Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गुण
॥२४॥
मुकुलयन् कल्लोललोलं मनः । त्वां चन्द्रांशुमरीचिमण्डलरुचिं साक्षादिवालोकयन् , संपद्येय कदा चिदात्मकपरानन्दोर्मिसंवर्मितम् ॥२॥ तथा परसमयेऽपि भर्तृहरिः-गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य, ब्रह्मज्ञानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम मुदिवसैर्यत्र ते निर्विशङ्काः , संप्राप्स्यन्ते जरठहरिणाः शङ्गकण्डूविनोदम् ॥१॥ वितीर्णे सर्वस्त्रे तरुणकरुणापूर्णहृदयाः, स्मरन्तः संसारे विगुणपरिणामावधिगतिम् । कदा पुण्येऽरण्ये परिणतशरच्चन्द्रकिरणां, त्रियामां नेष्यामो गुरुगदिततत्वैकशरणाः ॥ २ ॥ तदेवं स्वसमयपरसमयप्रसिद्धैः पूर्वपुरुः परात्मतस्वसंवित्तिमनोरथा एव कृताः, मनोरथाश्च लोके दुष्पाप्यवस्तुन एव क्रियन्ते, नतु सुप्राप्यस्य, न खलु कोऽपि सदैव मिष्टानाहारं भुजन् मिष्टान्नाहारमनोरथान् कुरुते, न च कश्चित्पाज्यं साम्राज्यमनुभवअपि कदाऽहं राजा भविष्यामीति चिन्तयति, तस्मात्सर्वप्रकारेण प्रमत्तान्तगुणस्थानस्थैर्विवेकिभिः परमसंवेगारूढः प्राप्तप्रौढाप्रमतगुणस्थानस्य वशतोऽपि शुद्धपरमात्मतत्त्वसंवित्तिमनोरथाः कार्याः, न तु षट्कर्मषडावश्यकादिव्यवहारक्रियाकर्मपरिहारः कार्यः, यतः-योगिनः समतामेतां प्राप्य कल्पलतामिव । सदाचारमयीमस्यां, वृत्तिमातन्वतां बहिः ॥१॥ ये तु योगग्रहग्रस्ताः, | सदाचारपराङ्मुखाः । एवं तेषां न योगोऽपि, न लोकोऽपि जडात्मनाम् ॥२॥ इति ॥ ३० ॥ तस्माद्यत्करणीयं तदाह
तस्मादावश्यकैः कुर्यात्, प्राप्तदोषनिकृन्तनम् । यावन्नाप्नोति सद्ध्यानमप्रमत्तगुणाश्रितम्॥३१॥ व्याख्या-तस्मात् ' पूर्वोक्तहेतुकारणात्साधुस्तावत् 'प्राप्तदोपनिकृन्तनं ' देवसिकाद्यासेवितातिचारच्छेदनं 'आवश्यकैः' १ सण्डांशु० प्र० २ स्वगुण० प्र० ३ स्पर्शवशतोऽपि प्र. ४ हेतुत्वात् प्र० (हेतो.)
Jain Education Intemat
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78