________________
धर्मध्यानं भवत्यत्र, मुख्यवृत्या जिनोदितम् । रूपातीततया शुक्लमपि स्यादंशमात्रतः॥ ३५ ॥
व्याख्या-'जिनोदितं ' जिनप्रणीतं 'धर्मध्यानं ' मैश्यादिभेदभिन्नमनेकविधं, यदाह-मैश्यादिभिश्चतुर्भेद, यदाऽऽशादिचतुर्विधम् । पिण्डस्थोदि चतुर्धा वा, धर्मध्यानं प्रकीर्तितम् ॥१॥ तत्र-मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि नियोजयेत् । धर्मध्या| नमुपस्कर्त्त, तद्धि तस्य रसायनम् ॥३॥ आज्ञापायविपाकानां, संस्थानत्य च चिन्तनात् । इत्थं वा ध्येयभेदेन, धर्मध्यानं प्रकीर्तितम्
॥३॥ इति पूर्वमेव प्रदर्शितं-स्यात्पिण्डस्थं ध्यानमात्मागसजि, स्वान्तं स्वान्तव्यापरूपं पदस्थम् । रूपस्थं संकल्पितात्मस्वरूपं, रूपातीतं कल्पनामुक्तमेव ॥ १॥ तदेवंविधं जिनोदितं धर्मध्यानं 'अत्र' अप्रमत्तगुणस्थाने 'मुख्यवृत्त्या' प्रधानतया भवति, तथा रूपातीततया कृत्वा 'शुक्लमपि' शुक्लध्यानमपि · अंशमात्रतः । अत्र गौणतया स्यादेवेति ॥ ३५ ॥ अथावश्यकानामभावेऽपि शुदिमाहइत्येतस्मिन् गुणस्थाने, नोसन्त्यावश्यकानिषट् । संततध्यानसद्योगाच्छुद्धिः स्वाभाविकी यतः॥३६॥
व्याख्या-'इतीति' पूर्वोक्तस्वरूपे 'एतस्मिन् ' अप्रमत्तगुणस्थाने 'आवश्यकानि' सामायिकादीनि पटपि'नो सन्ति' न विद्यन्ते, कोऽर्थः ? सामायिकादीनां षण्णामप्यावश्यकानां व्यवहारक्रियारूपाणामत्र गुणस्थाने निवृत्तिः, तेषां यात्मगुण
१ सर्वज्ञपणीतं प्र. २ रूपस्थादि प्र. ३ प्रदर्शितमेव प्र. ४ वाणी० प्र. ५ अत्रा० • ६ मता प्र.
॥२७॥
Jain Educaton International
For Private & Personel Use Only
www.jainelibrary.org