Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 52
________________ गुण० ॥४६॥ लोभखण्डान् क्षपयन् सन् 'द्वादशं क्षीणमोहाख्यं गुणस्थान 'व्रजेद् गच्छेदिति, अत्र क्षपकश्रेणी च समर्थयति, तत्कमश्चार्य-x अणमिच्छमीससम्म, अट्टनपुंसित्यिवेअछक्कं च । पुवेयं च खवेइ, कोहाईए असंजलणे ॥ १ ॥ ७३ ॥ अथ तत्र शुक्लध्यानस्य द्वितीयांशाश्रयणमाह भूत्वाऽथ क्षीणमोहात्मा, वीतरागो महायतिः। पूर्ववद्भावसंयुक्तो, द्वितीयं शुक्लमाश्रयेत् ॥७॥ व्याख्या-अर्थ चानन्तरं सक्षपकः क्षीणमोहात्मा भूत्वा' क्षीणमोहगुणस्थानाद्धापरिणतिमयो भूत्वा द्वितीय शुक्लध्यानं 'पूर्ववत् ' प्रथमशुक्लध्यानरीत्या 'श्रयेद् ' भजेत्, कथंभूतः क्षपकः? 'वीतरागो' विशेषेण इतो रागो यस्मात्स तथा, पुनरपि भूतः ? 'भावसंयुक्तो' विशुद्धतरभावोपेतः, एवंविधः क्षपको द्वितीयं शुक्लध्यान श्रयेदित्यर्थः ॥ ७४ ।। अथ तदेव शुक्लध्यानं सनामविशेषणमाहअपृथक्त्वमवीचारं, सवितर्कगुणान्वितम् । स ध्यायत्येकयोगेन, शुक्लध्यानं द्वितीयकम् ॥७५॥ व्याख्या-'स' क्षपकः क्षीणमोहगुणस्थानवी द्वितीयं शुक्लध्यानं 'एकयोगेन' एकतरयोगेन संध्यायति, यदाहएकं त्रियोगभाजामायं स्यादपरमेकयोगवताम् । तनुयोगिनां तृतीय, निर्योगानां चतुर्थ त् ॥१॥ कथंभूतं ? ' अपृथक्त्वं' ४ अणमिथ्यात्वमिश्रसम्यक्त्वानि अष्टनपुंसकत्रीवेदषट्कं च । पुवेदं च क्षपयति क्रोधादिकान् च संज्वलनान् ॥ १ ॥ १ सप्र० २ अथानन्तरं प्र० ३ हि प्र० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78