Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 60
________________ गुण ॥५४॥ sal अथ ततो निवृत्तिमाह एवमात्मप्रदेशानां, प्रसारणविधानतः । कर्मलेशान् समीकृत्योत्क्रमात्तस्मान्निवर्त्तते ॥ ९१ ॥ | व्याख्या-एवं' अमुना पूर्वोक्तमकारेण केवली स्वात्मप्रदेशानां 'प्रसारणविधानतो' विस्तारणप्रयोगात् कर्मलेशान् समीकृत्य 'तस्माद् । समुद्घाताद् 'उत्क्रमाद्' विपरीतक्रमानिवर्त्तते, अयमर्थः-चतुभिः समयैर्जगत्पूरणं कृत्वा पञ्चमे समये | पूरणानिवर्तते, षष्ठे समये मन्धानत्वं निवर्त्तयति, सप्तमे समये कपाटत्वमुपसंहरति, अष्टमे समये दण्डत्वमुपसंहरन् स्वभावस्थो | भवति, यदाह वाचकमुख्या-दण्डं प्रथमे समये, कपाटमय चोत्तरे तथा समये । मन्थानमथ तृतीये, लोकव्यापी चतुर्थे तु ॥१॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् ॥२॥९१ ॥ अथ केवली समुद्घातं कुर्वन् यथा योगवान् आहारकश्च भवति तथा श्लोकद्वयेनाह समुद्घातस्य तस्याये, चाष्टमे समये मुनिः। औदारिकाङ्गयोगः स्याद, द्विषट्सप्तमकेषु तु॥९२॥ मिश्रौदारिकयोगी च(स्यात्), तृतीयायेषुतु त्रिषु। समयेष्वेककर्माङ्गधरोऽनाहारकश्च सः।९३युग्मम्। व्याख्या-'स' केवली समुद्घातं कुर्वन् 'आये' प्रथमेऽन्ये चेति समयद्वये 'औदारिकाङ्गयोगः स्यात्' औदारिकशरीरयोगवान् भवति, द्वितीयषष्ठसप्तमकेषु समयेषु तु पुनः स केवली समुद्घातं कुर्वन् ‘मिश्रौदारिकयोगी च' (स्यात्) मिश्रौदा १ जगतः प्र० २ यदाहु चकमुख्याः प्र० ३ अनाहारकश्च प्र० Jain Education International For Private 8 Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78