Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 32
________________ गुण० ॥२६॥ HEHEHEHEHEHEHEHHEHICH HEHEHEHHH व्याख्या - नष्टाशेषप्रमादो - निर्द्धाटिताखिलप्रमादः आत्मा - जीवो यस्यासौ नष्टाशेपप्रमादात्मा, व्रतानि - महाव्रतादीनि, शीलगुणा - अष्टादशसहस्रशीलाङ्गलक्षणास्तैरन्वितः संयुक्तो व्रतशीलगुणान्वितः ज्ञानं - सदागमाभ्यासलक्षणं, ध्यानम् - एकावतारूपं तद्, ज्ञानं च ध्यानं च धनं सर्वस्वं यस्यासौ ज्ञानध्यानधनः, अत एव ' मौनी ' मौनवान्, यतो मौनवानेत्र ध्यानधनः स्यात्, यदाहः -- तत्रं मनोगृहीताखिल- कालत्रयगतजगत्रयव्याप्तिः । यत्रास्तमेति सहसा, सकलोऽपि हि वाक्परिस्पन्दः ॥ १ ॥ ततो ज्ञानध्यानधन मौनी ' शमनाय ' शमनार्थे, ' क्षपणाय ' क्षपणार्थ वा ' उन्मुखः ' संमुखः कृतोद्यम इत्यर्थः, शमनक्षपणोन्मुखः, एवंविधो मुनिपुङ्गवः, 'सप्तकोत्तरमोहस्य' पूर्वोक्तसप्तकातिरिक्तैकविंशतिप्रकृतिरूपस्य मोहनीयस्य शमनोन्मुखः प्रशमाय क्षपणोन्मुखः क्षयाय वा ' सद्ध्यानसाधनारम्भं निरालम्बध्यानप्रवेशप्रारम्भं कुरुते, निरालम्बे ध्यानप्रवेशे हि योगिनस्त्रिविधा भवन्तियथा प्रारम्भकाः, तन्निष्ठाः, निष्पन्नयोगाथ, यदाह - सम्यग्नैसगिकीं वा विरतिपरिणति प्राप्य सांसर्गिकींवा, क्वाप्येकान्ते निविष्टाः कपिचपलचलन्मानसस्तम्भनाय । शश्वन्नासाग्रपालीघनघटितदृशो धीरवीरासनस्था, ये निष्कम्पाः समाधेर्विदधति विधिनारम्भमारम्भकास्ते || १ || कुर्वाणो मरुदासनेन्द्रियमनःक्षुत्तर्षनिद्राजयं, योऽन्तर्जल्पनिरूपणाभिरसकृत्तत्वं समभ्यस्यति । सच्चानामुपरि प्रमोदकरुणामैत्रीभृशं मन्यते, ध्यानाधिष्ठितचेष्टयाऽभ्युदयते तस्येद्द तन्निष्टता || २ || उपरतवहिरन्तर्जल्पकल्लोलमाले, लसदविकलविद्या - द्मिनीपूर्णमध्ये | सततममृतमन्तर्मान से यस्य हंसः पिबति निरुपलेपः स्यात्तुं निष्पन्नयोगी ॥ ३ ॥ ३४ ॥ अथाप्रमत्तगुणस्थाने ध्यानसंभवमाह १ तं नमत प्र० २ व्याप्तिम् प्र० ३ सन् प्र० ४० सम्यक्त्वमिश्र मिथ्यात्वानन्तानुबन्धि चतुष्टयरक्षण सप्तकव्यतिरिक्ते० प्र० ५ निषाणाः प्र० ६ सोऽत्र प्र० Jain Education International For Private & Personal Use Only ००१००६९० ६९०४६२२००६२९००४६२ वृतिः ॥२६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78