Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 74
________________ गुण० ॥६८॥ गाना, सिद्धानामनन्तावगाहना भवति, कस्मात् ? - नामगोत्रक्षयादवति ॥ १२९ ॥ १३० ॥ १३१ ॥ अथ सिद्धानां यत्सौख्यं तदाह यत्सौख्यं चक्रिशक्रादिपदवी भोग संभवम् । ततोऽनन्तगुणं तेषां सिद्धावक्लेशमव्ययम् ॥ १३२ ॥ व्याख्या - चक्रिशक्रादिपदवी भोग संभवं यत्सौख्यमुत्कृष्टं वर्ण्यते ततोऽपि 'तेषां' सिद्धानामनन्तगुणं भवति, क ? - 'सिडौं' मुक्तौ कथंभूतं सौख्यं ? - 'अक्लेशं ' अविद्यास्मितरागद्वेषाभिनिवेशाः क्लेशाः, ते न विद्यन्ते यत्र तदक्लेशं पुनः कथम्भूतं ? -' अव्ययं ' न व्येति-न चलति स्वभावादिति अव्ययमक्षयमित्यर्थः ॥ १३२ ॥ अथ तैः सिद्धैर्भगवद्भिर्यत्प्राप्तं तत्सारमाहयदाराध्यं च यत्साध्यं, यद् ध्येयं यच्च दुर्लभम् । चिदानन्दमयं तत्तैः संप्राप्तं परमं पदम् ॥१३३॥ व्याख्या- 'तैः' सिद्धैर्भगवद्भिस्तत्परमं पदं प्राप्तं तत्किम् ? ' यदाराध्यं ' आराधकैर्यत्पदं समाराध्यते, तथा ' यत्साध्यं ' साधकः पुरुषैः सम्यग्ज्ञानदर्शन चारित्रादिभिः कृत्वा यत्साध्यते, तथा 'यद्धयेयं ध्यायकैर्योगिभिर्यत्सदैव नानाविधध्यानोपायैयते, तथा ' यच्च दुर्लभं यत्पदमभव्यानां सर्वथा दुर्लभं भव्यानामपि केषाञ्चिदप्राप्त सामग्रीविशेषाणां सर्वथा दुर्लभं, दूरभन्यानां तुटलभ्यमित्येवं यद् दुर्लभं तदपि तैर्धन्यैर्भगवद्भिः सिद्धैर्लब्धमिति कथम्भूतं तत्परमं पदं ? - 'चिदानन्दमयं चिद्रूपपरमानन्दमयमिति ॥ १३३ ॥ अथ मुक्तेः स्वरूपं बृहद्वेतेनाह १ सदा प्र० २ हन्नाह प्र Jain Education International For Private & Personal Use Only 733883 3 3 78309838836 ब्रुतिः ॥६८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78