Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्राजोपासोमादिछिद्राण जीव एका
समये यत्करोति तदाह
अस्यान्त्येऽङ्गोदयच्छेदात्, स्वप्रदेशघनत्वतः। करोत्यन्त्याङ्गसंस्थानत्रिभागोनावगाहनम् ॥१०॥
व्याख्या-'अस्य ' सयोगिकेवलिगुणस्थानस्य 'अन्त्ये ' अन्त्यसमये औदारिकद्विकमस्थिरंदिकं विहायोगतिद्विकं प्रत्ये कत्रिकं संस्थानषट्कं अगुरुलघुचतुष्कं वर्णादिचतुष्कं निर्माणकर्म तैजसकार्मणद्वयं प्रथम संहननं स्वरद्विकमेकतरं वेदनीयं चेति त्रिंशत्यकृतीनामुदयव्यवच्छेदो भवति, ततोऽत्राङ्गोपाङ्गोदयव्यवच्छेझदन्त्याङ्गसंस्थानावगाहनायाः सफाशानिमागोनावगाहनां करोति, । कस्मात् ? ' स्वप्रदेशघनत्वतः' चरमाङ्गोपाङ्गगतनासिकादिच्छिद्राणां पूरणेन स्वप्रदेशानाम्-आत्मप्रदेशानां घनत्वं-निविडत्वं भवति | तस्मात्स्वप्रदेशघनत्वतस्त्रिभागोनत्वं भवतीति । सयोगिगुणस्थानस्थो जीव एकविधबन्धक उपान्त्यसमयं यावत् , ज्ञानान्तरायदर्शनचतुष्कोदयव्यवच्छेदाद् द्विचत्वारिंशत्प्रकृतिवेदयिता, निद्राप्रचलाज्ञानान्तरायदर्शनचतुष्करूपपोडशप्रकृतीनां सत्ताव्यवच्छेदात्पश्चाशीतिसत्ताका भवति ॥ १०२ ॥ इति सयोगिगुणस्थानम् १३ अथायोगिगुणस्थानस्य स्थितिमाह
अथायोगिगुणस्थाने, तिष्ठतोऽस्य जिनेशितुः । लघुपञ्चाक्षरोच्चारप्रमितैव स्थितिर्भवेत् ॥१०३॥
व्याख्या-'अथ' त्रयोदशगुणस्थानानन्तरं 'अयोगिगुणस्थानके ' चतुर्दशे 'अस्य जिनेशितः ' जिनेन्द्रस्य ‘तिष्ठतः' / अवस्थितस्य 'लघुपश्चाक्षरोच्चारप्रमितेव' 'अइउऋल' वर्णपश्चकसमुच्चरणकालतुल्यैव स्थितिर्भवति ॥ १०३ ॥ अथायोगिगुणस्थाने ध्यानसंभवमाह
॥५८॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78