यमेकं वा, पर्यायमथवा गुणम् । निश्चलं चिन्त्यते यत्र, तदेकत्वं विदुर्बुधाः ॥७६॥
व्याख्या-'बुधा' ज्ञाततधाः तदेकत्वम् ' अपृथक्तं 'विदुः' अवधारयन्ति स्म कथयन्ति स्म, तकि?-ध्यायकेन | यन्निनात्मद्रव्यं 'एक' केवलं स्वकीयविशुद्धपरमात्मद्रव्यं, 'या' अथवा तस्यैव परमात्मद्रव्यस्य एक केवलं पर्यायं, वा'
अथा एकमद्वितीयं गुणं वा, तदत्र गुणपर्यायविशेषः पूर्वोक्त एव, एतदेवविधमेकं द्रव्यमेकं गुणं वा एक पर्यायं वा, निश्चलं' चलनवर्जितं यत्र ध्यायते तदेकत्वमिति ॥ ७६ ॥ अथाविचारत्वमाह___ यठ्यजनार्थयोगेषु, परावर्तविवर्जितम् । चिन्तनं तदविचारं, स्मृतं सद्ध्यानकोविदैः ॥ ७७ ॥
व्याख्या-सम्मति सद्ध्यानकोविदत्वं शास्त्राम्नायविशेषादेवास्ति, न त्वनुभवात् , यदाहुः श्रीहेमचन्द्रमूरिपादाः-अनविच्छिच्याऽऽनायः, समागतोऽस्येति कीर्त्यतेऽस्माभिः । दुष्करमप्याधुनिकः, शुक्लध्यानं यथाशास्त्रम् ॥ १॥ तैः सद्धथानकोविदःशास्त्राम्नायावगतशुक्लव्यानरहस्यैस्तद् 'अविचारं' अविचारविशेषणोपेतं द्वितीयं शुक्लं स्मृतं प्रज्ञतं, तकि ?-यत्पूर्वोक्तस्वरूपेषु 'व्यजनार्थयोगेषु ' शब्दाभिधेययोगरूपेषु 'परावविवर्जितं' शब्दाच्छब्दान्तरमित्यादिसंक्रमेण रहितं चिन्तनं श्रुतानुसारादेव
१ नेदं प्र०२ व्यद्रव्य० प्र० ३ शब्दार्थ० ६०
॥४७॥
For Private & Personel Use Only
Page #54
--------------------------------------------------------------------------
________________
गुण०
॥४८॥
He JEZ JEH JEH H JEH JE Z JE Z JEZE
क्रियते तदविचारमिति ॥ ७७ ॥ अथ सवितर्कत्वमाह
निजशुद्धात्मनिष्टं हि भावश्रुतावलम्बनात् । चिन्तनं क्रियते यत्र, सवितर्कं तदुच्यते ॥ ७८ ॥ व्याख्या - यत्र ' निजशुद्धात्मनिष्ठं ' स्वकीयातिविशुद्धपरमात्मलीनं 'हि' स्फुटं चिन्तनं सूक्ष्मविचारणात्मकं क्रियते, तत्सवितर्कैकगुणोपेतं द्वितीयं शुक्लध्यानं, कस्मात् ! ' भावश्रुतावलम्बनात् ' सूक्ष्मान्तर्जल्परूप भावागं मश्रुतावलम्बनमात्र चिन्तनादिति ॥ ७८ ॥ अथ द्वितीयशुक्ल जनित समर सीभावमाह -
इत्येकत्वमविचारं, सवितर्कमुदाहृतम् । तस्मिन् समरसीभावं धत्ते स्वात्मानुभूतितः ॥ ७९ ॥ व्याख्या--' इति पूर्वोक्तप्रकारेण एकत्वाविचारसवितर्क रूपविशेषणत्रयोपेतं द्वितीयं शुक्लध्यानं ' उदाहृतं कथितं, ' तस्मिन् ' द्वितीये शुक्लध्याने वर्त्तमानां ध्यानी ध्यानात् समरसीभावस्तदेकीकरणं मतं । आत्मा यदपृथक्त्वेन, लीयते परमात्मनि || १ || तं समरसीभावं ' धत्ते ' धारयति, कुतः ? ' स्वात्मानुभूतितः ' स्वस्यात्मनोऽनुभूतिरनुभवनं स्वात्मानुभूतिस्तस्याः || ७९ || अथ क्षीणमोहगुणस्थानाद्धाऽवमाने यत्करोति तदाह-
इत्येतद्ध्यानयोगेन, प्लुष्यत्कर्मेन्धनोत्करः । निद्राप्रचलयोर्नाशमुपान्त्ये कुरुत क्षणे ॥ ८० ॥ व्याख्या -- इत्येतत्पूर्वोक्तध्यानयोगेन द्वितीयशुक्लध्यानसमायोगेन 'प्लुष्यत्कर्मेन्धनोत्करो' दह्यमानकर्मसमिदुत्करी योगीन्द्रः
२० वगतावल० प्र०
३ सोऽयं प्र०
१ ०र्कमाह
६ ४६ ४६ 83 8
वृत्तिः
॥ ४८ ॥
Page #55
--------------------------------------------------------------------------
________________
गुण
उपान्त्ये ' अन्त्यसमीपसमये निद्रापचलयोः 'नाशं करोति' क्षयं कुरुते ॥ ८० ॥ अथान्त्यसमये यत्करोति तदाहaal अन्त्ये दृष्टिचतुष्कं च, दशकं ज्ञानविघ्नयोः। क्षपयित्वा मुनिःक्षीणमोहः स्यात्केवलात्मकः॥८॥
व्याख्या-क्षपको मुनिः क्षीणमोहस्यान्त्ये समये 'दृष्टिचतुष्कं' चक्षुर्दर्शनादिदर्शनचतुष्कं ज्ञानान्तरायदशकं चेत्येताश्चतु1.४९॥
देश प्रकृतीः क्षपयित्वा क्षीणमोहांशः सन् केवलात्मकः स्यादिति । तथा क्षीणमोहगुणस्थानस्थो जीवो दर्शनचतुष्कज्ञानान्तरायदशकोच्चयशोरूपषोडशबन्धव्यवच्छेदादेकसातवेद्यबन्धकः, तथा संज्वलनलोभऋषभनाराचनाराचोदयव्यवच्छेदात्सप्तपश्चाशत्मकृतेर्वदयिता, लोभसत्ताक्षपकत्वादेकोत्तरशतसत्ताको भवति ॥८१॥ इति क्षपकस्य द्वादशम् ॥८१॥ अथ क्षीणमोहान्तप्रकृतीनां संख्यामाह
एवं च क्षीणमोहान्ता, त्रिषष्टिप्रकृतिस्थितिः। पञ्चाशीतिजरद्वस्त्रप्रायाः शेषाः सयोगिनि ॥२॥
व्याख्या--'एवं पूर्वोक्तमकारेण त्रिषष्टिप्रकृतीनां स्थितिः क्षीणमोहान्तव, कोऽर्थः?-चतुर्थगुणस्थानादारभ्य क्षीयमाणानां प्रकृतीनां त्रिपष्टिः क्षीणमोहे संपूर्णा, यथैकस्याः प्रकृतेश्चतुर्थगुणस्थाने क्षयः, पुनरेकस्याः पंचमे, अष्टानां सप्तमे, पत्रिंशत्यकृतीनां नवमे, सप्तदशप्रकृतीनां द्वादशे क्षयः, इत्येवं त्रिषष्टिप्रकृतीनां क्षीणमोहान्तैव स्थितिरुक्ता, तथा शेषास्त्रिपष्टिव्यतिरिक्ताः पञ्चाशीतिप्रकृतयो ' जरद्वखमाया' अत्यर्थ जीर्णचीवरकल्पाः सयोगिगुणस्थाने भवन्ति ॥ ८३ ॥ अथ सयोगिनि यो भावो भवति, ये च सम्यक्त्वचारित्रे भवतस्तदाह
१ ० गुणस्थान प्र० २ अत्यन्तजी० प्र०
For Private & Personel Use Only
Page #56
--------------------------------------------------------------------------
________________
गुण
भावोऽत्रक्षायिकः शुद्धः, सम्यक्त्वं क्षायिकं परम्।क्षायिकं हि यथाख्यातचारित्रं तस्य निश्चितम्।८३॥aas.
