SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ प्रथमं गुणस्थानम् ॥ १ ॥ अथ द्वितीयं-सास्वादनगुणस्थानमूलकारणभूतीपशमिकसम्यक्त्वस्वरूपमाह अनादिकालसंभूत-मिथ्याकर्मोपशान्तितः। स्यादौपशमिकं नाम, जीवे सम्यक्त्वमादितः॥१०॥ व्याख्या-'जीवे' भव्यंजीवविषये 'अनादिकालसंभूतमिथ्याकर्मोपशान्तितोऽनादिकालोद्भवमिथ्यात्वकर्मोपशमादादितो | ग्रन्थिभेदकरणकालादौपशमिकं नाम सम्यक्त्वं स्यादिति सामान्योऽर्थः, विशेषार्थस्त्वयम्-औपशमिकं सम्यक्त्वं द्विधा, एकमन्त| रकरणौपशमिकं, द्वितीय स्वश्रेणिगतोपशमिर्क, तत्रापूर्वकरणेनैव कृतग्रन्थिभेदस्याकृतत्रिपुन्जीकरणस्य-मिथ्यात्वकर्मपुद्गलराशेरेवाविहिताशुद्धा शुद्धशुद्धमिथ्यात्वमिश्रसम्यवस्वरूपत्रिपुन्जस्योदीर्णे मिथ्यात्वे क्षीणेऽनुदीर्णे चाप्राप्तस्य इति, अन्तरकरणान्तर्मुहूर्तकालं यावत्सर्वमिथ्यात्वावेदकस्य, अन्तरकरणौपशमिकसम्यक्त्वमेकवारमेव भवति, तथोपशमश्रेणिमपन्नस्य मिथ्यात्वानन्तानुबन्धिनामुपशमे सति स्वश्रेणिगतोपशमसम्यक्तूवं भवति, तथा चोच्यते-*अकयतिपुंजो ऊसर-ईलियदवदडरुक्खनाएहिं । अन्तरकरणुवसमिओ, उपसमिओ वा ससेणिगओ॥१॥ तदेतद् विभेदमप्यौपशमिकसम्यक्त्वं सास्वादनोत्पत्तिमूलकारणमिति ॥ १०॥ अथ सास्वादनस्वरूपं पद्यद्वयेनाह एकस्मिन्नुदिते मध्या-च्छान्तानन्तानुवन्धिनाम् । आद्योपशमिकसम्यक्त्व-शैलमोलेः परिal १ प्रत्यन्तरे मूलेति नास्ति । २ भव्येति नास्ति ।प्र० । ३ सर्वथा । प्र० । * अकृतत्रिपुञ्ज ऊपरेलिकादवदग्धवृक्षज्ञातैः । अन्तरकरणौपशमिक 1 औपशमिको वा स्वश्रेणिगतः । १। Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy