SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ गुण० ॥६॥ JEZ ICH JE Z offe Ho व्याख्या —- यथा ' जीवो ' मनुष्यांदिप्राणी ' मद्यमोहाद् 'मदिरोन्मादात् हितं वाऽहितं वा किमपि न जानाति, नष्टचैतेन्यवत्, तथा मिथ्यात्वमोहितो जीवो धर्माधर्मौ सम्यग्न जानात्यज्ञानत्वात्, यदाह – मिथ्यात्वेनालीढचित्ता नितान्तं, तत्त्वातत्त्वं जातेनैव जीवाः । किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्तिमासादयेयुः १ ॥ १ ॥ इति ॥ ८ ॥ अथ मिथ्यात्वस्य ..स्थितिमाह अभव्याश्रितमिथ्यात्वे -ऽनाद्यनन्ता स्थितिर्भवेत् । सा भव्याश्रितमिथ्यात्वे - ऽनादिसान्ता पुनर्मता ॥ ९ ॥ व्याख्या – अभव्यजीवानाश्रित्य मिध्यात्वे - सामान्येनाव्यक्तमिध्यात्वविषयेऽनाद्यनन्ता स्थितिर्भवति, तथा सैव स्थितिभव्यजीवान् पुनराश्रित्यानादिसान्ता पुनर्मता-संमता, यदाह - *मिच्छत्तमभवाणं, तमणाहमणतयं मुणेयवं । भवाणं तु अणाइ, जवस तुमिच्छतं ॥१॥" इयं च स्थितिः सामान्येन मिध्यात्वमाश्रित्य दर्शिता, यदि पुनर्मिध्यात्वगुणस्थानस्य स्थितिर्विचार्यते तदा अभव्यानाश्रित्य साधनन्ता भव्यानाश्रित्य सादिसान्तेति । तदा मिध्यात्वगुणस्थानस्थो जीवो विंशत्युत्तरशतबन्धप्रायोग्यकर्मप्रकृतीनां मध्यातीर्थकृत्कर्मा हारकद्वयाबन्धात्सप्तदशोत्तरशतबन्धकः, तथा द्वात्रिंशत्युत्तरशतोदयप्रायोग्यंकर्मप्रकृतीनां मध्यात् मिश्रसम्यक्वाहारकद्विकतीर्थकृत्कर्मेतिपञ्चप्रकृतीनामनुदयात्सप्तदशोत्तरशतवेदिता, अष्टचत्वारिंशदधिकशतसत्ताको भवति ॥ ९ ॥ इति १ मनुष्यादिकः । प्र० । २ नष्टचैतन्यत्वात् । प्र० । ३ सम्पत्ते । प्र० । * मिथ्यात्वमन्यानां तदनाद्यनन्तं मुणितव्यम् । भव्यानां त्वनादिसपर्यवसितं मिथ्यात्वम् ॥ १ ॥ Jain Education International For Private & Personal Use Only २०४४४४४ ६६ वृत्तिः ॥ ६ ॥ www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy