SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ गुण द्वितीयानां कषायाणामुदयाद्रतवर्जितम् । सम्यक्त्वं केवलं यत्र, तच्चतुर्थं गुणास्पदम् ॥१९॥ व्याख्या-'द्वितीयानां कषायाणां' अपत्याख्यानसंज्ञितानां क्रोधादीनामुदयाद्, 'व्रतवर्जितं' विरतिरहितं, अत एव 'केवलं' सम्यक्त्वमात्र, यत्र भवति, 'तञ्चतुर्थ गुणास्पद' अविरतसम्यग्दृष्टिनामकं गुणस्थानकं भवति, अयमर्थः-यथा कश्चित्पुरुषो न्यायोपपनधनभोगविलासमुखसौन्दर्यशालिकुलसमुत्पन्नोऽपि दुरन्तवृतादिव्यसनांचीणानेकान्यायोत्पादितापराधलब्धराजदण्डखण्डिताति(भि)मानश्चण्डदण्डपाशिकैर्विडम्ब्यमानः स्वकं व्यसनजनितं कुत्सितं कर्म विरूपं जानन् स्वकुलसुखसौन्दर्यसंपदमभिलषन्नप्यारक्षकाणां सकाशादच्छ्वसितुमपि न शक्नोति; तथाऽयं जीवोऽविरतत्वं कुत्सितकर्मकल्पं जानन् विरतिमुखसौन्दर्यमभिलपन्नपि आरक्षककल्पद्वितीयकषायाणां सकाशाद् व्रतोत्साहमपि कर्तुं न शक्नोति, अविरतसम्यग्दृष्टित्वमनुभवतीत्यर्थः ॥ १९ ॥ अथ चतुर्थगुणस्थानकस्थितिमाहउत्कृष्टाऽस्य त्रयस्त्रिंश-त्सागरा साधिका स्थितिः । तदर्द्धपुद्गलावर्त्त-भवैभव्यैरवाप्यते ॥२०॥ व्याख्या--'अस्य' अविरतसम्यग्दृष्टिगुणस्थानकस्योत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमप्रमाणा सातिरेका भवति, सा च सर्वार्थसिद्धयादिविमानस्थितिरूपा मनुष्यायुरधिका ज्ञेया, तथैतत्सम्यक्त्वमर्द्धपुद्गलपरावर्तशेषभवैरेवावाप्यते, नान्यैरिति प्रतीतमेव॥२०॥ अथ सम्यग्दृष्टिलक्षणान्याह१ सेवना० प्र० Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy