Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 75
________________ नात्यन्ताभावरूपा न च जडिममयी व्योमवठ्यापिनी नो, न व्यावृत्तिं दधाना विषयसुखघना । में नेष्यते सर्वविद्भिः । सद्रूपात्मप्रसादाद् दृगवगमगुणोघेन संसारसारा, निःसीमाऽत्यक्षसौख्योदयवस| तिरनिःपातिनी मुक्तिरुक्ता ॥ १३४ ॥ | व्याख्या-मुक्तिः कैश्चिदत्यन्ताभावरूपा मन्यते, अन्य डिममयी-ज्ञानाभावमयी मन्यते, अपरैव्योमवद्वयापिनी मन्यते, एकैात्ति-पुनराति दधाना मन्यते, अपरैः क्लिष्टकर्मभिर्विषयसुखघना-विषयसुखमयी मुक्तिरुच्यते, सर्वविद्भिस्तु श्रीसर्वज्ञैरभावरूपा | जडिममयी व्योमवव्यापिनी व्यावृत्तिरूपा विषयसुखमयी वा मुक्तिर्नेष्यते, किंतु 'सपात्मप्रसादात्' विद्यमानचिद्रूपात्मप्रसत्तितो 'हगवगमगुणोघेन' सम्यग्दर्शनज्ञानगुणसमूहेन कृत्वाऽसारभूतसंसारात्सारभूता, 'निस्सीमात्यक्षसौख्योदयवसतिः' अनन्तातीन्द्रियानन्दानुभवस्थानं, 'अनिःपातिनी' निपातरहिता 'मुक्तिः' सिद्धिः'उक्ता' गदितेति ॥ १३४ ॥ अथ पूर्वपिरचितबहुशास्त्रेभ्यो गुणस्थानार्थसंगतश्लोकसंग्रहेण प्रकरणोद्धारमाह इत्युध्धृतो गुणस्थानरत्नराशिः श्रुतार्णवात् । पूर्वर्षिसूक्तिनावैव, रत्नशेखरसूरिभिः ॥ १३५॥ व्याख्या-' इति ' पूर्वोक्तमकारेण'उध्धृतः' प्रकटीकृतः कर्मतापन्नो 'गुणस्थानरत्नराशिः ' गुणस्थानान्येव रत्नानि गुण१ नेक्ष्यते प. Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78