Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 19
________________ नि कृपाप्रशमसंवेगनिर्वेदास्तिक्यलक्षणाः । गुणा भवन्ति यञ्चित्ते, स स्यात्सम्यक्त्वभूषितः ॥२१॥ व्याख्या-दुःखितेषु जन्तुषु दुःखापहारचिन्ता कृपा १, कोपादिकारणेधूत्पन्नेषु तीव्रानुशयाभावः प्रशमः २, धाधिरोहसोपानसमानसम्यग्ज्ञानादिसाधनोत्साहलक्षणो मोक्षाभिलाषः संवेगः ३, अत्यन्तकुत्सिततरसंसारचारकनिर्गमद्वारोपमपरमवैराग्यप्रवेशरूपो निर्वेदः ४, श्रीसर्वज्ञप्रणीतसमस्तभावानामस्तित्वनिश्चयचिन्तनमास्तिक्यं ५, तदेते कृपाप्रशमसंवेगनिर्वेदास्तिक्यलक्षणा गुणा यस्य चित्ते भवन्ति, स भव्यजन्तुः सम्यक्त्वालङ्कृतो भवति ॥ २१॥ अथ सम्यग्दृष्टिगुणस्थानवर्तिनां गतिमाहक्षायोपशमिकी दृष्टिः, स्यान्नरामरसंपदे । क्षायिकी तु भवे तत्र, त्रितुर्ये वा विमुक्तये ॥ २२ ॥ व्याख्या-अत्र जीवपरिणामविशेषरूपं करणमुच्यते, तत्रिधा-यथाप्रवृत्तिकरणं, अपूर्वकरणं, अनिवृत्तिकरणं चेति, तत्र गिरिसरिजलाभ्यालोडचमानपाषाणवद् घोलनान्यायेन जीव आयुर्वर्जकर्माणि किञ्चिदुबैककोटाकोटिसागरस्थितिकानि कुर्वन् येनाध्यवसायविशेषेण ग्रन्थिदेशं यावदायाति तद्यथाप्रवृत्तिकरणमुच्यते ॥ तथा येन अप्राप्तपूर्वेण अध्यवसायविशेषेण तं ग्रन्थिं-धनरागद्वेषपरिणतिरूपं भेत्तुमारभते तद् अपूर्वकरणमुच्यते २। येनाध्यवसायविशेषेणानिवर्त्तकेन ग्रन्थिभेदं कृत्वाऽतिपरमाल्हादजनकं १ ०णेऽप्युत्पन्ने प्र०. २ क्रोधाभावः ॥१३॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78