व्याख्या-'तस्य' केवलात्मनो भगवतः, 'अत्र' सयोगिगुणस्थाने भाषः क्षायिक एव 'शुद्धः' अतिनिर्मलो भवति,
सम्यक्त्वं 'परं' प्रकृष्ट क्षायिकमेव 'हि' स्फुटं चारित्रं क्षायिकं यथाख्यातनामकं निश्चितं भवति, कोऽर्थः ? अत्रौपशमिकक्षायीपश॥५०॥ भूमिकभावयोरभावत्वात् क्षायिको भावः, तथा दर्शनमोहनीयस्य चारित्रमोहनीयस्य क्षयत्वात्क्षायिक सम्यक्त्वचारित्रे इति ॥ ८३ ॥ अथ तस्य केवलात्मनः केवलज्ञानवसमाह
चराचरमिदं विश्वं, हस्तस्थामलकोपमम्। प्रत्यक्ष भासते तस्य, केवलज्ञानभास्वतः ॥ ८४॥
व्याख्या-'तस्य' केवलज्ञानभास्वतः केवलाधिगममार्सण्डस्य 'चराचरं विश्वं सचराचरं जगत् 'हस्तस्थामलकोपमं' हस्ततलगृहीतामलकफलोपमं 'प्रत्यक्ष साक्षात्कारेण 'भासते' दीप्यत इति, अत्र भास्वतः मूर्यस्योपमान व्यवहारमात्रेणैव दर्शितं, न निश्चयतो, यतो निश्चयनयेन केवलज्ञानमूर्ययोर्महदन्तरं, यदाह-'चंदाइञ्चगहाणं. पहा पयासेइ परिमियं खितं । केवलिअनाणलंभो, लोआलोकं पयासेइ ॥१॥ ८४ ॥ अथार्जिततीर्थकृत्कर्मणो विशेषमाह
विशेषात्तीर्थकृत्कर्म, येनास्त्यर्जितमूर्जितम्। तत्कर्मोदयतोऽत्रासौ,स्याजिनेन्द्रो जगत्पतिः॥८५॥ ५०
व्याख्या-'विशेषाद्' अर्हद्भक्तिप्रमुखविंशतिपुण्यस्थानकविशेषाराधनाद् 'येन' जन्तुना ‘अनितं' स्कीतं तीर्थकृत्कर्म | वोऽथ प्र० २०भावात् ३ क्षयात् । चन्द्रादित्यग्रहाणां प्रभा प्रकाशयति परिमितं क्षेत्रम् । कैवल्यज्ञानलाभो लोकालोकं प्रकाशयति ।१।
CORCH
For Private Personel Use Only
Page #57
--------------------------------------------------------------------------
________________
गुण०
॥५१॥
०६४६ ६ ६
— अर्जितम् ' उपार्जितमस्ति, तीर्थकृत्कर्मार्जने हि हेतुभूतान्यर्हद्भक्तिमुख्यानि विंशतिस्थानान्यतानि, यदाह - अरिहंत सिद्ध पत्रयण गुरु थेर बहुस्सुर तवस्सीमुं । वच्छलया एसि, अभिक्खनाणोत्र ओगे अ ॥ १ ॥ दंसणविणए आवस्सए अ सीलए निरइयारे । खणलत्रतवच्चियाए, वेयावच्चे समाही अ || २ || अप्पुवनाणगहणे, सुअभत्ती पवयणे पभावणया । एएहिं कारणेहिं, तित्थयरत्तं लहइ जीवो ॥ ३ ॥ ततः ' अत्र ' सयोगिनि गुणस्थाने ' तत्कर्मोदयतः ' तीर्थकृत्कर्मोदयात् ' असौ ' केवली ' जगत्पतिः ' त्रिभुवनाधिपतिः ' जिनेन्द्रः स्यात्, जिना: सामान्यकेवलिनस्तेषामिन्द्र इव जिनेन्द्रः || ८५ ||
"
अथ तीर्थकृतो महिमानमाह -
स सर्वातिशयैर्युक्तः, सर्वामरनरनतः । चिरं विजयते सर्वोत्तमं तीर्थं प्रवर्त्तयन् ॥ ८६ ॥ व्याख्या--' स' भगवांस्तीर्थकर, +चउरो जम्मप्पभिर, इकारस कम्मसंखए जाए । नव दस य देवजणिए, चउती अइस वंदे ॥ १ ॥ इत्येवंविधैश्चतुस्त्रिंशत्संख्यैरतिशयैर्युक्तः, तथा 'सर्वामरनरैर्नतः ' सकलदेवमानवनमस्कृतः, 'सर्वो२० एए प्र० ३ ० दतिशयै० प्र०
१० न्येव प्र०
*
अर्हत्सिद्धप्रवचन गुरुस्थविरबहुश्रुते तपस्विषु । वात्सल्यमेतेषु अभीक्ष्णं ज्ञानोपयोगौ च ॥ १ ॥ दर्शन विनयौ आवश्यकानि च शीलवते निरतिचारता । क्षणलवतपस्त्यागा वैयावृत्त्यं समाधिश्व || २ || अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने प्रभावना । एतैः कारणैस्तीर्थकरत्वं लभते जीवः ॥३॥ + चत्वारो जन्मप्रभृति एकादश कर्मसंक्षये जाते । नवं देशं च देवजनिताश्चतुस्त्रिंशतमतिशयान्वन्दे ॥
EICHE ICH JEH JEH HEH ICH ICH JEH
वृत्तिः
॥५१॥
Page #58
--------------------------------------------------------------------------
________________
गुण०
॥५२॥
४६६६६६६६६६६६६•
चमं ' सकलशासनप्रवरं ' तीर्थ ' शासनं ' प्रवर्त्तयन् ' प्रकटयन् ' चिरं' देशोनां पूर्वकोटिं यावदुत्कृष्टतो विजयते ॥ ८६ ॥ अथ तत्तीर्थत्कर्म यथा वेद्यते तदाह
वेद्य तीर्थकृत्कर्म, तेन सदेशनादिभिः । भूतले भव्यजीवानां प्रतिबोधादि कुर्वता ॥ ८७ ॥ व्याख्या—' तेन ' तीर्थकृता तत्कर्म ' वेद्यते ' अनुभूयते किं कुर्वता ? ' भूतले ' पृथ्वीमण्डले भव्यजीवानां प्रतिबोधादि कुर्वता, आदिशब्दाद्देशविरति सर्वविरत्यारोपादि विदधता, काभिः ? ' सद्देशनादिभिः ' तत्रोपदेशादिभिः कृत्वा वेद्यते, यदुक्तं तं च कहं वेइज्जइ ?, अगिलाए धम्मदेसणाईहिं ॥ इति. ॥ ८७ ॥
अथ केवलिनां स्थितिमाह
उत्कर्षतोऽष्टवर्षोनं, पूर्वकोटिप्रमाणकम् । कालं यावन्महीपीठे, केवली विहरत्यलम् ॥ ८८ ॥ व्याख्या- ' केवली' केवलज्ञानवान् 'महीपीठे' पृथ्वीमण्डले उत्कर्षतोऽष्टवर्षोनं पूर्वकोटिप्रमाणं कालं यावत् 'अलं ' अत्यर्थ विहरति काञ्चनकमलेषु पदन्यासं कुर्वन् अष्टप्रातिहार्यविभूतिकलितः अनेकसुरासुरकोटिसंसेवितो विचरति, अयं च सामान्य केवलिविहारकालसंभवो दर्शितः, जिनास्तु मध्यमायुष एव भवन्ति ॥ ८८ ॥
अथ केवलसमुद्वातकरणमाह
* तच कथं वेद्यते ! अग्लान्या धर्मदेशनादिभिः
१ बज्झइ तं तु भगवओ, तइयभत्रे सकइत्ताणं प्र०
HEH HEHE. HEHE. JEH HEHE. HERE JEH JEHE ICH H
वृत्तिः
|॥५२॥
Page #59
--------------------------------------------------------------------------
________________
॥५
॥
चेदायुषः स्थितियूंना, सकाशाद्वेद्यकर्मणः । तदा तत्तुल्यतां कर्त, समुद्घातं करोत्यसौ ॥८९॥ Mara
व्याख्या-'असौ केवली 'वेद' यदि 'वेद्यकर्मणः सकाशात्' वेदनीयकर्मसमीपाद् 'आयुषः स्थितिः' आयुःकर्मावस्थितिः न्यूना' स्तोका भवति तदा 'तत्तुल्यतां कर्तुं' आयुर्वेद्ययोस्तुल्यताकरणार्थ समुद्घातं करोति ॥ ८९ ॥
अथ तमेव समुद्घातमाहदण्डत्वं च कपाटवं, मन्थानत्वं च पूरणम् । कुरुते सर्वलोकस्य, चतुर्भिः समयैरसौ ॥१०॥
व्याख्या-प्रथमं समुद्घातस्वरूपमुच्यते-यथास्वभावस्थितानामात्मपदेशानां वेदनादिभिः सप्तभिः कारणैः समन्तादु| घातनं-स्वभावादन्यभावेन परिणमनं समुद्घातः, स च सप्तधा-वेदनासमुद्घातः, कषायसमुद्घातः, मरणसमुद्घातः, वैक्रियस- | | मुद्घातः, तैजससमुद्घातः, आहारकसमुद्घातः, केवलिसमुद्यातश्च, यदाह-वेयण कसाय मरणे, वेउवित्र ते आहार केवलिओ' इत्येतेषु सप्तमु समुद्घातेष्वन्त्यः केवलिसमुद्घातः, तदर्थमसौ केवली आयुर्वेद्ययोः समीकरणार्थमात्मप्रदेशैरूवा॑धो लोकान्तं यावत्प्रसारितैरेकस्मिन् समये 'दण्डत्वं' दण्डाकारत्वं कुरुते, द्वितीये समये पूर्वापरयोर्दिशोविस्तृतैरात्मप्रदेशैरेव कपाटाकारत्वं कुरुते, तृतीये समये दक्षिणोत्तरयोर्दिशोरप्यात्मपदेशैः कपाटाकारविस्तृतर्मन्थानत्वं-मन्यानाकारत्वं कुरुते, चतुर्थे समयेऽन्तरालपूरणेन 'सर्वलोकस्य' चतुर्दशरज्ज्वात्मकलोकस्य पूरणं कुरुते, एवं केवली समुद्घातं कुर्वन् चतुर्भिः समयविश्वव्यापी भवति ॥१०॥
$ वेदनाकषायमरणवैक्रियतैजसाहारककैवलिकाः १ तेअहारकेवलिआ प्र.
Folu५॥
Jan Education Intematon
For Private
Personal use only
Page #60
--------------------------------------------------------------------------
________________
गुण
॥५४॥
sal अथ ततो निवृत्तिमाह
एवमात्मप्रदेशानां, प्रसारणविधानतः । कर्मलेशान् समीकृत्योत्क्रमात्तस्मान्निवर्त्तते ॥ ९१ ॥ |
व्याख्या-एवं' अमुना पूर्वोक्तमकारेण केवली स्वात्मप्रदेशानां 'प्रसारणविधानतो' विस्तारणप्रयोगात् कर्मलेशान् समीकृत्य 'तस्माद् । समुद्घाताद् 'उत्क्रमाद्' विपरीतक्रमानिवर्त्तते, अयमर्थः-चतुभिः समयैर्जगत्पूरणं कृत्वा पञ्चमे समये | पूरणानिवर्तते, षष्ठे समये मन्धानत्वं निवर्त्तयति, सप्तमे समये कपाटत्वमुपसंहरति, अष्टमे समये दण्डत्वमुपसंहरन् स्वभावस्थो | भवति, यदाह वाचकमुख्या-दण्डं प्रथमे समये, कपाटमय चोत्तरे तथा समये । मन्थानमथ तृतीये, लोकव्यापी चतुर्थे तु ॥१॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् ॥२॥९१ ॥ अथ केवली समुद्घातं कुर्वन् यथा योगवान् आहारकश्च भवति तथा श्लोकद्वयेनाह
समुद्घातस्य तस्याये, चाष्टमे समये मुनिः। औदारिकाङ्गयोगः स्याद, द्विषट्सप्तमकेषु तु॥९२॥ मिश्रौदारिकयोगी च(स्यात्), तृतीयायेषुतु त्रिषु। समयेष्वेककर्माङ्गधरोऽनाहारकश्च सः।९३युग्मम्।
व्याख्या-'स' केवली समुद्घातं कुर्वन् 'आये' प्रथमेऽन्ये चेति समयद्वये 'औदारिकाङ्गयोगः स्यात्' औदारिकशरीरयोगवान् भवति, द्वितीयषष्ठसप्तमकेषु समयेषु तु पुनः स केवली समुद्घातं कुर्वन् ‘मिश्रौदारिकयोगी च' (स्यात्) मिश्रौदा
१ जगतः प्र० २ यदाहु चकमुख्याः प्र० ३ अनाहारकश्च प्र०
For Private 8 Personal use only
Page #61
--------------------------------------------------------------------------
________________
वृत्तिः
॥५५॥
रिकयोगवान् भवति, मिश्रत्वं चात्र कार्मणेनैव सहौदारिकस्य, ' तृतीयायेषु त्रिषु तु ' पुनस्तृतीयप्रमुखेषु त्रिषु समयेषु तृतीयचतुर्थपश्चमलक्षणेषु स केवली केवलैकाङ्गधरो भवति, केवलकार्मणकाययोगी भवति, 'तदा' तत्र समये स केवळी केवलकार्मणकाययोगत्वादनाहारको भवति, यदाह-" औदारिकप्रयोक्ता प्रथमाष्टमसमययोरमाविष्टः। मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥ १॥ कार्मणशरीरयोक्ता चतुर्थके पश्चमे तृतीये च । समयत्रये च तस्मिन् भवत्यनाहारको नियमात् ॥२॥" ॥९२ ॥ अत्र यः केवली समुद्घातं करोति तदाह
यःषण्मासाधिकायुष्को, लभते केवलोद्गमम् । करोत्यसो समुद्घातमन्ये कुर्वन्ति वानवा ॥९३॥
व्याख्या-पः षण्मासाधिकायुष्कः सन् ' केवलोद्गमं केलोत्पत्ति 'लभते ' प्रामोति, असौ समुद्यातं निश्चयेन करोति, 'अन्ये । षण्मासमध्यायुष्काः केवलिनः समुद्घातं कुर्वन्ति वाऽथवा न कुर्वन्ति च, तेषां समुद्घातकरणे भजनैव, यदाह-पण्मास्यायुषि शेषे उत्पनं येषां केवलज्ञानम् । ते नियमात्समुद्घातिनः शेषाः समुद्घाते भक्तव्याः।१। छम्मासाऊ सेसे, उप्पन्नं जेसि केवलं नाणं । ते नियमा समुग्धाया, सेसा समुग्घाय भइयत्वा ॥ १॥" ॥ ९४ ॥ अथ समुद्घाताभिवृत्तो यत्करोति तदाह
Dolm५५॥ समुद्घातान्निवृत्तोऽसौ, मनोवाकाययोगवान् । ध्यायेद्योगनिरोधार्थ, शुक्लध्यानं तृतीयकम् ॥१४॥ व्याख्या-असौ मनोवाकाययोगवान् केवली-सयोगिकेवली समुद्घातानिवृत्तः सन् 'योगनिरोधार्थ' योगनिरोध
For Private Personel Use Only
Page #62
--------------------------------------------------------------------------
________________
निमित्तं तृतीयं शुध्यानं ध्यायेत् ॥ ९४ ॥ अथ तदेव तृतीयं शुऋभ्यानमाह
आत्मस्पन्दात्मिका सूक्ष्मा, क्रिया यत्रानिवृत्तिका।तत्तृतीयं भवेच्छुक्ल, सूक्ष्मक्रियानिवृत्तिकम्॥९५॥
व्याख्या-तस्मिन्नवसरे तस्य केवलिनस्तृतीयं सूक्ष्मक्रियाऽनिवृत्तिकनाम शुक्लध्यानं भवति, तत्कि ! यत्रात्मस्पन्दात्मिका सूक्ष्मा क्रियाऽनिवृत्तिका भवति, कोऽर्थः ?-आत्मस्पन्दात्मिका क्रियापि सूक्ष्मत्वादनिवृत्तिका भवति, सूक्ष्मत्वं मुक्त्वा पुनः | स्थूलत्वं न भजतीत्यर्थः ॥ ९६ ॥ अथ मनोवचाकाययोगानामपि यथा यथा सूक्ष्मत्वं करोति तथा तथा श्लोकचतुष्टयेनाह
बादरे काययोगेऽस्मिन् , स्थितिं कृत्वा स्वभावतः। सूक्ष्मीकरोति वाञ्चित्तयोगयुग्मं स बाto दरम् ॥ ९६ ॥ त्यक्त्वा स्थूलं वपुर्योगं, सूक्ष्मवाचित्तयोः स्थितिम् । कृत्वा नयति सूक्ष्मत्वं, काय- [] | योगं तु बादरम् ॥ ९७ ॥ सुंसूक्ष्मकाययोगेऽथ, स्थितिं कृत्वा पुनः क्षणम् । निग्रहं कुरुते सद्यः,
सूक्ष्मवाचित्तयोगयोः ॥ ९८ ॥ ततः सूक्ष्मे वपुयोंगे, स्थितिं कृत्वा क्षणं हि सः । सूक्ष्मक्रियं निजा| स्मानं, चिद्रपं विन्दति स्वयम् ॥ ९९ ॥ चतुर्भिः कुलकम् ।
॥५६॥ व्याख्या-स केली मूक्ष्मक्रियाऽनिवृत्तिनामकतृतीयशुक्लध्यानध्याता अचिन्त्यात्मवीर्यशक्त्याऽस्मिन् बादरे काययोगे १ च प्र. २ स प्र० ३ पुनः क्षणं पू०
For Private
Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
स्वभावतः स्थितिं कृत्वा 'बादरं वाकचिचयोगयुग्मं' स्थूलवचोमनोयोगयुगलं मूक्ष्मीकरोति, ततः 'स्थलं ' बादरं वपुयोगं त्यक्त्वा मूक्ष्मवाञ्चित्तयोः स्थितिं कृत्वा बादरं काययोगं सूक्ष्मत्वं प्रापयति, स मूक्ष्मकाययोमे पुनः ‘क्षणं' क्षणमात्रं स्थिति कृत्वा ' सद्यः' तत्कालं सूक्ष्मवाचित्तयोः 'निग्रहं' सर्वथा तत्संभवाभावं कुरुते, ततः सूक्ष्मे काययोगे क्षणं स्थितिं कृत्वा 'हि' स्फुट स केवली निजात्मानं सूक्ष्मक्रियं चिद्रूपं स्वयमात्मनेव 'विन्दति' अनुभवति इति श्लोकचतुष्टयार्थः ॥ ९६ ॥९७॥९८ ॥ ९९ ॥ भय यदेव सूक्ष्मक्रियस्य यषुषः स्थैर्य भवति, तदेव केवलिनां ध्यानं स्यादित्याह___ छद्मस्थस्य यथा ध्यानं, मनसःस्थैर्यमुच्यते। तथैव वपुषः स्थैर्य, ध्यानं केवलिनो भवेत् ॥ १० ॥
व्याख्या-'यथा' येन प्रकारेण 'छमस्थस्य' योगिनो मनसः स्थैर्य ध्यानमुच्यते. 'तथैव ' तेन प्रकारेण 'वपुषः स्थैर्य' शरीरस्य निश्चलत्वं, केवलिनो ध्यानं भवतीति ॥१०॥ अथ शैलेशीकरणारम्भी सूक्ष्मकाययोगी यत्करोति तदाह
शैलेशीकरणारम्भी, वपुर्योगे स सूक्ष्मके । तिष्ठन्नूर्धास्पदं शीघ्र, योगातीतं यियासति॥१०॥
व्याख्या केवलिनो हस्ताक्षरपञ्चकोगिरणमात्रायुषः शैलवनिश्चलकायस्य चतुर्थध्यानपरिणतिरूपं शैलेशीकरणं भवति, I* ततः स केवली 'शैलेशीकरणारम्भी' शैलेशकरणारम्भः 'मूक्ष्मके वपुर्योगे' मूक्ष्मरूपे काययोगे तिष्ठन् 'शीघ्रं ' त्वरितं उiस्पदं 'योगातीतम् । अयोगिगुणस्थानं 'यियासति' यातुमिच्छति ॥१०१॥ अथ भगवान् स केवली सयोगिगुणस्थानान्त्य
॥
10॥
१०णारम्भकः प्र०
Jain Education Intematon
For Private
Personel Use Only
Page #64
--------------------------------------------------------------------------
________________
प्राजोपासोमादिछिद्राण जीव एका
समये यत्करोति तदाह
अस्यान्त्येऽङ्गोदयच्छेदात्, स्वप्रदेशघनत्वतः। करोत्यन्त्याङ्गसंस्थानत्रिभागोनावगाहनम् ॥१०॥
व्याख्या-'अस्य ' सयोगिकेवलिगुणस्थानस्य 'अन्त्ये ' अन्त्यसमये औदारिकद्विकमस्थिरंदिकं विहायोगतिद्विकं प्रत्ये कत्रिकं संस्थानषट्कं अगुरुलघुचतुष्कं वर्णादिचतुष्कं निर्माणकर्म तैजसकार्मणद्वयं प्रथम संहननं स्वरद्विकमेकतरं वेदनीयं चेति त्रिंशत्यकृतीनामुदयव्यवच्छेदो भवति, ततोऽत्राङ्गोपाङ्गोदयव्यवच्छेझदन्त्याङ्गसंस्थानावगाहनायाः सफाशानिमागोनावगाहनां करोति, । कस्मात् ? ' स्वप्रदेशघनत्वतः' चरमाङ्गोपाङ्गगतनासिकादिच्छिद्राणां पूरणेन स्वप्रदेशानाम्-आत्मप्रदेशानां घनत्वं-निविडत्वं भवति | तस्मात्स्वप्रदेशघनत्वतस्त्रिभागोनत्वं भवतीति । सयोगिगुणस्थानस्थो जीव एकविधबन्धक उपान्त्यसमयं यावत् , ज्ञानान्तरायदर्शनचतुष्कोदयव्यवच्छेदाद् द्विचत्वारिंशत्प्रकृतिवेदयिता, निद्राप्रचलाज्ञानान्तरायदर्शनचतुष्करूपपोडशप्रकृतीनां सत्ताव्यवच्छेदात्पश्चाशीतिसत्ताका भवति ॥ १०२ ॥ इति सयोगिगुणस्थानम् १३ अथायोगिगुणस्थानस्य स्थितिमाह
अथायोगिगुणस्थाने, तिष्ठतोऽस्य जिनेशितुः । लघुपञ्चाक्षरोच्चारप्रमितैव स्थितिर्भवेत् ॥१०३॥
व्याख्या-'अथ' त्रयोदशगुणस्थानानन्तरं 'अयोगिगुणस्थानके ' चतुर्दशे 'अस्य जिनेशितः ' जिनेन्द्रस्य ‘तिष्ठतः' / अवस्थितस्य 'लघुपश्चाक्षरोच्चारप्रमितेव' 'अइउऋल' वर्णपश्चकसमुच्चरणकालतुल्यैव स्थितिर्भवति ॥ १०३ ॥ अथायोगिगुणस्थाने ध्यानसंभवमाह
॥५८॥
For Private & Personel Use Only
Page #65
--------------------------------------------------------------------------
________________
तत्रानिवृत्तिशब्दान्त, समुच्छिन्नक्रियात्मकम् । चतुर्थं भवति ध्यानमयोगिपामंष्टिनः ॥१०॥ वृत्तिः
व्याख्यान-तत्र' तस्मिन्नयोगिगुणस्थानेऽयोगिपरमेष्टिनश्चतुर्थे ध्यान समुच्छि प्रक्रियात्मक वक्ष्यमाणस्वरूपं भवति, कथं- भूतं ? ' अनिवृत्तिशब्दान्तं ' अनिवृत्तिशब्दोऽन्ने यस्य तत्समुच्छिन्नक्रियानिवृत्तिनामक चतुर्थ ध्यानमिति ॥ १०४ ।।
अथास्य चतुर्थध्यानस्य स्वरूपैमाहसमुच्छिन्ना क्रिया यत्र, सूक्ष्मयोगात्मिकाऽपि हि। समुच्छिन्नक्रियं प्रोक्तं, तद् द्वारं मुक्तिवेश्मनः॥१०॥ • व्याख्या-'यत्र' ध्याने सूक्ष्मयोगात्मिकाऽपि' मूक्ष्मकाययोगरूपाऽपि क्रिया 'समुच्छिन्ना' सर्वथा निवृत्ता तत्समुच्छिन्नवियं नाम चतुर्थं ध्यानं प्रोक्तं, कथंभूतं ? 'मुक्तिवेश्मनः सिद्धिसौंधस्य द्वार' द्वारोपममिति ॥१०५॥ अथ शिष्येण कृतं प्रश्नद्वयमाह
देहास्तित्वेऽप्ययोगित्वं, कथं? तद् घटते प्रभो!। देहाभावे तथा ध्यानं, दुर्घटं घटते कथम् १०६ ।
व्याख्या-शिष्यः पृच्छति, हे प्रभो! 'देहास्तित्वे' मूक्ष्मेऽपि वपुर्योगास्तित्वे योगित्वेऽयोगित्वमस्तीति तत्कथं घटते ! 7 इत्येक प्रश्वः, तथा चेद्यादि देहाभावः सर्वथा काययोगाभावः संजातस्तदा देहाभावे (ध्यानं ) दुर्घटं कथं घटते ? इति द्वितीयः प्रथः ॥ १०६ ॥ अथाचार्यः प्रश्नद्वयस्योत्तरं पद्यद्वयनाह
१०वि हि प्र. २ शिष्यकृतं प्र. .
५९॥
Jan Education International
For Private
Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
वपुषोऽत्रातिसूक्ष्मत्वाच्छीघंभाविक्षयवतः। कायकार्यासमर्थत्वात्, सति कायेऽप्ययोगता ॥१०७॥ नि: तच्छरोराश्रयाख्यानमस्तीति न विरुध्यते। निजशुद्धात्मचिद्रूपनिर्भरानन्दशालिनः॥१०८॥ युग्मम् ।
व्याख्या-आचार्य आह-भोः शिष्य ! 'अत्र' अयोगिगुणस्थाने काये मूक्ष्मे वपुर्योगे सत्यप्ययोगता पोच्यते, कस्मात् ? 'वपुषा' कायस्यातिसूक्ष्मत्वात्-सूक्ष्मक्रियारूपत्वादिति, तथा 'शीघंभाविक्षयत्वतः' क्षयस्य भावः क्षयत्वं, शीघ्रं भाविक्षयत्वं यस्य तच्छीघंभाविक्षयत्वं तस्मात् , तथा ' कायकार्यासमर्थत्वाद् ' देहकृत्यसाधनाक्षमत्वात् काये सत्यप्ययोगता भवतीति, स्था छ। ' तच्छरीराश्रयात् ' तादृग्देहास्तित्वाश्रयणात् ध्यानमस्तीति ' न विरुध्यते । न विरोधमानोति, कस्य ? अयोगिगुणस्थानवर्तिनो भगवतः परमेष्ठिनः, कथंभूतस्य ? 'निजशुद्धात्मचिपनिर्भरानन्दशालिनः' स्वकीयनिर्मलपरमात्मचिद्रूपतन्मयत्वोत्पन्ननिर्भरपरमानन्दविराजमानस्येति ॥ १०८ ॥ अथ ध्यानस्य निश्चयव्यवहारवमाह
आत्मानमात्मनाऽऽत्मैव, ध्याता ध्यायति तत्त्वतः। उपचारस्तदन्यो हि, व्यवहारनयाश्रितः॥१०९॥
व्याख्या-'तत्वतो' निश्चयनयादात्मैव ध्याता 'आत्मनैव' करणभूतेन कृत्वा आत्मानमेव कर्मतापन्नं ध्यायति, 'हि' * स्फुटं ' तदन्यो ' यः कश्चिदुपचारोऽष्टाङ्गयोगप्रवृत्तिलक्षणः स सकलोऽपि व्यवहारनयाश्रितो ज्ञेयः ॥ १०९ ॥ अथायोगिन एवोपा
न्त्यसमयकृत्ययाह
Jan Education Intematon
For Private
Personel Use Only
Page #67
--------------------------------------------------------------------------
________________
गुण०
॥६१ ॥
JEZE JEZE. JEZE JEZE JEH HEHE ICH JEH JEZ H
चिद्रूपात्ममयोsयोगी, पान्त्यं समये द्रुतम् । युगपत्क्षपयेत्कर्मप्रकृतीनां द्विसप्ततिम् ॥ ११० ॥ व्याख्या - ' चिद्रपात्ममयः ' केवलात्ममयः' अयोगी ' अयोगिगुणस्थानवत्ती 'हि' स्फुटमुपान्यसमये 'द्र' शीघ्रं युगपत्समकालं कर्मप्रकृतिनां द्विसप्ततिं ' क्षपयेत् क्षयं प्रापयेदिति ॥ ११० ॥ अथ ता द्विसप्ततिकर्मप्रकृतीर्नामतः श्लोकपञ्चकेनाह-
देहबन्धनसङ्घाताः, प्रत्येकं पञ्च पञ्च च । अङ्गोपाङ्गत्रयं चैत्र, षट्कं संस्थानसंज्ञकम् ॥ १११ ॥ वर्णाः पञ्च रसाः पञ्च षट्कं संहननात्मकम् । स्पर्शाष्टकं च गन्धौ द्वौ, नीचानादेयदुर्भगम् ॥ ११२ ॥ तथाऽगुरुलघुत्वाख्यमुपघातोऽन्यघातिता । निर्माणमपर्याप्तत्वमुच्छ्वासश्चायशस्तथा ॥ ११३ ॥ विहायोगतियुग्मं च शुभास्थैर्यद्वयं पृथक् । गतिर्दिव्याऽऽनुपूर्वीच, प्रत्येकं च स्वरद्वयम् ॥ ११४॥ वेद्यमेकतरं चेति, कर्मप्रकृतयः खलु । द्वासप्ततिरिमा मुक्तिपुरीद्वारार्ग लोपमाः ॥ ११५ ॥ पञ्चभिः कुलकम् ।
व्याख्या - देहपञ्चकं ५ बन्धनपञ्चकं १० संघातनपञ्चकं १५ अङ्गोपाङ्गत्रयं १८ संस्थानपट्कं २४ वर्णपञ्चकं २९ रसपञ्चकं ३४ संहननपट्कं ४० स्पर्शाष्टकं ४८ गन्धद्वयं ५० नीचैर्गोत्रं ५१ अनादेयं ५२ दुर्भगत्वं ५३ अगुरुलघुत्वं ५४ उपघातत्वं ५५ पराघातलं ५६ निर्माणत्वं ५७ अपर्याप्तत्वं ५८ उच्छ्वासत्वं ५९ अयशस्त्वं ६० विहायोतिद्वयं ६२ शुभाशुभद्वयं ६४ स्थैर्या
२० दुर्भगाः
१ पान्त्ये प्र०
४७०८४६३२०४६३१६६०६०८४६३२०४६ ४६३२
वृत्तिः
॥६९॥
Page #68
--------------------------------------------------------------------------
________________
गुण.
Isol स्थैर्यद्वयं ६६ देवगतिः ६७ देवानुपूर्वी ६८ प्रत्येकनाम ६९ सुस्वरदुःस्वरद्वयं ७१ एकतरं वेद्यं ७२ चेति द्वासप्ततिः कर्मभकृतयो sal
मुक्तिपुरीद्वारार्गलारूपा उपान्त्ये समय क्षपय ते ॥ १११ ॥ ११२ ॥ ११३ ।। ११४ ॥ ११ ॥ अक्षयोग्यन्त्ये समये, याः प्रकृती:
क्षपयित्वा यत्करोति तत् लोकत्रयेणाह॥६२॥
अन्त्ये ह्येकतरं वेदमादेयत्वं च पूर्णता । सत्वं बादरत्वं हि, मनुष्यायुश्च सथसः ॥ ११६ ।।. नृगतिश्चानुपूर्वी च, सौभाग्यं चोच्चगोत्रताम् । पञ्चाक्षत्वं तथा तीर्थकृन्नामेति त्रयोदश ॥९१७॥ क्षयं । नीत्वा स लोकान्तं, तत्रैव समये व्रजेत्ो लब्धसिद्धत्वपर्यायः, परमेष्ठी सनातनः॥११॥त्रिमिर्विशेषकर
. व्याख्या-सोऽयोगी 'हिं',स्फुटमन्त्ये समये एकतरं वद्य १ आदेयत्वं २ पर्यायत्वं ३ त्रसत्वं ४ वादात्वं ५ मनुष्यायुः *६ सद्यशः ७ मनुष्यगतिः ८ मनुष्यानुपूर्वी ९ सौभाग्यं १० उचैर्गोत्रं ११ पञ्चन्द्रिय जातिः १२ तीर्थकृन्नामेति १३ त्रयोदश प्रकृतिः
क्षयं नीत्वा तत्रैव समये लब्दसिद्धत्वपर्यायः' प्राप्तसिद्धत्वन मा परमेष्ठी सनातनः स ततो भगवान् शाश्वत: लोकान्त' लोकपर्यन्तं 'बजेद् गच्छेदिति । तथाऽयोगिगुणस्थानस्थो जीवोऽबन्धकस्तथैकतरवध १ आदेय.२ यशर ३ सुभग ४ नमात्रिक ६२।। ७ पञ्चेन्द्रियत्व ८ मनुष्यगति ९ मनुष्यानुपूर्वी १० मनुयायु ११ उचैर्मात्र १२. तीर्थकादितिः १३. योदशप्रतिकेमिनार
१च प्र०२. पञ्चन्द्रियत्वं प्र०
For Private & Personel Use Only
Page #69
--------------------------------------------------------------------------
________________
अन्त्यसमपट्टा दारु पञ्चाशीतिसत्ताका, उपान्त्ये समये त्रयोदशप्रकृतिसत्ताकोऽन्त्यसमयेऽसत्ताकः ॥ ११६ ॥ ११७ ।। | इत्ययोगिनश्चतुर्दशम् ।। निष्कर्मात्मा तस्मिन्नेव समये लोकान्तं कथं यादीत्याशङ्क्याइ
पूर्वप्रयोगतोऽसङ्गभावाद्वन्धविमोक्षतः । स्वभावपरिणामाञ्च, सिद्धस्योर्ध्वगतिर्भवेत् ॥ ११९ ॥
व्याख्या-'सिद्धस्य ' निष्कर्मात्मन ऊर्ध्वगतिर्भवति, कस्मात् ?-' पूर्वप्रयोगतः' अचिन्त्यात्मवीर्येणोपान्त्यसमयदये पश्चाशीतिकर्मप्रकृतिक्षपणाय पूर्व यः प्रयुक्त प्रयोगो-व्यापारः प्रयत्नस्तस्मादित्येको हेतुः, न सङ्गोऽसङ्गस्तस्य भागोऽसङ्गभावस्त
स्मात् , कोपनहरूपसङ्गमाभावात् इति द्वितीयो हेतुः, बन्धाद्विमोक्षो बन्धविमोक्षस्तस्माद्दाढतरबन्धनविमुक्तितः इति तृतीयो lar तुः, स्वभावेन परिणमनं स्वभावपरिणामस्तस्मात्तथास्वाभाव्यादिति चतुर्थो हेतुः ॥ ११९ ॥ अथेतिहेतुचतुष्टयं सदृष्टान्तं क्रमेण श्लोकचतुष्टयेनाह
कुलालचक्रदोलेषुमुख्यानां हि यथा गतिः । पूर्वप्रयोगतः सिद्धा, सिद्धस्योर्ध्वगतिस्तथा H॥१२०॥ मृल्लेपसङ्गनिर्मोक्षाद्यथा दृष्टाऽप्स्वलाबुनः । कर्मसङ्गविनिमोक्षात्तथा सिद्धगतिः स्मृता ॥१२१॥ | एरण्डफलबीजादेर्बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छदात्, सिद्धस्यापि तथेक्ष्यते ॥ १२२ ॥ यथा
१ मङ्गस्या० प्र०
॥६॥
For Private & Personel Use Only
Page #70
--------------------------------------------------------------------------
________________
गुण०
॥६४॥
Hot H Ha Ho I fo H H H
धस्तिर्यगूर्ध्वं च लेष्टुवाय्वग्निवीचयः । स्वभावतः प्रवर्त्तन्ते तथोर्ध्वगतिरात्मनः ॥ १२२ ॥ चतुर्भिः कलापकम् ॥
व्याख्या- ' कुलालचक्रं ' कुम्भकारोपकरणं 'दोला ' प्रेङ्खा 'इपु: ' बाणस्तन्मुख्यानां यन्त्रगोफणमुकगोलकादीनां गतिः ' हि ' स्फुटं ' यथा ' येन प्रकारेण पूर्वप्रयोगतः 'सिद्धा' प्रसिद्धा ' तथा ' तेन प्रकारेण पूर्वप्रयोगतः सिद्धस्योर्ध्वगतिः सिद्धेत्येको दृष्टान्तः, तथा ' मृडेपसङ्गनिर्मोक्षात् ' मृत्तिकाम लेपसङ्गतिमुक्तेः ' अप्सु ' जलेषु ' अलावुनः ' तुम्बकफलस्य यथोदुर्ध्वगतिर्दृष्टा तथा कर्मलेपसङ्ग निर्मोक्षात्सिद्धानामूर्ध्वगतिः स्मृतेति द्वितीयहेतुदृष्टान्तः, तथा 'एरण्डफलबीजादेः' एरण्डफलबीजस्य, आदिशब्दाच्छणवीजादेर्बन्धच्छेदाद्यथोद्र्ध्वगतिर्भवेत्, कर्मबन्धनविच्छेदात्सिद्धस्यापि तथैवोर्ध्वगतिर्भवतीति तृतीयहेतुदृष्टान्तः, तथा ' लेष्टुंवाय्वग्निवीचयः ' इष्टकाखण्डसमीरणवनयः स्वभावत एव यथाऽधस्तिर्यगूर्ध्वं क्रमेण प्रवर्त्तन्ते, तथाऽऽत्मनोऽपि स्वभावादेवोदूर्ध्वगतिर्भवतीति चतुर्थहेतुदृष्टान्तः || १२०-१२३ ॥ अथाधस्तिर्यग्लोकेषु निष्कर्मात्मनो गतिनिषेधमाह
न चाधो गौरवाभावान्न तिर्यक् प्रेरकं विना । न च धर्मास्तिकायस्याभावालोकोपरि व्रजेत् ॥ १२४ ॥ व्याख्या—सिद्धात्माऽधस्तान्न गच्छति, कस्मात् ? - ' गौरवाभावात्, ' कर्मजनितगुरुत्वाभावात्, तथा 'प्रेरकं विना ' प्रेरककर्माभावान तिर्यग् गच्छति, तथा निष्कर्मा लोकोपरि न व्रजेदलोकमध्ये न गच्छेत्, कस्मात् ? - धर्मास्तिकायस्याभावात्, १ इयेक
२ लो० प्र०
भावतः प्र०
३
वृतिः
॥६४॥
Page #71
--------------------------------------------------------------------------
________________
Istal लोके हि जीवपुद्गलयोतिहेतुर्धर्मास्तिकायो भवति, मत्स्यादीनां सलिलबत् , तस्य धर्मास्तिकायस्यालोकेऽसम्भवात् सिद्धात्मा लो
कोपरि न बजेदिति ॥ १२४ ।। अथ सिद्धानां स्थितिर्यथा सिद्धिशिलोपरि लोकान्तेऽस्ति तथा श्लोकद्वयेनाहम मनोज्ञा सुरभिस्तन्त्री, पुण्या परमभासुरा । प्राग्भारा नाम वसुधा, लोकमूर्ध्नि व्यवस्थिता Ing| ॥ १२५ ॥ नृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा शुभा । ऊर्ध्वं तस्याः क्षितेः सिद्धा, लोकान्ते । समवस्थिताः ॥ १२६ ॥ युग्मम् ॥
व्याख्या-पाग्भारा नाम वसुधा सिद्धिशिलेतिख्याता पृथ्वी 'लोकमूर्ध्नि' चतुर्दशरज्ज्यात्मकलोकशिरसि व्यवस्थिता वर्तते, तस्याः क्षितेरूज़ 'लोकान्ते' लोकमान्तस्पृष्टात्मप्रदेशाः सिद्धाः समवस्थिता भवन्ति, कथंभूता क्षितिः ?-'मनोज्ञा' | मनोहारिणी, पुनः कथंभूता ?-'सुरभिः 'कर्पूरपूराधिकसौरभ्या, 'तन्वो 'सूक्ष्मावयवत्लात्कोमला, न तु स्थूलावयवत्वाकर्कशा, 'पुण्या' पवित्रा 'परमभासुरा' प्रकृष्टतेजोभासुरा 'नृलोकतुल्यविष्कम्भा' मनुष्यक्षेत्रसमविस्तारा 'सितच्छत्रनिभा' श्वेत
छत्राकारा, परमोत्तानच्छत्रोपमा, 'शुभा' सकलशुभोदयमयीति, सामाग्भारा वसुधा सर्वार्थसिद्धाद् द्वादशभियोजनैर्भवति, मध्यदेशे साऽष्टयोजना, प्रान्तेषु तीक्ष्णधारोपमा, तस्याः शिलाया उपरि एकेन योजनेन लोकान्तं, तस्य योजनस्य यश्चतुर्थः क्रोशस्तस्य
१. सन्ति प्र०२
जनगन्दा प्र.
३ नतस्तस्य प्र०
For Private & Personel Use Only
Page #72
--------------------------------------------------------------------------
________________
गुण०
॥६६॥
८४६३६
षष्ठे भागे सिद्धानामवगाहना भवति, यदाह - ईसी पन्भाराए, उबरिं खलु जोयणमि जो कोसो । कोसस्स य छन्माए, सिद्धागाणा भणिया ॥ १ ॥ तथाहि - द्विसहस्रचतुःप्रमाणस्य क्रोशस्य षष्ठे भागे धनुषां त्रीणि शतानि त्रयस्त्रिंशदधिकानि भवन्ति, धनुविभागद्वयं च तत उत्कृष्टतः सिद्धात्मप्रदशानामवगाहनाऽप्येतावत्येव भवति नाधिकेति यदाह - तिने धणुसवाई, धगुतित्तोस च धणु तिभागोणं । इअ एसा उकोसा, सिद्धाणोगाहगा भणिया ।। १२५ ।। १२६ ॥ अथ सिद्धात्ममदेशानामवगाहनाऽऽकारमाह - कालावसरसंस्थाना, या मूषागतसिक्थका । तत्रस्थाकाशसंकाशाऽऽकारा सिद्धावगाहना । १२७ । व्याख्या - या 'मुपागत सिक्थका ' गलितमइना 'कालायसर संस्थाना ' अन्तकालसमयाकारा भवति, तत्रस्थो य आकाशस्तत्संकाशाकारा गलित मदनमूपागताकाशसरक्षाकृतिः सिद्धानामवगाहना भवतीति || १२७ || अथ सिद्धानां ज्ञानदर्शनविषयमाद
ज्ञातारोऽखिलतत्त्वानां द्रष्टारश्चैकहेलया | गुणपर्याययुक्तानां त्रैलोक्योदरवर्त्तिनाम् ॥ १२८ ॥ व्याख्या -' त्रैलोक्योदरवर्त्तिनां चतुर्दशरज्ज्यात्मक लोकमध्यवर्त्तमानानां गुणपर्याययुक्तानां ' पूर्वोक्तस्वरूपैर्गुणैः
१ ० यणास प्र०
* ईपत्प्राग्भाराया उपरि खलु योजने यः क्रोशः । क्रोशस्य च षड्मागे सिद्धानामवगाहना भणिता ॥ १ ॥ * त्रीण्येव धनुःशतानि धनूंषि त्रयस्त्रिंशच धनुः तृतीयभागोनम् । इत्येषोत्कृष्टा सिद्धानामवगाहना भणिता ॥ १ ॥
3833373893828389138383
॥६६॥
Page #73
--------------------------------------------------------------------------
________________
गुण
॥६७॥
पर्यायश्चोपलक्षितानां ' अखिलतवानां' समस्तजीवाजीवादिपदार्थानां ते ज्ञातारी भवन्ति, विशेषापयोगतया परिच्छेदका भवन्ति, न केवलं ज्ञाताः, समयान्तरं 'एकहेलया सामान्योपयोगतया दृष्टारश्च भवन्ति ।। १२८॥ अथ सिद्धानां गुणाष्टकं सहेतुकं श्लोकत्रयेणाह
__अनन्तं केवलज्ञानं, ज्ञानावरणसंक्षयात् । अनन्तं दर्शनं चैव, दर्शनावरणक्षयात् ॥ १२९ ॥ । शुद्धसम्यक्त्वचारित्रे, क्षायिके मोहनिग्रहात् । अनन्ते सुखवीर्ये च, वेद्यविनक्षयात्क्रमात् ॥ १३० ॥
आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः । नामगोत्रक्षयादेवामू"नन्ताऽवगाहना ॥ १३१ ॥ त्रिभिर्विशेषकम्
व्याख्या-सिद्धानामनन्तं केवलज्ञानं भवति, कस्मात् ?-ज्ञानावरणसंक्षयात , अनन्तं दर्शनं चापि भवति, कस्मात् ?-दर्शनावरणक्षयात् , सिद्धानां शुद्धसम्यक्त्वचारित्रे भवतः, कथंभूते?-क्षायिके, कस्मात् ?-मोहनिग्रहात्, दर्शनमोहनीयचारित्रमोहनीययोः | क्षीणत्वात् , अनन्ते सुखवीर्ये च भवतः, कस्मात् ?-वेचविघ्नक्षयात, वेद्यक्षयानदन्तं सुखं, विघ्नक्षयादनन्तं वीर्यमित्यर्थः, सिद्धानामक्षया स्थितिर्भवति, कस्मात् ?-आयुषः क्षीणभावत्वात, मूतत्वेनानन्तानामवगाहो मूर्तानन्तावगाहना तस्या अभावोऽमूर्त्तानन्ताव
१ सिद्धा मुक्ता प्र०२ समयान्तं प्र. ३ चापि प्र. ४ क्षाथिके शुद्धसम्यक्त्वचारित्रे प्र. ५ गतिः प्र०
॥६॥
