Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 59
________________ ॥५ ॥ चेदायुषः स्थितियूंना, सकाशाद्वेद्यकर्मणः । तदा तत्तुल्यतां कर्त, समुद्घातं करोत्यसौ ॥८९॥ Mara व्याख्या-'असौ केवली 'वेद' यदि 'वेद्यकर्मणः सकाशात्' वेदनीयकर्मसमीपाद् 'आयुषः स्थितिः' आयुःकर्मावस्थितिः न्यूना' स्तोका भवति तदा 'तत्तुल्यतां कर्तुं' आयुर्वेद्ययोस्तुल्यताकरणार्थ समुद्घातं करोति ॥ ८९ ॥ अथ तमेव समुद्घातमाहदण्डत्वं च कपाटवं, मन्थानत्वं च पूरणम् । कुरुते सर्वलोकस्य, चतुर्भिः समयैरसौ ॥१०॥ व्याख्या-प्रथमं समुद्घातस्वरूपमुच्यते-यथास्वभावस्थितानामात्मपदेशानां वेदनादिभिः सप्तभिः कारणैः समन्तादु| घातनं-स्वभावादन्यभावेन परिणमनं समुद्घातः, स च सप्तधा-वेदनासमुद्घातः, कषायसमुद्घातः, मरणसमुद्घातः, वैक्रियस- | | मुद्घातः, तैजससमुद्घातः, आहारकसमुद्घातः, केवलिसमुद्यातश्च, यदाह-वेयण कसाय मरणे, वेउवित्र ते आहार केवलिओ' इत्येतेषु सप्तमु समुद्घातेष्वन्त्यः केवलिसमुद्घातः, तदर्थमसौ केवली आयुर्वेद्ययोः समीकरणार्थमात्मप्रदेशैरूवा॑धो लोकान्तं यावत्प्रसारितैरेकस्मिन् समये 'दण्डत्वं' दण्डाकारत्वं कुरुते, द्वितीये समये पूर्वापरयोर्दिशोविस्तृतैरात्मप्रदेशैरेव कपाटाकारत्वं कुरुते, तृतीये समये दक्षिणोत्तरयोर्दिशोरप्यात्मपदेशैः कपाटाकारविस्तृतर्मन्थानत्वं-मन्यानाकारत्वं कुरुते, चतुर्थे समयेऽन्तरालपूरणेन 'सर्वलोकस्य' चतुर्दशरज्ज्वात्मकलोकस्य पूरणं कुरुते, एवं केवली समुद्घातं कुर्वन् चतुर्भिः समयविश्वव्यापी भवति ॥१०॥ $ वेदनाकषायमरणवैक्रियतैजसाहारककैवलिकाः १ तेअहारकेवलिआ प्र. Folu५॥ Jan Education Intematon For Private Personal use only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78