Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण
भावोऽत्रक्षायिकः शुद्धः, सम्यक्त्वं क्षायिकं परम्।क्षायिकं हि यथाख्यातचारित्रं तस्य निश्चितम्।८३॥aas.
व्याख्या-'तस्य' केवलात्मनो भगवतः, 'अत्र' सयोगिगुणस्थाने भाषः क्षायिक एव 'शुद्धः' अतिनिर्मलो भवति,
सम्यक्त्वं 'परं' प्रकृष्ट क्षायिकमेव 'हि' स्फुटं चारित्रं क्षायिकं यथाख्यातनामकं निश्चितं भवति, कोऽर्थः ? अत्रौपशमिकक्षायीपश॥५०॥ भूमिकभावयोरभावत्वात् क्षायिको भावः, तथा दर्शनमोहनीयस्य चारित्रमोहनीयस्य क्षयत्वात्क्षायिक सम्यक्त्वचारित्रे इति ॥ ८३ ॥ अथ तस्य केवलात्मनः केवलज्ञानवसमाह
चराचरमिदं विश्वं, हस्तस्थामलकोपमम्। प्रत्यक्ष भासते तस्य, केवलज्ञानभास्वतः ॥ ८४॥
व्याख्या-'तस्य' केवलज्ञानभास्वतः केवलाधिगममार्सण्डस्य 'चराचरं विश्वं सचराचरं जगत् 'हस्तस्थामलकोपमं' हस्ततलगृहीतामलकफलोपमं 'प्रत्यक्ष साक्षात्कारेण 'भासते' दीप्यत इति, अत्र भास्वतः मूर्यस्योपमान व्यवहारमात्रेणैव दर्शितं, न निश्चयतो, यतो निश्चयनयेन केवलज्ञानमूर्ययोर्महदन्तरं, यदाह-'चंदाइञ्चगहाणं. पहा पयासेइ परिमियं खितं । केवलिअनाणलंभो, लोआलोकं पयासेइ ॥१॥ ८४ ॥ अथार्जिततीर्थकृत्कर्मणो विशेषमाह
विशेषात्तीर्थकृत्कर्म, येनास्त्यर्जितमूर्जितम्। तत्कर्मोदयतोऽत्रासौ,स्याजिनेन्द्रो जगत्पतिः॥८५॥ ५०
व्याख्या-'विशेषाद्' अर्हद्भक्तिप्रमुखविंशतिपुण्यस्थानकविशेषाराधनाद् 'येन' जन्तुना ‘अनितं' स्कीतं तीर्थकृत्कर्म | वोऽथ प्र० २०भावात् ३ क्षयात् । चन्द्रादित्यग्रहाणां प्रभा प्रकाशयति परिमितं क्षेत्रम् । कैवल्यज्ञानलाभो लोकालोकं प्रकाशयति ।१।
CORCH
Jain Education International
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78