Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण
४३॥
व्याख्या-इति' त्रयात्मकं पृथक्त्ववितर्कसविचारात्मकं प्रथमं शुक्रध्यानं कथितं, तस्माइयानात् 'परी' प्रकृष्टां शुद्धि मामोति, कथंभृतां ? 'सिद्धिश्रीसौख्यवर्णिका' मुक्तिलक्ष्मीमुखनिदर्शनिकामासादयतीत्यर्थः ।। ६५॥ अर्थतस्यैव विशेषस्वरूपमाह
यद्यपि प्रतिपात्येतदुक्तं ध्यानं प्रजायते । तथाप्यतिविशुद्धत्वार्ध्वस्थानं समीहते ॥ ६६ ॥ ___ व्याख्या-यद्यप्येतदुक्तं ध्यानं 'प्रतिपाति ' पतनशीलं 'प्रजायते ' समुत्पद्यते, तथापि 'अतिविशुद्धत्वाद् ' अतिनैर्मल्यतः 'ऊर्ध्वस्थानं ' अग्रेतनं गुणस्थानं ' समीहते' तदारोहाय धावतीत्यर्थः । तथा पूर्वगुणस्थानस्थो जीवो निद्राद्विकदेवद्विकपश्चेन्द्रियत्वप्रशस्तविहायोगतित्रसनवकत्रक्रियाहारकतैजसकामणवैकियोपाआहारकोपालआयसंस्थाननिर्माणतीर्थकृत्ववर्णचतुष्कागुरुलघूपघातपराघातोच्छ्वासरूपद्वात्रिंशत्प्रकृतिव्यवच्छंदात पइविंशतिबन्धकः, अन्त्यसंहननत्रिकसम्यक्वोदयव्यवच्छेदात द्वासप्ततर्वेदयिताsएत्रिंशदधिकशतसत्ताको भवति ॥६६॥ इति क्षपकस्याष्टमम् । अथ क्षपकोऽनिवृत्तिगुणस्थानमारोहन याः प्रकृतीर्यत्र यथा क्षिपति तत्र तास्तथा श्लोकपञ्चकनाह
अनिवृत्तिगुणस्थानं, ततः समधिगच्छति। गुणस्थानस्य तस्येव, भागेषु नवसु क्रमात् ॥ ६७ ॥ गतिः श्वाभ्री च तैरश्ची, द्वे तयोरानुपूर्विके । साधारणत्वमुद्योतः, सूक्ष्मत्वं विकलत्रयम् ॥६८॥ १ योगी 'समाहितः ' समाधिमान् 'इति' पूर्वोक्तं प्र. २ ध्यायन् परां ३ शुक्लथ्यानं ४ शुक्लध्यानं ५ ०शतेवेन्धकः ।
॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78