Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वपुषोऽत्रातिसूक्ष्मत्वाच्छीघंभाविक्षयवतः। कायकार्यासमर्थत्वात्, सति कायेऽप्ययोगता ॥१०७॥ नि: तच्छरोराश्रयाख्यानमस्तीति न विरुध्यते। निजशुद्धात्मचिद्रूपनिर्भरानन्दशालिनः॥१०८॥ युग्मम् ।
व्याख्या-आचार्य आह-भोः शिष्य ! 'अत्र' अयोगिगुणस्थाने काये मूक्ष्मे वपुर्योगे सत्यप्ययोगता पोच्यते, कस्मात् ? 'वपुषा' कायस्यातिसूक्ष्मत्वात्-सूक्ष्मक्रियारूपत्वादिति, तथा 'शीघंभाविक्षयत्वतः' क्षयस्य भावः क्षयत्वं, शीघ्रं भाविक्षयत्वं यस्य तच्छीघंभाविक्षयत्वं तस्मात् , तथा ' कायकार्यासमर्थत्वाद् ' देहकृत्यसाधनाक्षमत्वात् काये सत्यप्ययोगता भवतीति, स्था छ। ' तच्छरीराश्रयात् ' तादृग्देहास्तित्वाश्रयणात् ध्यानमस्तीति ' न विरुध्यते । न विरोधमानोति, कस्य ? अयोगिगुणस्थानवर्तिनो भगवतः परमेष्ठिनः, कथंभूतस्य ? 'निजशुद्धात्मचिपनिर्भरानन्दशालिनः' स्वकीयनिर्मलपरमात्मचिद्रूपतन्मयत्वोत्पन्ननिर्भरपरमानन्दविराजमानस्येति ॥ १०८ ॥ अथ ध्यानस्य निश्चयव्यवहारवमाह
आत्मानमात्मनाऽऽत्मैव, ध्याता ध्यायति तत्त्वतः। उपचारस्तदन्यो हि, व्यवहारनयाश्रितः॥१०९॥
व्याख्या-'तत्वतो' निश्चयनयादात्मैव ध्याता 'आत्मनैव' करणभूतेन कृत्वा आत्मानमेव कर्मतापन्नं ध्यायति, 'हि' * स्फुटं ' तदन्यो ' यः कश्चिदुपचारोऽष्टाङ्गयोगप्रवृत्तिलक्षणः स सकलोऽपि व्यवहारनयाश्रितो ज्ञेयः ॥ १०९ ॥ अथायोगिन एवोपा
न्त्यसमयकृत्ययाह
Jan Education Intematon
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78