Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 27
________________ गुण ॥२१॥ व्याख्या-'अत्र' प्रमत्तगुणस्थानके 'मुख्यता' मुख्यत्वं 'आर्तस्य' ध्यानस्यैवोपलक्षणत्वाद्रौद्रस्यापि, कस्मात् ? कस्मात् वृत्ति 'नोकपायाणां' हास्यषट्कादीनां' अस्तित्वाद् विद्यमानत्वात् , तथा 'आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता' आज्ञादीन्याज्ञापायविपाकसंस्थानविचयलक्षणान्यालम्बनानि आज्ञाद्यालम्बनानि तैरुपेतं च तद्धर्मध्यानं चाज्ञाद्यालम्बनोपेतधर्मध्यानं तस्य, अत्र धर्मध्यानमपि चतुष्पादं यथा-आज्ञापायविपाकानां, संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन, धर्मध्यानं चतुर्विधम् । ॥१॥ आज्ञा यत्र पुरस्कृत्य, सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदर्थान् , तदाज्ञाध्यानमुच्यते ॥२॥ रागद्वेषकषायायैर्जायमानान् विचिन्तयेत् । यत्रापायर्यास्तदपायविचयध्यानमुच्यते ॥ ३ ॥ प्रतिक्षणं समुद्भूतो, यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स, विपाकविचयो मतः ॥ ४॥ अनाद्यन्तस्य लोकस्य, स्थित्युत्पादव्ययात्मनः। आकृति चिन्तयेद्यत्र, संस्थानविचयः स तु ॥५॥ o इत्याज्ञाद्यालन्वनोपेतधर्मध्यानस्य गौणता अत्र सप्रमादत्वादुच्यत इति ॥ २८ ॥ अथ ये प्रमत्तस्था निरालम्बनमपि धर्मध्यानं समीहन्ते, तान् प्रति तनिषेधमाह यावत्प्रमादसंयुक्तस्तावत्तस्य न तिष्ठति । धर्मध्यानं निरालम्बमित्यूचुर्जिनभास्कराः ॥ २९ ॥ व्याख्या-'जिनभास्करा' जिनसूर्या ' इत्यूचुः' इत्येतदेव कथयन्ति स्म, किं तदित्यौह-यः साधुर्यावत्प्रमादसंयुक्तो || | ॥२१॥ | भवति, तावत्तस्य साधोर्गोचरे निरालम्ब ध्यानं न तिष्ठतीति निश्चयः, यतोऽत्र प्रमत्तगुणस्थाने मध्यमधर्मध्यानस्यापि गौणतैवोक्ता, १ विचिन्तनात् प्र. २ ०त्वान्न मुख्यतेति प्र० ३ इतीति किम् !-प्र० Jain Education International For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78