Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण०
॥६४॥
Hot H Ha Ho I fo H H H
धस्तिर्यगूर्ध्वं च लेष्टुवाय्वग्निवीचयः । स्वभावतः प्रवर्त्तन्ते तथोर्ध्वगतिरात्मनः ॥ १२२ ॥ चतुर्भिः कलापकम् ॥
व्याख्या- ' कुलालचक्रं ' कुम्भकारोपकरणं 'दोला ' प्रेङ्खा 'इपु: ' बाणस्तन्मुख्यानां यन्त्रगोफणमुकगोलकादीनां गतिः ' हि ' स्फुटं ' यथा ' येन प्रकारेण पूर्वप्रयोगतः 'सिद्धा' प्रसिद्धा ' तथा ' तेन प्रकारेण पूर्वप्रयोगतः सिद्धस्योर्ध्वगतिः सिद्धेत्येको दृष्टान्तः, तथा ' मृडेपसङ्गनिर्मोक्षात् ' मृत्तिकाम लेपसङ्गतिमुक्तेः ' अप्सु ' जलेषु ' अलावुनः ' तुम्बकफलस्य यथोदुर्ध्वगतिर्दृष्टा तथा कर्मलेपसङ्ग निर्मोक्षात्सिद्धानामूर्ध्वगतिः स्मृतेति द्वितीयहेतुदृष्टान्तः, तथा 'एरण्डफलबीजादेः' एरण्डफलबीजस्य, आदिशब्दाच्छणवीजादेर्बन्धच्छेदाद्यथोद्र्ध्वगतिर्भवेत्, कर्मबन्धनविच्छेदात्सिद्धस्यापि तथैवोर्ध्वगतिर्भवतीति तृतीयहेतुदृष्टान्तः, तथा ' लेष्टुंवाय्वग्निवीचयः ' इष्टकाखण्डसमीरणवनयः स्वभावत एव यथाऽधस्तिर्यगूर्ध्वं क्रमेण प्रवर्त्तन्ते, तथाऽऽत्मनोऽपि स्वभावादेवोदूर्ध्वगतिर्भवतीति चतुर्थहेतुदृष्टान्तः || १२०-१२३ ॥ अथाधस्तिर्यग्लोकेषु निष्कर्मात्मनो गतिनिषेधमाह
न चाधो गौरवाभावान्न तिर्यक् प्रेरकं विना । न च धर्मास्तिकायस्याभावालोकोपरि व्रजेत् ॥ १२४ ॥ व्याख्या—सिद्धात्माऽधस्तान्न गच्छति, कस्मात् ? - ' गौरवाभावात्, ' कर्मजनितगुरुत्वाभावात्, तथा 'प्रेरकं विना ' प्रेरककर्माभावान तिर्यग् गच्छति, तथा निष्कर्मा लोकोपरि न व्रजेदलोकमध्ये न गच्छेत्, कस्मात् ? - धर्मास्तिकायस्याभावात्, १ इयेक
२ लो० प्र०
भावतः प्र०
Jain Education International
३
For Private & Personal Use Only
वृतिः
॥६४॥
www.jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78