Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 28
________________ गण. वृत्ति ॥२२॥ न तु मुख्यता, ततोऽत्र निरालम्बनोत्कृष्टधर्मध्यानस्यासंभव एव ॥ २९ ॥ अथ योऽमुमेवार्थ न मन्यते तं प्रत्याह प्रमाद्यावश्यकत्यागान्निश्चलं ध्यानमाश्रयेत्। योऽसौ नैवागमंजैन, वेत्ति मिथ्यात्वमोहितः॥३०॥ व्याख्या-'या' साधुः 'प्रमादी' प्रमादयुक्तोऽपि 'आवश्यकत्यागात्' सामायिकादिपडावश्यकसाधकानुष्ठानपरिहारात् 'निश्चलं' निरालम्बं ध्यानमाश्रयेत् , ' असौ ' साधुः 'मिथ्यात्वमोहितो' मिथ्याभावमूढः सन् ‘जैनागमं'. श्रीसर्वज्ञप्रणीतसूत्रं, नैव वेत्तीति, यतोऽसौ व्यवहारं न करोति निश्चयं नामोति, जिनागमविद्भिस्तु व्यवहारपूर्वक एव निश्चयः साध्यः, यदागमः+ जइ जिणमयं पवजह, ता मा ववहारनिच्छए मुअह । ववहारनउच्छेए, तित्थुच्छेओ जओ भणिओ॥१॥ दृष्टान्तश्चात्र-यथा कश्चित्पुरुषः स्वस्मिन् गृहे सदैव कदनमात्रमास्वादयन् केनापि निमन्त्रितस्तस्य गृहेऽभुक्तांपूर्व मिष्टामाहारं भुक्तवान् , ततोऽसौ तदास्वादरसलोलुपतया स्वगृहकदनं निरास्वादमितिकृत्वा न भुते, तमेवातिदुष्पापं मिष्टानमेवाभिलपति, ततः स्वगृह कदनादिकमभुञ्जन् मिष्टान्नं चाप्राप्नुवन्नुभयाभावतया सीदति, तथाऽयमपि कदाग्रहगृहीतो जीवः प्रमत्तगुणस्थानसाध्यं स्थूलमात्रपुण्यपुष्टिकारणं षडावश्यकादिकष्टक्रियार्केर्माकुर्वाणः कदाचित् अप्रमत्तगुणस्थाभलभ्यं निर्विकल्पमनोजनितसमाधिरूपनिरालम्बध्यानांशममृताहारकल्प लब्धवान्, ततस्तजनितपरमानन्दमुखास्वादतया प्रमत्तगुणस्थानगतं घडावश्यकादिकष्टक्रियाकर्म कदमकल्पं मन्वानो न सम्यक् १०संभवात् प्र + यदि जिनमतं प्रपद्येयास्तन् मा व्यवहारनिश्चयौ मुचः । व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यम् ॥ १ ॥ २ अमुक्त अपूर्वमिष्टान्नाहारं प्र० ३ ततस्तदा० प्र० ४ ०दिककष्टक्रियामकु० प्र० ॥२२॥ 1 in Education Intematonal For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78