Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण०
॥४८॥
He JEZ JEH JEH H JEH JE Z JE Z JEZE
क्रियते तदविचारमिति ॥ ७७ ॥ अथ सवितर्कत्वमाह
निजशुद्धात्मनिष्टं हि भावश्रुतावलम्बनात् । चिन्तनं क्रियते यत्र, सवितर्कं तदुच्यते ॥ ७८ ॥ व्याख्या - यत्र ' निजशुद्धात्मनिष्ठं ' स्वकीयातिविशुद्धपरमात्मलीनं 'हि' स्फुटं चिन्तनं सूक्ष्मविचारणात्मकं क्रियते, तत्सवितर्कैकगुणोपेतं द्वितीयं शुक्लध्यानं, कस्मात् ! ' भावश्रुतावलम्बनात् ' सूक्ष्मान्तर्जल्परूप भावागं मश्रुतावलम्बनमात्र चिन्तनादिति ॥ ७८ ॥ अथ द्वितीयशुक्ल जनित समर सीभावमाह -
इत्येकत्वमविचारं, सवितर्कमुदाहृतम् । तस्मिन् समरसीभावं धत्ते स्वात्मानुभूतितः ॥ ७९ ॥ व्याख्या--' इति पूर्वोक्तप्रकारेण एकत्वाविचारसवितर्क रूपविशेषणत्रयोपेतं द्वितीयं शुक्लध्यानं ' उदाहृतं कथितं, ' तस्मिन् ' द्वितीये शुक्लध्याने वर्त्तमानां ध्यानी ध्यानात् समरसीभावस्तदेकीकरणं मतं । आत्मा यदपृथक्त्वेन, लीयते परमात्मनि || १ || तं समरसीभावं ' धत्ते ' धारयति, कुतः ? ' स्वात्मानुभूतितः ' स्वस्यात्मनोऽनुभूतिरनुभवनं स्वात्मानुभूतिस्तस्याः || ७९ || अथ क्षीणमोहगुणस्थानाद्धाऽवमाने यत्करोति तदाह-
Jain Education International
इत्येतद्ध्यानयोगेन, प्लुष्यत्कर्मेन्धनोत्करः । निद्राप्रचलयोर्नाशमुपान्त्ये कुरुत क्षणे ॥ ८० ॥ व्याख्या -- इत्येतत्पूर्वोक्तध्यानयोगेन द्वितीयशुक्लध्यानसमायोगेन 'प्लुष्यत्कर्मेन्धनोत्करो' दह्यमानकर्मसमिदुत्करी योगीन्द्रः
२० वगतावल० प्र०
३ सोऽयं प्र०
१ ०र्कमाह
For Private & Personal Use Only
६ ४६ ४६ 83 8
वृत्तिः
॥ ४८ ॥
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78