SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ गुण ॥४७॥ पृथक्तववर्जितं, 'अविचारं' विचाररहितं, 'सवितर्कगुणान्वितं' वितर्कमात्रगुणोपेतं, द्वितीयं शुध्यानं ध्यायतीत्यर्थः ॥ अथापृथक्त्वमेव व्यक्तमाह निजात्मद्रव्यमेकं वा, पर्यायमथवा गुणम् । निश्चलं चिन्त्यते यत्र, तदेकत्वं विदुर्बुधाः ॥७६॥ व्याख्या-'बुधा' ज्ञाततधाः तदेकत्वम् ' अपृथक्तं 'विदुः' अवधारयन्ति स्म कथयन्ति स्म, तकि?-ध्यायकेन | यन्निनात्मद्रव्यं 'एक' केवलं स्वकीयविशुद्धपरमात्मद्रव्यं, 'या' अथवा तस्यैव परमात्मद्रव्यस्य एक केवलं पर्यायं, वा' अथा एकमद्वितीयं गुणं वा, तदत्र गुणपर्यायविशेषः पूर्वोक्त एव, एतदेवविधमेकं द्रव्यमेकं गुणं वा एक पर्यायं वा, निश्चलं' चलनवर्जितं यत्र ध्यायते तदेकत्वमिति ॥ ७६ ॥ अथाविचारत्वमाह___ यठ्यजनार्थयोगेषु, परावर्तविवर्जितम् । चिन्तनं तदविचारं, स्मृतं सद्ध्यानकोविदैः ॥ ७७ ॥ व्याख्या-सम्मति सद्ध्यानकोविदत्वं शास्त्राम्नायविशेषादेवास्ति, न त्वनुभवात् , यदाहुः श्रीहेमचन्द्रमूरिपादाः-अनविच्छिच्याऽऽनायः, समागतोऽस्येति कीर्त्यतेऽस्माभिः । दुष्करमप्याधुनिकः, शुक्लध्यानं यथाशास्त्रम् ॥ १॥ तैः सद्धथानकोविदःशास्त्राम्नायावगतशुक्लव्यानरहस्यैस्तद् 'अविचारं' अविचारविशेषणोपेतं द्वितीयं शुक्लं स्मृतं प्रज्ञतं, तकि ?-यत्पूर्वोक्तस्वरूपेषु 'व्यजनार्थयोगेषु ' शब्दाभिधेययोगरूपेषु 'परावविवर्जितं' शब्दाच्छब्दान्तरमित्यादिसंक्रमेण रहितं चिन्तनं श्रुतानुसारादेव १ नेदं प्र०२ व्यद्रव्य० प्र० ३ शब्दार्थ० ६० ॥४७॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy