________________
来来来来来来来来来术
मोहो येन स तथा तं गुणस्थानकमारोहतमोई, अपकश्रेण्यारोहक्रमेणैव मोहो इन्यते, यदा वाचकमुख्यः-"पूर्व करोत्यनन्ताअनुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं, क्षपयति सम्यकसमिथ्यात्वम् ॥ १॥ सम्यक्त्वमोहनीय, क्षपयत्यष्टावतः
कषायांश्च । क्षपयति ततो नपुंसक-वेदं स्त्रीमेदमय तस्मात् ॥२॥ हास्यादि ततः पदक, क्षपयति तस्माच्च पुरुषवेदमपि । संज्वलनानपि हत्वा, प्राप्नोत्यय वीतरागत्वम् ॥३॥" आह-ननु हतमोहमित्यत्रोक्तं, न होकस्यैव मोहस्य घोतेन जिनेश्वरत्वमुपपद्यते, किन्तु ज्ञानावरणदर्शनावरणान्तरायाणामपि घाते जिनेश्वरत्वं स्यात् तत्कथमिति, अत्रोच्यते-अष्टस्वपि कर्मसु | मोहस्यैव प्राधान्यं, यतः -"अखाण रसणी कम्माण मोहणी तह वयाण बंभवयं । गुत्तीण य मणगुची, चउरो दुक्खेण जिप्पंति | मोहे इते शेषकर्माणि सुखइतान्येव, यदागमः-"जह मत्थयसूईए, हयाए हम्मए तलो । तह कम्माणि इम्मंति, मोहणिजे
खयं गए ॥१॥" ततो मोइयाते शेषघातिना घातोऽवश्यंभाव्येवेति न दोषः ॥२॥ अथ चतुर्दशसंख्यानां गुणस्थानकानां नार्मान्येव 'श्लोकचतुष्टयेनाह
चतुर्दशगुणश्रेणि-स्थानकानि तदादिमम्। मिथ्यात्वाख्यं द्वितीयं तु, स्थानं सास्वादनाभिधम् ॥२॥ तृतीयं मिश्रकं तुर्य, सम्यग्दर्शनमव्रतम् । श्राद्धवं पञ्चमं षष्ठं, प्रमत्तश्रमणाभिधम् ॥३॥
१ घाते प्र। * अक्षणां रसना कर्मणां मोहनीयं व्रतानां तथा ब्रह्मव्रतम् । गुप्तीनां च मनोगुप्तिः चत्वारि दुःखेन जीयन्ते ॥१॥ x यथा मस्तकसूच्या हतायां हन्यते तालः। तथा कर्माणि हन्यन्ते, मोहनीये क्षयं गते ॥ १॥ २ नामानि प्र० ।
Jain Education Intematon
ForPrivate sPersonal use Only
www.jainelibrary.org