________________
गुण०
॥ ९ ॥
HEHEHEHEH
बन्धव्यवच्छेदादेकोत्तरशतबन्धकः, तथा सूक्ष्मत्रिकातपमिथ्यात्वोदयव्यवच्छेद नरकानुपूर्व्यनुदयाच्चैकादशोत्तरशतवेदयिता, तथा तार्थ - त्सत्तासंभवात्सप्तचत्वारिंशदधिक (शत) सत्ताको भवति ॥ १२ ॥ इति द्वितीयं गुणस्थानकम् । अथ तृतीयं मिश्रगुणस्थानकमाहमिश्रकर्मोदयाज्जीवे, सम्यग्मिथ्यात्वमिश्रितः। यो भावोऽन्तर्मुहूर्त्तं स्या- तन्मिश्रस्थानमुच्यते ॥१३॥
व्याख्या - दर्शनमोहनीय (द्वितीय) प्रकृतिरूपमिश्रकर्मोदयात् ' जीवे ' जीवविषये यः समकालं समरूपतया सम्यत्वे मिथ्यात्वे च मिलितो मिश्रितो भावोऽन्तर्मुहूर्त्त यावद्भवेत्, तन्मिश्रगुणस्थानमुच्यते, यस्तु सम्यक्त्वमिथ्यात्वयोरेकतरे (तरस्मिन्) भावे वर्त्तते स ( न ) मिश्रगुणस्थानस्थाने भवति, यतोऽत्र मिश्रत्वमुभयभावयोरेकत्वरूपं जात्यन्तरमेव ॥ १३ ॥ अत्रोभयभावयोरेकत्वे जात्यन्तरसमुद्भूतं दृष्टान्तां श्लोकद्वयेनाह—
जात्यन्तरसमुद्भूति-र्वडवाखरयोर्यथा । गुडदनोः समायोगे, रसभेदान्तरं यथा ॥ १४ ॥ तथा धर्मद्वये श्रद्धा, जायते समबुद्धितः । मिश्रोऽसौ भण्यते तस्मा - द्वावो जात्यन्तरात्मकः ॥ १५ ॥ व्याख्या—'यथा' येन प्रकारेण वडवाखरयोः समायोगे नाश्वो जायते, न रासभः, किंतु वेसररूपा जात्यन्तरसमुद्भूतिर्भवति; तथ गुडदनोः समायोगे न गुडरसो व्यक्तो भवति, न च दधिरसः, किंतु शिखरिणीरूपा रसभेदान्तरसमुद्भूतिर्भवति, १ तीर्थकृत्कर्मसत्ता ( प्र० ). २ स्थानस्थो । प्र० । ३ अथो० । प्र० । ४ यथा । प्र० ।
Jain Education International
For Private & Personal Use Only
XK••XK• *>€•XX
वृत्तिः
॥९॥
www.jainelibrary.org