Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 46
________________ त्तिः हियावन्मनस्तत्र मरुत्प्रवृत्तिविन्मरुत्तत्र मनःप्रवृत्तिः॥१॥तत्रैकनाशादपरस्य नाश, एकप्रहत्तेरपरम्वृत्तिः। विश्वरतयोरिन्द्रियवर्गशुद्धिस्तध्वंसनान्मोक्षपदस्य सिद्धिः॥२॥ इति, तत' इत्येवं' अमुना पूर्वोक्तप्रकारेण पूरकरेचककुम्भकक्रमेण 'गन्धवाहानांपवनानां 'आकुश्चनविनिर्गमौ संसाध्य ' वातानां संग्रहमोक्षावभ्यस्य 'चित्तं मनः 'एकाग्रचिन्तने' समाधिविषये निश्चलं धत्ते, मरुज्जये हि मनोनिश्चलता स्यादेव, यदाह-प्रचलति यदि क्षोणीचक्रं चलन्त्यचला अपि, प्रलयपवनप्रेलालोलाश्चलन्ति पयोधयः। पवनजयिनः सावष्टम्भप्रकाशितशक्तयः, स्थिरपरिणतेरात्मध्यानाचलन्ति न योगिनः॥१॥५८ ॥ अथ भावस्यैव प्राधान्यमाह प्राणायामक्रमप्रौढिरत्र रूढ्यैव दर्शिता । क्षपकस्य यतः श्रेण्यारोहे भावो हि कारणम् ॥५९॥ व्याख्या-'अत्र' श्रेण्यारोहे क्षपकश्रेण्यारोहविषये 'प्राणायामक्रमप्रौढिः' पवनाभ्यासक्रमप्रगल्भता 'रुढ्यैव' प्रसिद्धिमात्रतयैव दर्शिता, 'यतः' यस्मात्कारणात् 'हिः स्फुट क्षपकस्य भाव एव केवलोद्गमकारणं, न तु प्राणायामादिडम्बरः, यदुक्तं चर्पटिनापि-नासाकन्द नाडीवृन्द, वायोश्चारः प्रत्याहारः। प्राणायामो बीजग्रामो, ध्यानाभ्यासो मन्त्रन्यासः॥१॥ इत्पद्मस्थं भ्रूमध्यस्थं, नासाग्रस्थं श्वासान्तःस्थम् । तेजःशुद्धं ध्यानं बुद्धं, ॐकाराख्यं सूर्यप्रख्यम् ॥२॥ ब्रह्माकाशं शून्याभासं, मिथ्याजल्पं चिन्ताकल्पम् । कायाक्रान्तं चित्तभ्रान्तं, त्यच्या सर्व मिथ्या गर्वम् ॥३॥ गुर्वादिष्टं चिन्तोत्सृष्टं, देहातीतं भावोपेतम् । त्यक्तद्वन्दं नित्यानन्द, शुद्ध तत्वं जानीहि त्वम् ॥ ४॥ अन्यच्च-ॐकाराभ्यसनं विचित्रकरणैः प्राणस्य वायोर्जयात, तेजश्चिन्तनमात्मकायकमले १ बायूनां प्र० ॥४०॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78