Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण०
॥५२॥
४६६६६६६६६६६६६•
चमं ' सकलशासनप्रवरं ' तीर्थ ' शासनं ' प्रवर्त्तयन् ' प्रकटयन् ' चिरं' देशोनां पूर्वकोटिं यावदुत्कृष्टतो विजयते ॥ ८६ ॥ अथ तत्तीर्थत्कर्म यथा वेद्यते तदाह
वेद्य तीर्थकृत्कर्म, तेन सदेशनादिभिः । भूतले भव्यजीवानां प्रतिबोधादि कुर्वता ॥ ८७ ॥ व्याख्या—' तेन ' तीर्थकृता तत्कर्म ' वेद्यते ' अनुभूयते किं कुर्वता ? ' भूतले ' पृथ्वीमण्डले भव्यजीवानां प्रतिबोधादि कुर्वता, आदिशब्दाद्देशविरति सर्वविरत्यारोपादि विदधता, काभिः ? ' सद्देशनादिभिः ' तत्रोपदेशादिभिः कृत्वा वेद्यते, यदुक्तं तं च कहं वेइज्जइ ?, अगिलाए धम्मदेसणाईहिं ॥ इति. ॥ ८७ ॥
अथ केवलिनां स्थितिमाह
उत्कर्षतोऽष्टवर्षोनं, पूर्वकोटिप्रमाणकम् । कालं यावन्महीपीठे, केवली विहरत्यलम् ॥ ८८ ॥ व्याख्या- ' केवली' केवलज्ञानवान् 'महीपीठे' पृथ्वीमण्डले उत्कर्षतोऽष्टवर्षोनं पूर्वकोटिप्रमाणं कालं यावत् 'अलं ' अत्यर्थ विहरति काञ्चनकमलेषु पदन्यासं कुर्वन् अष्टप्रातिहार्यविभूतिकलितः अनेकसुरासुरकोटिसंसेवितो विचरति, अयं च सामान्य केवलिविहारकालसंभवो दर्शितः, जिनास्तु मध्यमायुष एव भवन्ति ॥ ८८ ॥
अथ केवलसमुद्वातकरणमाह
* तच कथं वेद्यते ! अग्लान्या धर्मदेशनादिभिः
Jain Education International
१ बज्झइ तं तु भगवओ, तइयभत्रे सकइत्ताणं प्र०
For Private & Personal Use Only
HEH HEHE. HEHE. JEH HEHE. HERE JEH JEHE ICH H
वृत्तिः
|॥५२॥
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78