For Private & Personel Use Only
Page #74
--------------------------------------------------------------------------
________________
गुण०
॥६८॥
गाना, सिद्धानामनन्तावगाहना भवति, कस्मात् ? - नामगोत्रक्षयादवति ॥ १२९ ॥ १३० ॥ १३१ ॥ अथ सिद्धानां यत्सौख्यं तदाह
यत्सौख्यं चक्रिशक्रादिपदवी भोग संभवम् । ततोऽनन्तगुणं तेषां सिद्धावक्लेशमव्ययम् ॥ १३२ ॥ व्याख्या - चक्रिशक्रादिपदवी भोग संभवं यत्सौख्यमुत्कृष्टं वर्ण्यते ततोऽपि 'तेषां' सिद्धानामनन्तगुणं भवति, क ? - 'सिडौं' मुक्तौ कथंभूतं सौख्यं ? - 'अक्लेशं ' अविद्यास्मितरागद्वेषाभिनिवेशाः क्लेशाः, ते न विद्यन्ते यत्र तदक्लेशं पुनः कथम्भूतं ? -' अव्ययं ' न व्येति-न चलति स्वभावादिति अव्ययमक्षयमित्यर्थः ॥ १३२ ॥ अथ तैः सिद्धैर्भगवद्भिर्यत्प्राप्तं तत्सारमाहयदाराध्यं च यत्साध्यं, यद् ध्येयं यच्च दुर्लभम् । चिदानन्दमयं तत्तैः संप्राप्तं परमं पदम् ॥१३३॥
व्याख्या- 'तैः' सिद्धैर्भगवद्भिस्तत्परमं पदं प्राप्तं तत्किम् ? ' यदाराध्यं ' आराधकैर्यत्पदं समाराध्यते, तथा ' यत्साध्यं ' साधकः पुरुषैः सम्यग्ज्ञानदर्शन चारित्रादिभिः कृत्वा यत्साध्यते, तथा 'यद्धयेयं ध्यायकैर्योगिभिर्यत्सदैव नानाविधध्यानोपायैयते, तथा ' यच्च दुर्लभं यत्पदमभव्यानां सर्वथा दुर्लभं भव्यानामपि केषाञ्चिदप्राप्त सामग्रीविशेषाणां सर्वथा दुर्लभं, दूरभन्यानां तुटलभ्यमित्येवं यद् दुर्लभं तदपि तैर्धन्यैर्भगवद्भिः सिद्धैर्लब्धमिति कथम्भूतं तत्परमं पदं ? - 'चिदानन्दमयं चिद्रूपपरमानन्दमयमिति ॥ १३३ ॥ अथ मुक्तेः स्वरूपं बृहद्वेतेनाह
१ सदा प्र० २ हन्नाह प्र
733883 3 3 78309838836
ब्रुतिः
॥६८॥
Page #75
--------------------------------------------------------------------------
________________
नात्यन्ताभावरूपा न च जडिममयी व्योमवठ्यापिनी नो, न व्यावृत्तिं दधाना विषयसुखघना । में नेष्यते सर्वविद्भिः । सद्रूपात्मप्रसादाद् दृगवगमगुणोघेन संसारसारा, निःसीमाऽत्यक्षसौख्योदयवस| तिरनिःपातिनी मुक्तिरुक्ता ॥ १३४ ॥ | व्याख्या-मुक्तिः कैश्चिदत्यन्ताभावरूपा मन्यते, अन्य डिममयी-ज्ञानाभावमयी मन्यते, अपरैव्योमवद्वयापिनी मन्यते, एकैात्ति-पुनराति दधाना मन्यते, अपरैः क्लिष्टकर्मभिर्विषयसुखघना-विषयसुखमयी मुक्तिरुच्यते, सर्वविद्भिस्तु श्रीसर्वज्ञैरभावरूपा | जडिममयी व्योमवव्यापिनी व्यावृत्तिरूपा विषयसुखमयी वा मुक्तिर्नेष्यते, किंतु 'सपात्मप्रसादात्' विद्यमानचिद्रूपात्मप्रसत्तितो 'हगवगमगुणोघेन' सम्यग्दर्शनज्ञानगुणसमूहेन कृत्वाऽसारभूतसंसारात्सारभूता, 'निस्सीमात्यक्षसौख्योदयवसतिः' अनन्तातीन्द्रियानन्दानुभवस्थानं, 'अनिःपातिनी' निपातरहिता 'मुक्तिः' सिद्धिः'उक्ता' गदितेति ॥ १३४ ॥ अथ पूर्वपिरचितबहुशास्त्रेभ्यो गुणस्थानार्थसंगतश्लोकसंग्रहेण प्रकरणोद्धारमाह
इत्युध्धृतो गुणस्थानरत्नराशिः श्रुतार्णवात् । पूर्वर्षिसूक्तिनावैव, रत्नशेखरसूरिभिः ॥ १३५॥ व्याख्या-' इति ' पूर्वोक्तमकारेण'उध्धृतः' प्रकटीकृतः कर्मतापन्नो 'गुणस्थानरत्नराशिः ' गुणस्थानान्येव रत्नानि गुण१ नेक्ष्यते प.
For Private & Personel Use Only
Page #76
--------------------------------------------------------------------------
________________
चिः
स्थानरत्नानि तेषां राशिगुणस्थानरत्नराशिः, कस्मात् ?-'श्रुतार्णवाद्' आगमरत्नाकरात्, कयैव कृत्वा ?-' पूर्वर्षिसूक्तिनाव* पूर्वर्षीणां सूक्तिः-शोभनोक्तिः पद्यरचना सैव नौस्तया पूर्वपिसूक्तिनावैव कृत्वा न त्वात्मकृतैः श्लोकः, प्रायः पूर्वर्षिरचितैरेवेत्यर्थः, कैरुध्धृतः?-रत्नशेखरसूरिभिः' बृहद्गच्छोयश्रीवज्रसेनसरिशिष्यैः श्रीहेमतिलकमरिपट्टप्रतिष्ठितैः श्रीरत्नशेखरसूरिभिः स्वपरोपकाराय प्रकरणरूपतया प्रकटित इत्यर्थः ॥ १३५ ॥ इतिश्री गुणस्थानक्रमारोहवृत्तिः।
१ तैः श्लोकै० प्र०
.......... .......
......................................LA వరరరరరరరూతపడవుతుందని
తరతరతరతరపటాపురత పడిందని పురుషుల
A RKt
इति श्रीबृहद्गच्छीयरत्नशेखरसूरिसूत्रितो गुणस्थानक्रमारोहः सवृत्तिकः
|७०॥
For Private & Personel Use Only
Page #77
--------------------------------------------------------------------------
________________
TECTEEEEEEEEEEEEEEEEEEEEEEE
resDITORSERSEASERSE-5e2CE SCIR SKY ( बृहद्रच्छीयश्रीमद्रलशेखरसूरिसूत्रितः श्रीगुणस्थानक्रमारोहः समाप्त. 3 Karre r
इति श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्काङ्कः र
Jan Education Intemanong
For Private
Personel Use Only
www.jainelorary.org
Page #78
--------------------------------------------------------------------------
________________ For Private & Personel Use Only