Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण
॥६७॥
पर्यायश्चोपलक्षितानां ' अखिलतवानां' समस्तजीवाजीवादिपदार्थानां ते ज्ञातारी भवन्ति, विशेषापयोगतया परिच्छेदका भवन्ति, न केवलं ज्ञाताः, समयान्तरं 'एकहेलया सामान्योपयोगतया दृष्टारश्च भवन्ति ।। १२८॥ अथ सिद्धानां गुणाष्टकं सहेतुकं श्लोकत्रयेणाह
__अनन्तं केवलज्ञानं, ज्ञानावरणसंक्षयात् । अनन्तं दर्शनं चैव, दर्शनावरणक्षयात् ॥ १२९ ॥ । शुद्धसम्यक्त्वचारित्रे, क्षायिके मोहनिग्रहात् । अनन्ते सुखवीर्ये च, वेद्यविनक्षयात्क्रमात् ॥ १३० ॥
आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः । नामगोत्रक्षयादेवामू"नन्ताऽवगाहना ॥ १३१ ॥ त्रिभिर्विशेषकम्
व्याख्या-सिद्धानामनन्तं केवलज्ञानं भवति, कस्मात् ?-ज्ञानावरणसंक्षयात , अनन्तं दर्शनं चापि भवति, कस्मात् ?-दर्शनावरणक्षयात् , सिद्धानां शुद्धसम्यक्त्वचारित्रे भवतः, कथंभूते?-क्षायिके, कस्मात् ?-मोहनिग्रहात्, दर्शनमोहनीयचारित्रमोहनीययोः | क्षीणत्वात् , अनन्ते सुखवीर्ये च भवतः, कस्मात् ?-वेचविघ्नक्षयात, वेद्यक्षयानदन्तं सुखं, विघ्नक्षयादनन्तं वीर्यमित्यर्थः, सिद्धानामक्षया स्थितिर्भवति, कस्मात् ?-आयुषः क्षीणभावत्वात, मूतत्वेनानन्तानामवगाहो मूर्तानन्तावगाहना तस्या अभावोऽमूर्त्तानन्ताव
१ सिद्धा मुक्ता प्र०२ समयान्तं प्र. ३ चापि प्र. ४ क्षाथिके शुद्धसम्यक्त्वचारित्रे प्र. ५ गतिः प्र०
॥६॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78