SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ देशविरतिरधिकाधिका स्यात्तथा तथा मध्यमं यावदधिकाधिकं भवति, नतृत्कृष्ट धर्मध्यानं स्यादित्यर्थः, यदि पुनस्तत्राप्युत्कृष्टं धर्म| ध्यानं परिणमति, तदा भावतः सर्वविरतिरेव संजायते, कथंभूतं धर्मध्यान ? 'पट्कर्मपतिमाश्राडव्रतपालनसंभवं' पट्कर्माणि ३) देवपूजादीनि, यदुच्यते-देवपूजा गुरूपास्तिः, स्वाध्यायः संयमस्तपः। दानं चेति गृहस्थानां, षद् कर्माणि दिने दिने ॥१॥ प्रतिमा अभिग्रहविशेषा दर्शनप्रतिमाद्या एकादश, यदाह-दसणवयंसामाइपोसहपडिमा अभसञ्चित्ते । आरंभपेसे उद्दिष्ट वज्जए | समणभूए अ॥१॥ श्राव्रतान्यणुव्रतादीनि द्वादश, यदाह-पाणिवहसुसावाएं, अदत्तमेहुणपरिग्गहें चेव । दिसिभोगदंडेसमई देसे पोसह तह विभागे ॥१॥ षदकर्मादिविस्तरो ग्रन्थान्तरादवसेयः, तथैतेषां पालनात्संभवतीति षट्कर्मप्रतिमाश्राद्धव्रतपालनसंभवं धर्मध्यानं मध्यममिति । तथा देशविरतिगुणस्थानस्थो जीवोऽप्रत्याख्यानकषायचतुष्कनरत्रिकाधसंहननौदारिकद्वयरूपप्रकृतिदशकबन्धव्यवच्छेदात्सप्तषष्टेबन्धकः, तथाऽप्रत्याख्यानकषायनरतिर्यगानुपूर्वीद्वयनरकत्रिकदेवत्रिक क्रियद्वयदुर्भगानादेयायशोरूपसप्तदशप्रकृतीनामुदयव्यवच्छेदात्सप्ताशीतेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताको भवति ॥ २५ ॥ इति देशविरतिगुणस्थानक पश्चमम् ।। अथातः परं सप्तगुणस्थानानां समानामेव स्थितिमाह-- अतः परं प्रमत्तादिगुणस्थानकसप्तके । अन्तर्मुहर्तमेकैकं, प्रत्येकं गदिता स्थितिः ॥२६॥ 1 दर्शनवतसामायिकपोषधप्रतिमाऽब्रह्मसञ्चित्तानि । आरम्भप्रेपोद्दिष्टवर्नकः श्रमणभूतश्च ॥ १ ॥ * प्राणिवधमषावादादत्तमैथुनपरिग्रहाश्चैव । दिग्भोगदण्डसामायिकदेशपोषधानि तथा विभागः ॥ १॥ १ द्विक० प्र० ॥१९॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy