________________
गण०
अनायव्यक्तमिथ्यात्वं, जीवेऽस्त्येव सदा परम् । व्यक्तमिथ्यात्वधीप्राप्ति-गुणस्थानतयोच्यते ॥ ७॥
व्याख्या-अनादि च तदव्यक्तंच अनाद्यव्यक्तं, तच्च तन्मिथ्याखं च अनाद्यव्यक्तमिथ्यात्वं ' जीवे ' पाणिनि अव्यव- 1 हारराशिवर्तिनि 'सदा सर्वदाऽप्यस्त्येच, परं व्यक्तमिथ्यात्वस्य-पूर्वोक्तस्वरूपस्य धीवुद्धिस्तत्प्राप्तिरेव गुणस्थानतयोच्यत इति। आहनिन '* सहजिअठाण मिच्छे' इति मिथ्यादृष्टो सर्वोण्यपि जीवस्थानानि लभ्यन्ते, तत्कथं व्यक्तमिथ्यात्वधीप्राप्तिरेव प्रथमगणस्थानतामाप्नोति ? इत्यत्रोच्यते ' सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तशः' इति वचनात् ये प्राप्तव्यक्तमिथ्यात्वबुद्धयो जीवा व्यवहार-ITI राशिवर्तिनस्त एव प्रथमगुणस्थाने लभ्यन्ते, न त्वव्यवहारराशिवर्तिनः, तेषामव्यक्तमिथ्यात्वस्यैव सद्भावादित्यदोषः॥ ७ ॥ अथ | मिथ्यात्वदूषणमाह
मद्यमोहाद्यथा जीवो, न जानाति हिताहितम् । धर्माधर्मों न जानाति, तथा मिथ्यात्व | मोहितः ॥८॥
* सर्वनीवस्थानानि मिथ्यात्वे
१ गुणस्थानस्थाः । प्र० । २ अन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिप्रत्तिरविपर्यस्तापि भवति इति मलयगिरिपादाः 19 घडशीतिवृत्तौ । कर्मस्तवविवरणादावप्येवमेवोतध्येयम् ।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org