Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण०
॥२५॥
HH HH HH HH HHH HH HH HEZE JEH
"
सामायिकादिभिरेव ' कुर्यात् करोतु, 'यावदप्रमत्तगुणाश्रितं ' अप्रमत्तगुणस्थानसाध्यं ' सद्ध्यानं ' निरालम्बध्यानं ' नामोति ' नासादयतीत्यर्थः, तथा तिर्यग्गतितिर्यगायुर्न चैर्गोत्रोद्योतप्रत्याख्यानरूपाष्टप्रकृत्युदयव्यवच्छेदाहारकद्वयोदयाच्चैकाशीतेर्वेदयिता अष्टत्रिंशदधिकशतसत्ताको भवति ॥ ३१ ॥ इति प्रमत्तगुणस्थानकं षष्ठम् । अथाप्रमत्तगुणस्थानमाह
चतुर्थानां कषायाणां, जाते मन्दोदये सति । भवेत्प्रमादहीनत्वादप्रमत्तो महाव्रती ॥ ३२ ॥ व्याख्या - महाव्रतानि विद्यन्ते यस्यासौ महाव्रती साधुः, ' अप्रमत्तो' अप्रमत्तगुणस्थानस्थो भवति, कस्मात् ? ' प्रमादहीनत्वात् पूर्वोक्तपञ्चप्रकारममादरहित्वात् क सति ? ' मन्दोदये जाते सति मन्दोऽतीत्रविपाक उदयोऽस्तित्वमात्र लक्षणो यत्रासौ मन्दोदयस्तस्मिन्मन्दोदये, केषां ? ' चतुर्थानां कषायाणां संज्वलनाभिधानक्रोधादीनामुपलक्षणत्वानोकपायाणां च अयमर्थः संज्वलनकषायाणां मोकपायाणां च यथा यथा मन्दोदयो भवति, तथा तथा साधुरप्रमत्तो भवति, यदाह - यथा यथा न रोचन्ते, विषयाः सुलभा अपि । तथा तथा समायाति संवित्तौ तत्रमुत्तमम् ॥ १ ॥ यथा यथा समायाति संवित्तौ तमुत्तमम् । तथा तथा न रोचन्ते, विषयाः सुलभा अपि ॥ २ ॥ ३२ ॥ अथ यथाsप्रमसस्थ एव मोहनीय कर्मोपशमक्षपणनिपुणः सद्ध्यानारम्भकत्वं कुरुते, तथा श्लोकद्वयेनाह
नष्टाशेषप्रमादात्मा, व्रतशीलगुणान्वितः । ज्ञानध्यानधनो मौनी, शमनक्षपणोन्मुखः ॥ ३३ ॥ सप्तकोत्तरमोहस्य, प्रशमाय क्षयाय वा । सद्ध्यानसाधनारम्भं कुरुते मुनिपुङ्गवः ॥ ३४ ॥ युग्मम्
Jain Education International
For Private & Personal Use Only
वृतिः
||२५||
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78