SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ सप्तमं स्वप्रमत्तं चा-पूर्वात्करणमष्टमम् । नवमं चानिवृत्त्याख्य, दशमं सूक्ष्मलोभकम् ॥ ४ ॥ एकादशं शान्तमोह, द्वादशं क्षीणमोहकम्। त्रयोदशं सयोग्याख्यमयोग्याख्यं चतुर्दशम् ॥५॥ चतुर्भिः कुलकम् । व्याख्या-इह हि भव्यजीवानां सिद्धिसौधाधिरोहणार्थ गुणश्रेणिरिव निःश्रेणिस्तस्यां च पदन्यासास्पदस्थानीयानि यानि गुणाद्गुणान्तरप्राप्तिरूपाणि स्थानानि-विश्रामधामानि चतुर्दशसंख्यानि, तेषां नामानि यथा-प्रथम मिथ्यात्वगुणस्थानकं १, | द्वितीयं सास्वादनगुणस्थानकं २, तृतीयं मिश्रगुणस्थानकं ३, चतुर्थमविरतसम्यग्दृष्टिगुणस्थानकं ४, पञ्चमं देशविरतिगुणस्थानकं ५, | पष्ठ प्रयत्तसंयतगुणस्थानकं ६, सप्तममप्रमत्तसंयतगुणस्थानकं ७, अष्टमं निवृत्तिबादर (अपूर्वकरण ) गुणस्थानक ८, नवमं अनि-10 वृत्तिवादरगुणस्थानकं ९, दशमं सूक्ष्मसंपरायगुणस्थानकं १०, एकादशमुपशान्तमोहगणस्थानकं ११, द्वादशं क्षीणमोहगुणस्थानकं १२, त्रयोदशं सयोगिकेवलिगुणस्थानकं १३, चतुर्दशमयोगिकेवलिगुणस्थानक १४ मिति २-३-४-५॥अथ प्रथमं व्यक्ताव्यक्तमिथ्यात्वस्वरूपमाह-- अदेवासुर्वधर्मेषु, या देवगुरुधर्मधीः । तन्मिथ्यात्वं भवेश्यक्त-मव्यक्तं मोहलक्षणम् ॥ ६ ॥ व्याख्या-या स्पश्चैतन्यानां संज्ञिपञ्चेन्द्रियादिजीवानामदेवाणुर्वधर्मेषु क्रमेण देवगुरुधर्मबुद्धिः संपद्यते, तद्वयक्तं मिथ्यात्वं || ॥ 3 ॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy