Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण०
॥४५॥
HK JHICH HEKK ICH IH ICH JE Zfe JEZE
ल्यतः पुंवेदः सज्वलनक्रोधो मानो माया च नश्यति, अयमर्थः - पष्ठे भागे पुंवेदः क्षीयते, सप्तमे भागे संज्वलनक्रोधः क्षीयते, अष्टमे संज्वलनमानः क्षीयते, नवमे भागे संज्वलनमाया च क्षीयते, तथा चानिवृत्तिगुणस्थानस्थो जीवो हास्यरत्यरतिभयशोकजुगुप्साव्यवच्छेदाद् द्वाविंशतेर्बन्धकः, हास्यषट्कोदयव्यवच्छेदात् षट्षष्टेर्वेदयिता, नवमांशे मायान्तपञ्चत्रिंशत्प्रकृतिसत्ताव्यवच्छेदात् त्र्युत्तरशतसत्ताको भवति || ६७ || ६८ || ६९ || ७० ॥ ७१ ॥ इति क्षपकस्य नवनम् । अथ क्षपकस्य दशमगुणस्थानमाह
ततोऽसौ स्थूललोभस्य, सूक्ष्मत्वं प्रापयन् क्षणात् । आरोहति मुनिः सूक्ष्मसंपरायं गुणास्पदम् ॥७२॥
व्याख्या- ' ततो' नवमगुणस्थानादनन्तरं 'असौ ' क्षपको मुनिः 'सूक्ष्मसंपरायास्पदं ' ( रायं गुणास्पदं ) सूक्ष्मसंपरायनामक गुणस्थानमारोहति, किं कुर्वन् ? ' क्षणात् ' क्षणमात्रात् 'स्थूललोभस्य 'स्थूलरूपस्य संज्वलन लोभस्य 'सूक्ष्मत्वं ' सूक्ष्माणुरूपत्वं प्रापयन् । तथा सूक्ष्मसंपरायस्थो जीवः पुंवेदसंज्वलनचतुष्कबन्धव्यवच्छेदाद् कर्मप्रकृतीनां सप्तदशकस्य बन्धकः, त्रिवेदत्रिसंज्वलनोदयव्यवच्छेदात्पष्ठेर्वेदयिता मायास तान्यवच्छेदात् द्वयुत्तरशतसत्ताको भवति ॥ ७२ ॥ इति क्षपकस्य दशमम् । अथ क्षपकस्यैकादशं गुणस्थानं न भवतीत्याह
Jain Education International
एकादशं गुणस्थानं, क्षपकस्य ने संभवेत् । किंतु स सूक्ष्मलोभांशान्, क्षपयन् द्वादशं व्रजेत् ॥७३॥ व्याख्या–क्षेपकस्यैकादशं गुणस्थानकं 'न' नैव भवेत्, किंतु दशमादेव गुणस्थानात्क्षपकः 'सूक्ष्मलोभांशान् ' सूक्ष्मीकृत
१ भवेन्नहि । दशमात्सूक्ष्म० प्र० २ 'हि' स्फुटं
For Private & Personal Use Only
वृत्ति:
॥४५॥
www.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78