Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण०
॥३०॥
४६४६३२०४६३४०४६३२०४६८१४०
अथापूर्वकरणायंशादेव श्रेणिद्वयारोहमाह
तत्रापूर्वगुणस्थानाद्यांशादेवाधिरोहति । शमको हि शमश्रेणि, क्षपकः क्षपकावलीम् ॥ ३९ ॥ व्याख्या—' तत्र ' तस्मिन्नपूर्वगुणस्थानावे रोहसमयेऽपूर्वकरणस्यैवाद्यांशादेव शमकः शमश्रेणिमारोहति, क्षपकः क्षपकावल क्षपकश्रेणिमधिरोहति ॥ ३९ ॥ अथ प्रथममुपशमश्रेण्यारोहयोग्यतामाह
पूर्वज्ञः शुद्धिमान् युक्तो, ह्याद्यैः संहननैस्त्रिभिः । संध्यायन्नाद्यशुक्लांशं, स्वां श्रेणीं शमकः श्रयेत् ॥४०॥ व्याख्या — अत्रोपशमको मुनिराद्यशुक्रांशं शुक्लध्यानस्य प्रथमं पादं वक्ष्यमाणलक्षणं संध्यायन् ' स्वां श्रेणीं ' उपशमश्रेणीं शमकः ' श्रयेत् ' प्रतिपद्येत, कथंभूतः ? ' पूर्वज्ञः ' पूर्वगतश्रुतधरः, 'शुद्धिमान् ' निरतिचारचारित्रः, 'आद्यैस्त्रिभिः संहननैः वज्रऋषभनाराचऋषभनाराचनाराचलक्षणैर्युक्तः, एवंविधो मुनिरुपशमश्रेणीं श्रयेदिति ॥ ४० ॥ अथोपशमश्रेण्यारूढस्याल्पायुषो गति दीर्घायुषः कृत्यं चाह -
Jain Education International
श्रेण्यारूढः कृते कालेऽहमिन्द्रेष्वेव गच्छति । पुष्टायुस्तूपशान्तान्तं, नयच्चारित्रमोहनम् ॥ ४१ ॥ व्याख्या—यो मुनिरल्पायुरुपशमश्रेणिमारोहति, स श्रेण्यारूढः ' काले ' आयुस्त्रुटिलक्षणे कृते सति ' अहमिन्द्रेष्वेव '
१ ० धिरोह० प्र०
२ शुक्लध्यानांशं शुक्ल०
३ श्रयतीति प्र०
For Private & Personal Use Only
*** ४९
वृत्तिः
॥३०॥
www.jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78