Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 55
________________ गुण उपान्त्ये ' अन्त्यसमीपसमये निद्रापचलयोः 'नाशं करोति' क्षयं कुरुते ॥ ८० ॥ अथान्त्यसमये यत्करोति तदाहaal अन्त्ये दृष्टिचतुष्कं च, दशकं ज्ञानविघ्नयोः। क्षपयित्वा मुनिःक्षीणमोहः स्यात्केवलात्मकः॥८॥ व्याख्या-क्षपको मुनिः क्षीणमोहस्यान्त्ये समये 'दृष्टिचतुष्कं' चक्षुर्दर्शनादिदर्शनचतुष्कं ज्ञानान्तरायदशकं चेत्येताश्चतु1.४९॥ देश प्रकृतीः क्षपयित्वा क्षीणमोहांशः सन् केवलात्मकः स्यादिति । तथा क्षीणमोहगुणस्थानस्थो जीवो दर्शनचतुष्कज्ञानान्तरायदशकोच्चयशोरूपषोडशबन्धव्यवच्छेदादेकसातवेद्यबन्धकः, तथा संज्वलनलोभऋषभनाराचनाराचोदयव्यवच्छेदात्सप्तपश्चाशत्मकृतेर्वदयिता, लोभसत्ताक्षपकत्वादेकोत्तरशतसत्ताको भवति ॥८१॥ इति क्षपकस्य द्वादशम् ॥८१॥ अथ क्षीणमोहान्तप्रकृतीनां संख्यामाह एवं च क्षीणमोहान्ता, त्रिषष्टिप्रकृतिस्थितिः। पञ्चाशीतिजरद्वस्त्रप्रायाः शेषाः सयोगिनि ॥२॥ व्याख्या--'एवं पूर्वोक्तमकारेण त्रिषष्टिप्रकृतीनां स्थितिः क्षीणमोहान्तव, कोऽर्थः?-चतुर्थगुणस्थानादारभ्य क्षीयमाणानां प्रकृतीनां त्रिपष्टिः क्षीणमोहे संपूर्णा, यथैकस्याः प्रकृतेश्चतुर्थगुणस्थाने क्षयः, पुनरेकस्याः पंचमे, अष्टानां सप्तमे, पत्रिंशत्यकृतीनां नवमे, सप्तदशप्रकृतीनां द्वादशे क्षयः, इत्येवं त्रिषष्टिप्रकृतीनां क्षीणमोहान्तैव स्थितिरुक्ता, तथा शेषास्त्रिपष्टिव्यतिरिक्ताः पञ्चाशीतिप्रकृतयो ' जरद्वखमाया' अत्यर्थ जीर्णचीवरकल्पाः सयोगिगुणस्थाने भवन्ति ॥ ८३ ॥ अथ सयोगिनि यो भावो भवति, ये च सम्यक्त्वचारित्रे भवतस्तदाह १ ० गुणस्थान प्र० २ अत्यन्तजी० प्र० Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78