Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 41
________________ गुण ॥३५॥ व्याख्या-पान्त्यदेहिनः' चरमशरीरस्य 'अबद्धायुषः' अकृतायुर्वन्धस्य 'लघुकर्मणः' अल्पकर्मणोऽल्पकाशस्य क्षपकस्य ' असंयतगुणस्थाने ' चतुर्थे गुणालये 'नरकायुः क्षयं व्रजेत् ' नरकयोग्यायुः क्षयं याति, तथा पश्चमे गुणस्थाने तिर्यगायुः क्षयं याति, सप्तमे गुणस्थाने 'त्रिदशायुः' देवायुरपि क्षयं याति, तथा तत्र सप्तमे गुणस्थाने हग्मोहस्य सप्तकमपि क्षयं याति, ततः क्षपकः साधुरष्टाचत्वारिंशदधिकशतकर्मप्रकृतिमध्यादेता दश प्रकृतीः क्षयं नीत्वाऽत्रिंशदधिकशतप्रकृतिसचाकोऽष्टमं स्थानं 'मानोति' लभते, कथंभूतः ? 'धर्मध्याने कृताभ्यासः' उत्कृष्टे धर्मध्याने रूपातीतलक्षणे कुतोऽभ्यासो येन स सथा, अभ्यासःपुनः पुनरासेवन, तेनैवाभ्यामयोगेन तस्वप्राप्तिः स्यात, यदाह-अभ्यासेन जिताहारोऽभ्यासेनैव जितासनः । अभ्यासेन जितश्वासोऽभ्यासेनैवानिलटिः॥१॥ अभ्यासेन स्थिर चित्तमभ्यासन जितेन्द्रियः। अभ्यासेन परानन्दोऽभ्यासेनैवात्मदर्शन। ॥२॥ अभ्यासवर्जितैया॑नः, शास्त्रस्थैः फलमस्ति न । भोन हि फलस्तृप्तिः, पानीयप्रतिविम्बितैः ॥ ३ ॥ ततोऽभ्यासादेव 'विशुदधीः' निर्मलतत्वानुयायेिबुद्धिरिति ॥४८॥ ४९ ॥ ५० ॥ अथात्राष्टमे गुणस्थाने क्षपकस्य शुक्लध्यानारम्भमाद तत्राष्टमे गुणस्थाने, शुक्लसद्धथानमादिमम् । ध्यातुं प्रक्रमते साधुराधसंहननान्वितः ॥ ५१ ॥ व्याख्या-क्षपकः साधुस्तत्राष्टमे गुणस्थाने 'शुक्लसत्यानं 'शुकनामक प्रधान ध्यान, आय-प्रथम पृथक्ववितर्कसपविचारलक्षणं वक्ष्यमाणं ध्यातुं प्रक्रमते, कथंभूतः साधुः ? 'आधसंहननान्वितो' बज्रर्षभनाराचनामकप्रथमसंहननयुक्त इति १ अत्र प्र० २ ०ध्यानकृता. प्र. Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78