________________
॥श्रीजिनाय नमः॥
पोका-१
॥अथ श्रीगुणस्थानक्रमारोहवृत्ति: प्रारभ्यते॥
(कर्ता श्रीरबशेखरभिः)
अर्हपदं हृदि ध्याखा, गुणस्थानविचारिणाम् । अनुष्टुभामियं वृत्ति-लिख्यते भवणिवत् ॥ १॥ तत्रादौ मालार्थमभीहुदैवतनमस्कारसम्बन्धाविर्भावकमाद्यपद्यमाह
गुणस्थानक्रमारोह-हतमोहं जिनेश्वरम् । नमस्कृत्य गुणस्थान-स्वरूपं किञ्चिदुच्यते॥१॥
व्याख्या-यत्र यत्र पूर्वाप्राप्तगुणविशेषाविर्भावो भवति तत्तद्गणस्थानमित्युच्यते, तानि गुणस्थानानि, तेषां स्वरूपं, किश्चिद्-अल्पमात्रमुच्यत इति सम्बन्धः किं कृत्वा ? 'नमस्कृत्य प्रणिपत्य जिनेश्वरं' श्रीसर्वज्ञ, कथंभूतं ? 'गुणस्थानक्रमारोहहतमोहं' गुणस्थानानां क्रमो गुणस्थानक्रमः, गुणस्थानक्रमेणारोहणे गुणस्थानकमारोहः, गुणस्थानक्रमारोहेण-क्षपकश्रेण्यारोहॅलक्षणेन हतो
१ देवता प्र०। २ नमस्कारस्य प्र.। ३ आरोहणं प्र.। ४ रोहणेन प्र.।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org