Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण०
॥४१॥
शून्याम्बरालम्बनम् । स्यक्त्वा सर्वमिदं कलेवरगतं चिन्तामनोविभ्रमं, तत्वं पश्यत जल्पकल्पनकलातीतं स्वभावस्थितम् ॥ १॥५९ ॥ अथाद्यशुक्लध्यानस्य नामाह
सवितर्क सविचारं, सपृथक्त्वमुदाहृतम् । त्रियोगयोगिनः साधोराद्यं शुलं सुनिर्मलम् ॥६०॥
व्याख्या-त्रियोगयोगिनः साधोः' मनोवचःकाययोगवतो मुनेः 'आय' प्रथमं शुक्लध्यानं ' उदाहृतं ' प्रोक्तं, तत्कथंभूतं ? सह वितर्कण वर्तत इति सवितर्क, सह विचारेण वर्तत इति सविचारं, सह पृथक्त्वेन वर्तत इति सपृथक्त्वं, इति विशेषणत्रयोपेतत्वात् पृथक्त्ववितर्कसविचारनामकं प्रथमं शुक्लध्यानमिति ॥ ६ ॥ अथ तद्विशेषणत्रयस्य स्वरूपमाह
श्रुतचिन्ता वितर्कः स्यात्, विचारःसंक्रमो मतः। पृथक्त्वं स्यादनेकत्वं, भवत्येतत्रयात्मकम् ॥६॥
व्याख्या-एतत्मथमं शुक्लध्यानं त्रयात्मक, क्रमोत्क्रमगृहीतविशेषणत्रयरूपं, तत्र श्रुतचिन्तारूपो वितर्कः, अर्थशब्दयोगान्तरेषु संक्रमो विचारः, द्रव्यगुणपर्यायादिभिरन्यत्वं पृथक्त्वं ॥ ६१ ॥ अथैतत्रयस्य क्रमेण व्यक्तार्थ व्याचिख्यामुः प्रथम वितर्कमाह
स्वशुद्धात्मानुभूतात्मभावश्रुतावलम्बनात्।अन्तर्जल्पो वितर्कः स्याद्, यस्मिंस्तत्सवितर्कजम् ॥२॥ व्याख्या-यस्मिन् ध्यानेऽन्तर्जल्पोऽन्तरङ्गध्वनिरूपो वितको विचारणात्मकस्तत्सवितर्क ध्यानं स्यात्, कस्मात् ? 'स्वशुद्धा१ न्यान्तरा०प्र० २ ०मात्रमाह प्र. ३.विशेषत्रय. प्र. भूत्या. प्र.
॥४॥
Jan Education Intematon
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78